एत्येधत्यूठ्सु

6-1-89 एत्येधत्यूठ्सु संहितायाम् अचि एकः पूर्वपरयोः आद् वृद्धिः एचि

Sampurna sutra

Up

index: 6.1.89 sutra: एत्येधत्यूठ्सु


आत् एचि एति-एधति-ऊठ्सु एकः पूर्वपरयोः वृद्धिः

Neelesh Sanskrit Brief

Up

index: 6.1.89 sutra: एत्येधत्यूठ्सु


अवर्णात् इण्-धातोः एध्-धातोः च एच्-वर्णे परे तथा ऊठ्-शब्दे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-आदेशः भवति ।

Neelesh English Brief

Up

index: 6.1.89 sutra: एत्येधत्यूठ्सु


In the context of संहिता, When an अवर्ण followed by the एच् letter of the इण् धातु or एध् धातु, or the word ऊठ् ; both of them are replaced by a single वृद्धि letter.

Kashika

Up

index: 6.1.89 sutra: एत्येधत्यूठ्सु


वृद्धिरेचि इति वर्तते, आतिति च। तदेततेज्ग्रहणम् एतेरेव विशेषणं , न पुनरेधतेः, अव्यभिचारात्, ऊठश्च सम्भवात्। इण् गतौ इत्येतस्मिन् धातौ एचि, एध वृद्धौ इत्येतस्मिनूठि च पूर्वं यदवर्णं ततश्च परो योऽच्, तयोः पूर्वपर्योः अवर्णाचोः स्थाने वृद्धिरेकादेशो भवति। उपैति। उपैषि। उपैमि। उपैधते। प्रैधते। प्रष्ठौहः। प्रष्ठौहा। प्रष्ठौहे। ऊठि आद्गुणापवादो वृद्धिर्विधीयते। एत्येधत्योः तु एङि पररूपापवादः। ओमाङोश्च 6.1.95 इत्येतत् तु पररूपं न बाध्यते, येन न अप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवतीति, पुरस्तादपवादा अनन्तरान् विधीन् बधन्ते इति वा। तेन इह न भवति, उप आ इतः उपेतः इति। एचि इतेव, उप इतः उपेतः। अक्षादूहिन्यां वृद्धिर्वक्तव्या। अक्षौहिणी। स्वादीरेरिण्योर्वृद्धिर्वक्तव्या। स्वैरम्। स्वैरिणी। प्रादूढोढ्येषैष्येषु वृद्धिर्वक्तव्या। प्रौढः। प्रौढिः। प्रैषः। प्रैष्यः। ऋते च तृतीयासमासेऽवर्णाद् वृद्धिर्वक्तव्या। सुखेन ऋतः सुखार्तः। दुःखेन ऋतः दुःखार्तः। ऋतः इति किम्? सुखेन इतः सुखेतः। तृतीया इति किम्? परमर्तः। समासे इति किम्? सुखेनर्तः। प्रवत्सतरकम्बलवसनानाम्र्णे वृद्धिर्वक्तव्या। प्र प्रार्णम्। वत्सतर वत्सतरार्णम्। कम्बल कम्बलार्णम्। वसन वसनार्णम्। ऋणदशाभ्यां वृद्धिर्वक्तव्या। ऋणार्णम्। दशार्णम्।

