आर्धधातुकस्येड् वलादेः

7-2-35 आर्धधातुकस्य इट् वलादेः

Sampurna sutra

Up

index: 7.2.35 sutra: आर्धधातुकस्येड् वलादेः


वलादेः आर्धधातुकस्य इट्

Neelesh Sanskrit Brief

Up

index: 7.2.35 sutra: आर्धधातुकस्येड् वलादेः


वलादि-आर्धधातुक-प्रत्ययस्य इट्-आगमः भवति ।

Neelesh English Brief

Up

index: 7.2.35 sutra: आर्धधातुकस्येड् वलादेः


An आर्धधातुक-प्रत्यय that starts with a वल् letter gets an इट् आगम.

Kashika

Up

index: 7.2.35 sutra: आर्धधातुकस्येड् वलादेः


छन्दसि इति निवृत्तम्। आर्धधातुकस्य वलादेरिडागमो भवति। लविता। लवितुम्। लवितव्यम्। पविता। पवितुम्। पवितव्यम्। आर्धधातुकस्य इति किम्? आस्ते। शेते। वस्ते। रुदादिभ्यः सार्वधातुके 7.2.56 इत्येतस्मिन् नियमार्थे वज्ञायमाने प्रतिपत्तिगौरवम् भवतीति आर्धधातुकग्रहणं क्रियते। वलादेः इति किम्? लव्यम्। पव्यम्। लवनीयम्। पवनीयम्। इटिति वर्तमाने पुनः इड्ग्रहणं प्रतिषेधनिवृत्त्यर्थम्।

Siddhanta Kaumudi

Up

index: 7.2.35 sutra: आर्धधातुकस्येड् वलादेः


वलादेरार्धधातुकस्येडागमः स्यात् । बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.35 sutra: आर्धधातुकस्येड् वलादेः


वलादेरार्धधातुरस्येडागमः स्यात्। बभूविथ। बभूवथुः। बभूव। बभूव। बभूविव। बभूविम॥

Neelesh Sanskrit Detailed

Up

index: 7.2.35 sutra: आर्धधातुकस्येड् वलादेः


यस्य आर्धधातुकप्रत्ययस्य प्रथमवर्णः यकारम् विहाय अन्यत् व्यञ्जनमस्ति, तस्य आर्धधातुकप्रत्ययस्य इट्-आगमः भवति ।

यथा -

  1. [तकारादिप्रत्ययः] अर्च् + तृच् → अर्चिता ।

  2. [सकारादिप्रत्ययः] लिख् + स्य + तिप् → लेखिष्यति ।

  3. [थकारादिप्रत्ययः] चल्-धातोः लिट्-लकारस्य मध्यमपुरुषैकवचनम् - चल् + थल् → चेलिथ ।

  4. [वकारादिप्रत्ययः] पच्-धातोः लिट्-लकारस्य उत्तमपुरुषद्विवचनम् - पच् + व → पेचिव ।

  5. [मकारादिप्रत्ययः] हस्-धातोः लिट्-लकारस्य उत्तमपुरुषबहुवचनम् - हस् + म = जहसिम ।

  6. [धकारादिप्रत्ययः] स्पर्ध्-धातोः लिट्-लकारस्य मध्यमपुरुषबहुवचनम् - स्पर्ध् + ध्वे - पस्पर्धिध्वे ।

ज्ञातव्यम् -

  1. आर्धधातुकं शेषः 3.4.114 इत्यनेन धातुभ्यः विहिताः तिङ्भिन्नाः शित्-भिन्नाः च प्रत्ययाः 'आर्धधातुक'संज्ञकाः भवन्ति ।

  2. आर्धधातुकप्रत्यये इत्-वर्णाः सन्ति चेत् तेषां लोपं कृत्वा अनन्तरमेव 'प्रथमः वर्णः कः' इति निश्चेतव्यम् । यथा, 'ण्यत्' अस्य प्रथमः वर्णः यकारः अस्ति, यतः णकारस्य चुटू 1.3.7 इत्यनेन इत्संज्ञा लोपश्च भवति ।

  3. यदि प्रत्ययस्य कश्चन आदेशः उक्तः अस्ति, तर्हि प्रथमं तमादेशं कृत्वा अनन्तरमेव तस्य आदेशस्य आदिवर्णः द्रष्टव्यः । यथा, यद्यपि 'ण्वुल्' प्रत्ययः वकारादिः अस्ति, तथापि अस्य प्रत्ययस्य युवोरनाकौ 7.1.1 इत्यनेन अक-आदेशः भवति, यः अजादिः अस्ति । अतः ण्वुल्-प्रत्ययः अजादिः एव ज्ञातव्यः ।

