7-1-90 गोतः णित् सर्वनामस्थाने
गोतः सर्वनामस्थाने णित्
गो-शब्दात् परस्य सर्वनामस्थानम् 'णित्' भवति ।
The सर्वनामस्थान-प्रत्यय following the word गो becomes णित्.
गोशब्दात् परं सर्वनामस्थानं णिद् भवति। णित्कार्यं तत्र भवतीत्यर्थः। गौः, गावौ, गावः। तपकरणं किम्? चित्रगुः। शबलगुः। कथं हे चित्रगो, हे चित्रगव इति? <<अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य>>इति संबुद्धिजसोर्गुणे कृते णित्त्वं न भवति। अथवा गोत इति संबन्धलक्षणा षष्ठी। गोतः संबन्धि यत् सर्वनामस्थानमिति। यत् च तदर्थस्यैकत्वादिषु सर्वनामस्थानं तद् गोः सर्वनामस्थानमित्युच्यते। चित्रगुशब्दात् तु यत् सर्वनामस्थानं तदन्यपदार्थस्यैकत्वादीनाह। तपरकरणं तु निर्देशार्थमेव। केचिद् ओतो णित् इति पठन्ति, द्योशब्दादपि यत् सर्वनामस्थानं विद्यते तदर्थम्। द्यौः, द्यावौ, द्यावः। गोत इत्येतदेव तपरकरणनिर्देशादोकारान्तोपलक्षणं द्रष्टव्यम्। वर्णनिर्देशेषु हि तपरकरणं प्रसिद्धम्॥
गोशब्दात्परं सर्वनामस्थानं णिद्वत् स्यात् । गौः । गावौ । गावः ॥
ओकाराद्विहितं सर्वनामस्थानं णिद्वत्। गौः। गावौ। गावः॥
'गो' इति ओकारान्तशब्दः । अस्मात् शब्दात् विहितः सर्वनामस्थानप्रत्ययः 'णित्' भवति (इत्युक्ते, सः णित्-वत् कार्यम् करोति) । किम् कार्यम् णित्-वत् भावस्य? <<अचो ञ्णिति>> 7.2.115 इत्यनेन अजन्त-शब्दस्य णित्-प्रत्यये परे वृद्धि-आदेशः भवति । यथा - 1. गो + सुँ [प्रथमैकवचनस्य प्रत्ययः] → गौ + सुँ [<<गोतो णित्>> 7.1.90 इति सुँ-प्रत्ययस्य णिद्वद्भावः । अतः <<अचो ञ्णिति>> 7.2.115 इति णित्-प्रत्यये परे अजन्तस्य अङ्गस्य वृद्धिः । ओकारस्य वृद्धिः औकारः] → गौः [<<ससजुषोः रुँः>> 8.2.66 इति रुँत्वम् । <<खरवसानर्योविसर्जनीयः>> 8.3.15 इति विसर्गः] 2. गो + औ/औट् [प्रथमा/द्वितीयाद्विवचनस्य प्रत्ययः] → गौ + औ / औट् [<<गोतो णित्>> 7.1.90 इति औ-प्रत्ययस्य णिद्वद्भावः । अतः <<अचो ञ्णिति>> 7.2.115 इति णित्-प्रत्यये परे अजन्तस्य अङ्गस्य वृद्धिः । ओकारस्य वृद्धिः औकारः] → गावौ [<<एचोऽयवायावः>> 6.1.78 इति आव्-आदेशः] 3. गो + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → गौ + अस् [<<गोतो णित्>> 7.1.90 इति जस्-प्रत्ययस्य णिद्वद्भावः । अतः <<अचो ञ्णिति>> 7.2.115 इति णित्-प्रत्यये परे अजन्तस्य अङ्गस्य वृद्धिः । ओकारस्य वृद्धिः औकारः] → गावस् [<<एचोऽयवायावः>> 6.1.78 इति आव्-आदेशः] → गावः [<<ससजुषोः रुँः>> 8.2.66 इति रुँत्वम् । <<खरवसानर्योविसर्जनीयः>> 8.3.15 इति विसर्गः] <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 अस्य सूत्रस्य एतासु प्रक्रियासु प्रसक्तिः नास्ति, यतः <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यस्मिन् सूत्रे 'अकः' इति अनुवर्तते । ओकारः तु अक्-प्रत्याहारे नास्ति । अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!ओतो णित् इति वाच्यम् !> । इत्युक्ते, केवलं गोशब्दादेव न, अपितु सर्वेषाम् ओकारान्तशब्देभ्यः परस्य सर्वनामस्थानसंज्ञकस्य णित्-अतिदेशः भवति, इति । यथा, 'सुद्यो' अस्य ओकारान्तपुंलिङ्गशब्दस्य रूपाणि अपि गो-शब्दवदेव भवन्ति - सुद्धौः सुद्यावौ, सुद्यावः । ज्ञातव्यम् - 1. अनेन सूत्रेण गो-शब्दात् परस्य सर्वनामस्थानसंज्ञकप्रत्यये 'णित्' गुणस्य आरोपणम् भवति, अतः एतत् सूत्रम् 'अतिदेशसूत्रम्' नाम्ना ज्ञायते । << अन्यतुल्यत्वविधानमतिदेशः >> इति अतिदेशस्य व्याख्या । 