Siddhanta Kaumudi

Up

index: 6.1.89 sutra: एत्येधत्यूठ्सु


अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् । पररूपगुणापवादः । उपैति । उपैधते । प्रष्ठौहः । एजाद्योः किम् । उपेतः । मा भवान्प्रेदिधत् । पुरस्तादपवादन्यायेनेयं वृद्धिः एङि पररूपम् <{SK78}> इत्यस्यैव बाधिका न तु ओमाङोश्च <{SK80}> इत्यस्य । तेनावैहीति वृद्धिरसाधुरेव ।<!अक्षादूहिन्यामुपसङ्ख्यानम् !> (वार्तिकम्) ॥ अक्षौहिणी सेना ।<!स्वादीरेरिणोः !> (वार्तिकम्) ॥ स्वेनेरितुं शीलमस्येति स्वैरी । लिङ्विशिष्टपरिभाषया स्वैरिणी ।<!प्रादूहोढोढ्येषैष्येषु !> (वार्तिकम्) ॥ प्रौहः । प्रौढः । [(परिभाषा - ) अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्] । व्रश्चे <{SK294}>ति सूत्रे राजेः पृथग्भ्राजिग्रहणाज्ज्ञापकात् ॥ तेन ऊढग्रहणेन क्तान्तमेव गृह्यते न तु क्तवत्वन्तस्यैकदेशः । प्रोढवान् । प्रौढिः । इष इच्छायां तुदादिः । इष गतौ दिवादिः । इष आभीक्ष्ण्ये क्र्यादिः । एषां घञि ण्यति च एषः एष्यः इति रूपे । तत्र पररूपे प्राप्तेऽनेन वृद्धिः । प्रैषः । प्रैष्यः ॥ यस्तु ईष उञ्छे । यश्च ईष गतिहिंसादर्शनेषु । तयोर्दीर्घोपधत्वात् । ईषः । ईष्यः । तत्राद्गुणे । प्रेषः । प्रेष्यः ॥<!ऋते च तृतीयासमासे !> (वार्तिकम्) ॥ सुखेन ऋतः सुखार्तः । तृतीयेति किम् । परमर्तः ॥<!प्रवत्सतरकम्बलवसनार्णदशानामृणे !> (वार्तिकम्) ॥ प्रार्णम् । वत्सतरार्णमित्यादि ॥ ऋणस्यापनयनाय यदन्यदृणं क्रियते तदृणार्णम् । दशार्णो देशः । नदी च दशार्णा । ऋणशब्दो दुर्गभूमौ जले च ॥

Laghu Siddhanta Kaumudi

Up

index: 6.1.89 sutra: एत्येधत्यूठ्सु


अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात्। उपैति। उपैधते। प्रष्ठौहः। एजाद्योः किम्? उपेतः। मा भवान्प्रेदिधत्। अक्षादूहिन्यामुपसंख्यानम् (वार्त्तिकम्) । अक्षौहिणी सेना। प्रादूहोढोढ्येषैष्येषु (वार्त्तिकम्)। प्रौहः। प्रौढः। प्रौढिः। प्रैषः। प्रैष्यः। ऋते च तृतीयासमासे (वार्त्तिकम्)। सुखेन ऋतः सुखार्तः। तृतीयेति किम्? परमर्तः। प्रवत्सतरकम्बलवसनार्णदशानामृणे (वार्त्तिकम्) । प्रार्णम्, वत्सतरार्णम्, इत्यादि॥

Neelesh Sanskrit Detailed

Up

index: 6.1.89 sutra: एत्येधत्यूठ्सु


अवर्णात् (अकारात् / आकारात्) संहितायाम् इण्-धातोः एध्-धातोः वा एच्-वर्णे परे एङि पररूपम् 6.1.94 इत्यनेन प्राप्तम् पररूपम् बाधित्वा, तथा च ऊठ्-शब्दस्य ऊकारे परे आद्गुणः 6.1.87 इत्यनेन प्राप्तं गुणैकादेशं बाधित्वा पूर्वपरयोः वृद्ध्यैकादेशः भवति — इति प्रकृतसूत्रस्य आशयः । 'वृद्धि' इति संज्ञया निर्दिष्टः वर्णः आदेशरूपेण अत्र विधीयते इत्यर्थः ।

अष्टाध्याय्यां वृद्धिरादैच् 1.1.1 इत्यनेन आकार-ऐकार-औकाराणाम् वृद्धिसंज्ञा भवति । एतेषु कः वर्णः आदेशरूपेण विधीयेत — इति प्रश्ने जाते, स्थानेऽन्तरतमः 1.1.50 इत्यस्याः परिभाषायाः आश्रयः स्वीक्रियते । अनया परिभाषया एतत् ज्ञाप्यते, यत् स्थानेन यः वर्णः सदृशतमः, तस्य आदेशरूपेण विधानम् भवति ।

वर्णानाम् उच्चारणस्थानानि एतादृशानि — अवर्णस्य कण्ठः । ऊकारस्य ओष्ठौ । एकारस्य ऐकारस्य च कण्ठतालु । ओकारस्य औकारस्य च कण्ठोष्ठम् ॥

