इट ईटि

8-2-28 इटः ईटि पदस्य पूर्वत्र असिद्धम् लोपः सस्य झलि

Kashika

Up

index: 8.2.28 sutra: इट ईटि


इटः उत्तरस्य सकारस्य लोपो भवति ईटि परतः। अदावीत्। अलावीत्। असेवीत्। अकोषीत्। अमोषीत्। इटः इति किम्? अकार्षीत्। अहार्षीत्। ईटि इति किम्? अलाविष्टाम्। अलाविषुः।

Siddhanta Kaumudi

Up

index: 8.2.28 sutra: इट ईटि


इटः परस्य सस्य लोपः स्यादीटि परे ।<!सिज्जलोप एकादेशे सिद्धो वाच्यः !> (वार्तिकम्) ॥ आतीत् । आतिष्टाम् । आतिषुः ॥

Laghu Siddhanta Kaumudi

Up

index: 8.2.28 sutra: इट ईटि


इटः परस्य सस्य लोपः स्यादीटि परे। सिज्लोप एकादेशे सिद्धो वाच्यः (वार्त्तिकम्)। आतीत्। आतिष्टाम्॥

Balamanorama

Up

index: 8.2.28 sutra: इट ईटि


इट ईटि - इट ईटि । 'इट' इति पञ्चमी । रात्सस्येत्यतः सस्येति, संयोगान्तस्येत्यतो लोप इति चानुवर्तते । तदाह — इटः परस्येति । एवं च आति स् ई त् इति स्थिते सकारस्यलोपे आति ईत् — इति स्थिते सवर्णदीर्घे आतीदिति रूपं वक्ष्यति । तत्र सलोपस्याऽसिद्धत्वात्कथं सवर्णदीर्घं इत्यत आह — सिज्लोप एकादेशे सिद्धो वक्तव्य इति । आतिष्टामिति । लुङस्तस् । तस्य ताम् । च्लेः सिच् । तस्य इटि आचि वृद्धौ षत्वम् । अपृक्तत्वाऽभावेन ईडभावात्सलोपो न । आतिषुरिति । लुङो झिः । च्लेः सिच् । जुस् इट् आट् वृद्धिः । षत्वं रुत्वविसर्गौ । आतीः आतिष्टमातिष्ट । आतिषमातिष्व आतिष्म ।

Padamanjari

Up

index: 8.2.28 sutra: इट ईटि


अत्र सिच एव सम्भवः ॥