2. अस्मिन् सूत्रे षष्ठ्यन्तं पदम् नास्ति, अतः << उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् >> अनया परिभाषया अत्र सप्तमीनिर्दिष्टः शब्दः स्थानिनः कार्यं करोति । अतएव णित्-गुणः सर्वनामस्थानस्य भवति, 'गो' शब्दस्य न । 3. द्वितीया-एकवचनस्य अम्-प्रत्यये परे वर्तमानसूत्रेण वृद्धि-आदेशे प्राप्ते अपवादत्वेन <<औतोम्शसोः>> 6.1.93 इत्यनेन पूर्वपरयोः आकारः एकादेशः भवति, अतः 'गाम्' इति रूपम् सिद्ध्यति ।
<<गोतो णित्>> - गोतो णित् । 'गोत' इति तपरकरणम् ।इतोऽत्सर्वनामस्थाने॑ इत्यतः 'सर्वनामस्थाने' इत्यतः 'सर्वनामस्थाने' इत्यनुवृत्तं प्रथमया विपरिणम्यते । तदाह — घोशब्दादित्यादिना । णिद्वत्स्यादिति । णिति परे यत्कार्यं तत्कार्यकारीत्यर्थः । गौरिति । णिद्वत्त्वेअचो ञ्णिती॑ति वृद्धिरौकारः । रुत्वविसर्गाविति भावः । गावौ गाव इति । णिद्वत्त्वे वृद्धिरावादेशश्चेति भावः । हे गौः । वृद्धौ एङः परत्वाऽभावान्नसंबुद्धिलोपः । अमि गो अम् इति स्थिते णिद्वत्त्वाद्वृद्धो प्राप्तायाम्- ।
गाङ्कुटादिसूत्रे यावन्तः पक्षाः, इहापि तावन्त एव, त थएव गुणा दोषश्च, तद्वदेव चातिदेशपक्ष आश्रीयते, यदाह - णिद्भवतीति । परत्र परशब्दः प्रयुक्तोऽन्तरेणापि वतिं वत्यर्थं गमयति, यथा - सिंहो माणवक इति । णिदित्यनेन सामानाधिकरण्यात् सर्वनामस्थाने इति सप्तम्यन्तं प्रथमया विपरिणम्यते, तत्र सर्वनामस्थानस्य णित्यार्यं विधेयं न सम्भवतीति णिति यत्कार्यं तत्सर्वनामस्थाने पूर्वस्यातिदिश्यते । तदाह - णित्कार्याणि तत्र भवन्तीत्यर्थ इति । चित्रगुरिति । बहुव्रीहौ गोस्ज्ञियोरुपसर्जनस्य इति ह्रस्वत्वम् । अत्रासति तपरकरणेऽङ्गाधिकारे तदन्तविधेरभ्युपगमात् सर्वे सर्वपदादेशाः इति न्यायेन स्थानिवद्भावेन गोशब्दान्तत्वात् णिद्वद्भावः प्राप्नोति । तपरकरणे तु तत्कालार्थे सति न भवति भिन्नकालत्वात्, तपरस्तत्कालस्य इत्यत्राणित्यस्य निवृतत्वाद नणोऽपि तत्कालनियमो भवतीति मन्यते । कथमिति । ह्रस्वस्य गुणः जसि चेति गुणे कृते सत्यपि तकारे स्थानिवत्वात् तत्कालत्वाण्णित्वं प्राप्नोत्येवेति प्रश्नः । न च स्थानिवद्भावविषये लक्षणप्रतिपदोक्तपरिभाषा तस्य वैयर्थ्यप्रसङ्गात् । अङ्गवृते इत्यादि परिहारः । णित्वं न भवतीति । णित्कार्यं न भवतीत्यर्थः । भवतु सम्बुद्धावेष परिहारः, जसि त्ववादेशामन्तरेणानिष्ठीतत्वादङ्गस्य नायं परिहारः इत्याशङ्क्याह - अथ वेति । यच्चेत्यादिनार्थद्वारकं विशेषसम्बन्धमाह । आनन्तर्यलक्षणे तु सम्बन्धे चित्रगुशब्दादपि प्रसङ्गे यदि, तर्ह्यर्थद्वारकसम्बन्धाश्रयणादेव चित्रगुशब्देऽप्रसङ्गः, किमर्थं तपरकरणम् इत्याह - तपरकरणं तु निर्देशार्थमेवेति । स्पष्टनिर्देशार्थमेवेत्यर्थः । इतरथा गोः इत्युच्यमाने गुशब्दस्यापि निर्देशः सम्भाव्येत । केचिदित्यादि । एवं पाठे प्रयोजनमाह - द्योशब्दादपीति । ये तर्ह्येवं न पठन्ति तेषां कथं द्योशब्दे णिद्वद्भावः इत्यत आह - गोत त्येतिदेवेति । कथं पुनरेदोकारान्तोपलक्षणं द्रष्ट्ंअ शक्यम् इत्यत आह - वर्णनिर्द्देश एव तपरत्वं दृष्टम्, तस्मातपरकरणादिह ओकारान्तोपलक्षणं विज्ञायते ॥