  4. ये धातवः औपदेशिक-अवस्थायाम् एकाचः सन्ति, येषां स्वरः च अनुदात्तसंज्ञकः अस्ति, तेषां विषये अनेन सूत्रेण इडागमे प्राप्ते एकाच उपदेशेऽनुदात्तात् 7.2.10 इत्यनेन सः निषिध्यते । अतः एतेषां विषये वलादि-आर्धधातुके प्रत्यये परे अपि इडागमः न भवति । एते धातवः एव सामान्यभाषायाम् 'अनिट्' धातवः नाम्ना ज्ञायन्ते ।

  5. अस्य सूत्रस्य प्रसक्तिः आर्धधातुकप्रत्यये परे एव अस्ति, सार्वधातुके प्रत्यये परे न ।

Balamanorama

Up

index: 7.2.35 sutra: आर्धधातुकस्येड् वलादेः


आर्धधातुकस्येड् वलादेः - सिपस्थलि बभू थ इति स्थिते — आर्धधातुस्येट् ।नेड्वशि कृती॑त्यस्मादनुवृत्त्यैव सिद्धेरिहेड्ग्रहणं न कार्यमितिनेड्वशी॑ति सूत्रभाष्ये प्रत्याख्यातम् । आर्धधातुकस्येति किम् । जुगुप्सति । अत्र 'गुप्तिज्किद्भ्य' इति सनो धातोरित्यधिकृत्य विहितत्वाऽभावान्नार्धधातुकत्वम् । बभूविथेति । सिपस्थलि तस्य इडागमे वुगादि पूर्ववत् । बभूवथुरिति । थसोऽथुसादेशे वुगादि पूर्ववत् । सकारस्य रुत्वविसर्गौ । बभूवेति । मध्यमपुरुषबहुवचनस्य अकारः सर्वादेश इतिपरस्मैपदानां णलतु॑सित्यत्रोक्तम् । वुगादि पूर्ववत् । बभूवेति । मिपो णलि वुगादि पूर्ववत् । बभूविवेति । वसो वादेशे वलादित्वादिडागमे वुगादि पूर्ववत् । नचात्रश्र्युकः किती॑तीडागमनिषेधः शङ्क्यः,कृसृभृवृस्तुद्रुरुआउश्रुवो लिटी॑ति क्रादिनियमादिटसिद्धेः । बभूविमेति । मसो मादेशे इडागमे वुगादि पूर्ववत् । इति लिट्प्रक्रिया ।

Padamanjari

Up

index: 7.2.35 sutra: आर्धधातुकस्येड् वलादेः


आस्ते, वस्त इति । ननु च रुदादिभ्यः सार्वधातुके इत्येतन्नियमार्थ भविष्यति - रुदादिभ्य एव एसार्वधातुक इति तत्राह - रुदादिभ्यः सार्वधातुक इत्येतस्तमिन्निति । नियमे त्वेतस्मिन् विज्ञायमाने विपरीतोऽपि नियमः सम्भाव्यते - रुदादिभयः सार्वधातुके एवेति । तत्र च वक्तव्यं रुदविदेति क्त्वासनोः कित्वविधानान्न भविष्यति । तानिटः सनो झलादेर्हलन्ताच्च इत्येव सिद्धत्वात् । क्त्वोऽप्यनिट औपदेशिककित्वसद्भावादिति, ततश्च प्रतिपतिगौरवं स्यात् । ननु चासत्यार्धधातुकग्रहतणे अङ्ग्स्य इत्यधिकारतस्यैवेट् प्राप्नोति, यथा लुङ्लङ्लृङ्क्ष्वडुदातः इति ज्ञापकात्सिद्धम्, यदयम् एकाच उपदेशेषनुदातात् इति प्रत्ययस्यट्प्रतिषेधं शास्ति, यच्च निष्ठायां सेटि न क्त्वा सेट् इत्याह, तज्ज्ञापयति - प्रत्ययस्यैवायमिडिति । न च वृक्षत्वमित्यादौ प्रतिपदिकप्रत्ययस्य प्रसङ्गः, आञ्त तैद्धातोः इत्यधिकारात् । एवमपि जुगुप्सते, ल्भ्याम्, लूभिरित्यादौ प्रसङ्गः इदितो नुम् धातोः इत्यतो द्वितीयमपि धातुग्रहणमनुवर्तिष्यते, तत्रैकं स्वरुपपदार्थकम्, ततश्च धातोः इत्येवं धातुसंश्बदनेन विहितस्य धातोः परस्येड्विधानान्न क्वाप्यनिष्ट्ंअ रूपम् । तदेवं बहुप्रतिविधेयत्वात् प्रतिपतिगौरवपरिहार्थमार्धधातुकस्य इत्युक्तम् । प्रतिषेधनिवृत्यर्थमिति । केन पुनः प्राप्तस्य प्रतिषेधः शङ्क्यते इदमेव वचनं कल्पकं स्यात् - अस्त्यार्द्धधातुकमात्रस्येट्, यतो वलादेः प्रतिषिध्यत इति । तनेङ्वशि कृति थैत्यादिकस्तु प्रतिषेधो नियमार्थः स्यात् ॥