6-4-38 वा ल्यपि असिद्धवत् अत्र आभात् नलोपः अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनसिकलोपः
ल्यपि परतोऽनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो वा भवति। व्यवस्थितविभाषा (परि०९९) चेयम्। तेन मकारान्तानां विकल्पो भवति, अन्यत्र नित्यमेव लोपः। प्रयत्य, प्रयम्य। प्ररत्य, प्ररम्य। प्रणत्य, प्रणम्य। आगत्य, आगम्य। आहत्य। प्रमत्य। प्रवत्य। प्रक्षत्य॥
अनुदात्तोपदेशानां वनतितनोत्यादीनामनुनासिकलोपो वा स्याल्ल्यपि । व्यवस्थितविभाषेयम् । तेन मान्तानिटां वा नान्तनिटां वनादीनां च नित्यम् । आगत्य । आगम्य । प्रणत्य । प्रणम्य । प्रहत्य । प्रमत्य । प्रवत्य । वितत्य । अदो जग्धिः-<{SK3080}> । [(परिभाषा - ) अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब्बाधते] ॥ जग्धिविधौ ल्यब्ग्रहणात् । तेन । हित्वदत्त्वात्वेत्वदीर्घत्वशूठिटो ल्यपि न । विधाय । प्रधाय । प्रखन्य । प्रस्थाय । प्रक्रम्य । आपृच्छ्य । प्रदीव्य । प्रपठ्य ॥