उदाहरणानि एतानि —

1. अवर्णात् इण्-धातोः एकारे/ऐकारे परे एकादेशः ऐकारः विधीयते । अवर्णस्य उच्चारणस्थानम् कण्ठः, एकारस्य ऐकारस्य च उच्चारणस्थानम् कण्ठतालु - इति स्थानेन आन्तरतम्यम् सिद्ध्यति। यथा —

इण् (गतौ, अदादिः, <{2.40}>)

→ उप + इ + लट् [वर्तमाने लट् 3.2.123 इति लट्-प्रत्ययः]

→ उप + इ + तिप् [तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति प्रथमपुरुषैकवचनस्य प्रक्रियायाम् तिप्-प्रत्ययः]

→ उप + इ + शप् + ति [कर्तरि शप् 3.1.68 ]

→ उप + इ + ति [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक्]

→ उप + ए + ति [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]

→ उपैति [पकारोत्तरस्य अकारस्य इण्-धातोः एकारेण सह एत्येधत्यूठ्सु 6.1.89 इति वृद्धैकादेशः]

एवमेव इण्-धातोः ऐकारादि-रूपस्य विषये अपि वृद्ध्यैकादेशः ऐकारः भवति —

इण् (गतौ, अदादिः, <{2.40}>)

→ उप + इ + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्-प्रत्ययः]

→ उप + आट् + इ + लङ् [आडजादीनाम् 6.4.72 इति आडागमः]

→ उप + आ + इ + तिप् [तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति प्रथमपुरुषैकवचनस्य प्रक्रियायाम् तिप्-प्रत्ययः]

→ उप + आ + इ + शप् + ति [कर्तरि शप् 3.1.68 ]

→ उप + आ + इ + ति [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक्]

→ उप + आ + ए + ति [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]

→ उप + आ + ए + त् [इतश्च 3.4.100 इति प्रत्यय-इकारस्य लोपः]

→ उप + ऐ + त् [आटश्च 6.1.90 इति वृद्ध्यैकादेशः ।]

→ उपैत् [पकारोत्तरस्य अकारस्य इण्-धातोः ऐकारेण सह एत्येधत्यूठ्सु 6.1.89 इति वृद्धैकादेशः । ऐकारः यद्यपि आटश्च 6.1.90 इति वृद्ध्यैकादेशेन सिद्ध्यति, तथापि आदिवद्भावेन, यदागमपरिभाषया वा सः धात्ववयवः एव स्वीक्रियते ।]

2. अवर्णात् एध्-धातोः एकारे/ऐकारे परे एकादेशः ऐकारः विधीयते । अवर्णस्य उच्चारणस्थानम् कण्ठः, एकारस्य ऐकारस्य च उच्चारणस्थानम् कण्ठतालु - इति स्थानेन आन्तरतम्यम् सिद्ध्यति । यथा —

एध् (वृद्धौ, भ्वादिः, <{2.40}>)

→ उप + एध् + लट् [वर्तमाने लट् 3.2.123 इति लट्-प्रत्ययः]

→ उप + एध् + त [तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् त-प्रत्ययः]

→ उप + एध् + शप् + त [कर्तरि शप् 3.1.68 ]

→ उप + एध् + अ + ते [टित आत्मनेपदानां टेरे 3.4.79 इति एत्वम्]

→ उपैधते [पकारोत्तरस्य अकारस्य एध्-धातोः एकारेण सह एत्येधत्यूठ्सु 6.1.89 इति वृद्धैकादेशः]

एवमेव एध्-धातोः ऐकारादि-रूपस्य विषये अपि वृद्ध्यैकादेशः ऐकारः भवति —

एध् (वृद्धौ, भ्वादिः, <{2.40}>)

→ उप + एध् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्-प्रत्ययः]

→ उप + आट् + एध् + लङ् [आडजादीनाम् 6.4.72 इति आडागमः]

→ उप + आ + एध् + त [तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् त-प्रत्ययः]

→ उप + आ + एध् + शप् + त [कर्तरि शप् 3.1.68 ]

→ उप + आ + एध् + अ + त [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक्]

→ उप + आ + एध् + त [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]

→ उप + ऐध+ त [आटश्च 6.1.90 इति वृद्ध्यैकादेशः ।]

→ उपैधत [पकारोत्तरस्य अकारस्य इण्-धातोः ऐकारेण सह एत्येधत्यूठ्सु 6.1.89 इति वृद्धैकादेशः । ऐकारः यद्यपि आटश्च 6.1.90 इति वृद्ध्यैकादेशेन सिद्ध्यति, तथापि आदिवद्भावेन, यदागमपरिभाषया वा सः धात्ववयवः एव स्वीक्रियते ।]

सा + एति उत सा + एधते इत्यादिषु उदाहरणेषु अपि प्रकृतसूत्रेण वृद्धैकादेशं कृत्वा 'सैति', 'सैधते' इत्यादीनि रूपाणि अवश्यं भवन्ति । परन्तु एतादृशानाम् रूपाणाम् सिद्ध्यर्थम् वृद्धिरेचि 6.1.88 इत्येतम् सूत्रम् अपि पर्याप्तम् एव, अतः न हि तदर्थम् प्रकृतसूत्रम् रचितम् अस्ति । तर्हि अस्य सूत्रस्य मूलप्रयोजनम् किम्, इति चेत् — यत्र अवर्णान्तः उपसर्गः इण्/एध्-धातोः पूर्वम् प्रयुज्यते, तत्र वृद्धिरेचि 6.1.88 इत्यनेन उक्तम् वृद्ध्यैकादेशं बाधित्वा एङि पररूपम् 6.1.94 इत्यनेन यः पररूपैकादेशः उच्यते; तस्य अपवादत्वेन पुनः वृद्ध्यैकादेशं दातुम् इदं सूत्रम् पाठितम् अस्ति । अतः अस्य सूत्रस्य उदाहरणेषु उपसर्गविशिष्टानि एव उदाहरणानि दीयन्ते ।

3. अवर्णात् ऊठ्-शब्दस्य ऊकारे परे एकादेशः औकारः विधीयते । अवर्णस्य उच्चारणस्थानम् कण्ठः, ऊकारस्य उच्चारणस्थानम् औष्ठौ, औकारस्य उच्चारणस्थानम् कण्ठोष्ठम् - इति स्थानेन आन्तरतम्यम् सिद्ध्यति । यथा —

  1. विश्ववाह्-शब्दस्य तृतीयैकवचनस्य रूपम् 'विश्वौहा' इति इत्थं सिद्ध्यति —

विश्ववाह् + टा [स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् 4.1.2 इति तृतीयैकवचनस्य विवक्षायाम् टा-प्रत्ययः । टा-प्रत्यये परे विश्ववाह्-शब्दस्य यचि भम् 1.4.18 इति भसंज्ञा भवति । ]

→ विश्व ऊठ् आ ह् + आ [भसंज्ञकस्य वाह्-शब्दस्य वाह ऊठ् 6.4.132 इति सम्प्रसारणे ऊठ्-आदेशः विधीयते ।]

→ विश्व ऊ आ ह् + आ [ठकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]

→ विश्व ऊ ह् + आ [ऊकार-आकारयोः सम्प्रसारणाच्च 6.1.108 इति पूर्वरूपैकादेशः ऊकारः]

→ विश्वौहा [विश्वशब्दस्य अकारस्य ऊठ्-शब्दस्य ऊकारेण सह एत्येधत्यूठ्सु 6.1.89 इति वृद्धैकादेशः]

  1. क्र्यादिगणस्य 'खव्' धातोः लट्लकारस्य प्रथमपुरुषैकवचनम् 'खौनाति' इति इत्थं सिद्ध्यति —

खवँ (भूतप्रादुर्भावे, क्र्यादिः, <{9.68}>)

→ खव् + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ खव् + तिप् [तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति प्रथमपुरुषैकवचनस्य प्रक्रियायाम् तिप्-प्रत्ययः]

→ खव् + श्ना + ति [क्र्यादिभ्यः श्ना 3.1.81 इति श्ना-विकरणप्रत्ययः]

→ ख ऊठ् + ना + ति [अनुनासिकादौ ङिति प्रत्यये परे च्छ्वोः शूडनुनासिके च 6.4.19 इति वकारस्य ऊठ्-आदेशः]

→ खौनाति [खशब्दस्य अकारस्य ऊठ्-शब्दस्य ऊकारेण सह एत्येधत्यूठ्सु 6.1.89 इति वृद्धैकादेशः]

सूत्ररचना

अस्य सूत्रस्य रचनायाः विषये केचन ज्ञातव्याः बिन्दवः एतादृशाः —

  1. एति तथा एधति इति सूत्रे प्रयुक्तौ शब्दौ यथासङ्ख्यम् 'इण्' तथा 'एध्' धात्वोः निर्देशं कुरुतः । <!इक्श्तिपौ धातुनिर्देशे!> इति वार्त्तिकम् अनुसृत्य अत्र 'श्तिप्' प्रत्ययं प्रयुज्य एतयोः धात्वोः निर्देशः कृतः वर्तते ।

  2. वृद्धिरेचि 6.1.88 अस्मात् सूत्रात् 'एचि' इति पदम् अत्र अनुवर्तते, तत् च 'एति' तथा 'एधति' इत्येताभ्यां सह अन्वेति ।<ऽयस्मिन्विधिस्तदादावल्ग्रहणेऽ> (परिभाषा-33) इत्यनया परिभाषया अत्र 'एचि' इत्यस्य अर्थः 'एच्-वर्णादिः' इति क्रियते । अतः 'एचि एति' इत्यनेन 'इण्-धातो एच्-वर्णादिरूपम्' इति अर्थः सिद्ध्यति । एवमेव 'एचि एधति' इत्यनेन 'एध्-धातोः एच्-वर्णादि-रूपम्' इति अर्थः जायते । इत्युक्ते, यत्र इण्/एध्-धातोः रूपस्य आडौ एच्-भिन्नः वर्णः विद्यते, तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । अतएव इण्-धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य 'इतः' इति रूपम् प्र-उपसर्गपूर्वकम् प्रयुज्यते चेत् 'प्र + इतः' इत्यत्र गुणैकादेशे कृते 'प्रेतः' इत्येव सिद्ध्यति । एवमेव, 'एध्-धातोः' णिजन्तस्य लुङ्-लकारस्य प्रथमपुरुषैकवचनम् 'इदिधत्' इत्यस्य विषये अपि अस्य सूत्रस्य प्रसक्तिः नास्ति, अतः 'उप + इदिधत्' इत्यत्रापि गुणैकादेशं कृत्वा 'उपेदिधत्' इति रूपं सिद्ध्यति ।

बाध्यबाधकभावः

अवर्णान्त-उपसर्गात् इण्/एध्-धात्वोः एजादिरूपे परे बाध्यबाधकभावः एतादृशः जायते —

  • _आद्गुणः_ इत्यनेन गुण-एकादेशे प्राप्ते तं बाधित्वा —
  • _वृद्धिरेचि_ 6.1.88 इत्यनेन वृद्ध्यैकादेशे प्राप्ते तं बाधित्वा —
  • _एङि पररूपम्_ 6.1.94 इत्यनेन परररूपैकादेशे प्राप्ते तं बाधित्वा —
  • _एत्येधत्यूठ्सु_ 6.1.89 इत्यनेन वृद्ध्यैकादेशः भवति । उपसर्गभिन्न-अवर्णान्त-शब्दात् इण्/एध्-धात्वोः एजादिरूपे परे तु —
  • _आद्गुणः_ इत्यनेन गुण-एकादेशे प्राप्ते तं बाधित्वा —
  • _वृद्धिरेचि_ 6.1.88 इत्यनेन वृद्ध्यैकादेशे प्राप्ते तं परत्वात् बाधित्वा —
  • _एत्येधत्यूठ्सु_ 6.1.89 इत्यनेन वृद्ध्यैकादेशः भवति । अवर्णात् ऊठ्-शब्दस्य ऊकारे परे —
  • _आद्गुणः_ इत्यनेन गुण-एकादेशे प्राप्ते तं बाधित्वा —
  • _वृद्धिरेचि_ 6.1.88 इत्यनेन वृद्ध्यैकादेशः भवति । _एत्येधत्यूठ्सु_ <a href="6.1.89.html">6.1.89</a> तथा च _ओमाङोश्च_ <a href="6.1.95.html">6.1.95</a> इत्येतयोर्मध्ये बाध्यबाधकभावः यदि किञ्चन सूत्रम् तस्मात् अनन्तरम् विद्यमानस्य सूत्रस्य अपवादरूपेण प्रवर्तते, तर्हि तत् सूत्रम् पुनः तस्मात् उत्सर्गात् अपि अनन्तरम् विद्यमानस्य सूत्रस्य अपवादरूपेण नैव भवितुम् अर्हति इति <ऽपुरस्तादपवादा अनन्तरान् विधीन्बाधन्ते नोत्तरान्ऽ> अनया परिभाषया सूच्यते । This paribhasha states that if a sutra A acts as an exception to a later-occurring sutra B, then A cannot again act as an exception for a sutra C that occurs after B । अतः _एत्येधत्यूठ्सु_ 6.1.89 इति सूत्रम् _एङि पररूपम्_ 6.1.94 इति परसूत्रस्य अपवादरूपेण एकवारं प्रवर्तते चेत्, तस्माद् अपि अग्रे विद्यमानस्य _ओमाङोश्च_ 6.1.95 इति सूत्रस्य अपवादरूपैण नैव प्रवर्तते । अतएव, _एत्येधत्यूठ्सु_ 6.1.89 तथा च _ओमाङोश्च_ 6.1.95 इत्येतयोः युगपत्-प्राप्तौ सत्याम् परत्वात् _ओमाङोश्च_ 6.1.95 इत्येव सूत्रस्य प्रयोगः भवति । यथा, इण्-धातोः लोट्-लकारस्य मध्यमपुरुषस्य एकवचनस्य 'इहि' इति रूपम् 'आ' उपसर्गेण सह, 'शिव' इति शब्देन सह च यत्र प्रयुज्यते, तत्र 'शिव + आ + इहि' अस्यां स्थितौ आदौ 'आ' उपसर्गस्य 'इहि' इत्यनेन सह _आद्गुणः_ 6.1.87 इति गुणैकादेशे कृते 'शिव + एहि' इति जाते, आदिवद्भावेन एकारम् इण्-धातुरूपस्य आद्यवयवं मत्वा _एत्येधत्यूठ्सु_ 6.1.89 इति सूत्रेण वृद्ध्येकादेशः अवश्यं प्राप्नोति । परन्तु अत्र _ओमाङोश्च_ 6.1.95 इति सूत्रेण गुणैकादेशस्य अपि प्रसक्तिः अस्ति । अस्यां स्थितौ परत्वात् _ओमाङोश्च_ 6.1.95 इति सूत्रेण गुणैकादेशे कृते 'शिवेहि' इत्येव रूपं सिद्ध्यति । वार्त्तिकानि विशिष्टप्रयोगानां सिद्ध्यर्थम् अत्र सिद्धान्तकौमुद्याम् कानिचन वार्त्तिकानि पाठ्यन्ते । तानि एतादृशानि — अक्ष-शब्दात् ऊहिनी-शब्दे परे पूर्वपरयोः गुणैकादेशं बाधित्वा अनेन वार्त्तिकेन वृद्ध्यैकादेशः भवति, येन 'अक्षौहिणी' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् - अक्षाणाम् ऊहिनी [_षष्ठी_ 2.2.8 इति षष्ठीतत्पुरुषः] → अक्ष + ऊहिनी [_कृत्तद्धितसमासाश्च_ 1.2.46 इति प्रातिपदिकसंज्ञा । _सुपो धातुप्रातिपदिकयोः_ 2.4.71 इति सुप्-प्रत्यययोः लोपः] → अक्षौहिनी [अकार-ऊकारयोः इति वार्त्तिकेन वृद्ध्यैकादेशः ।] → अक्षौहिणी [_पूर्वपदात् संज्ञायामगः_ 8.4.3 इति णत्वम्] सैन्ये विद्यमानानाम् रथिनाम्, अश्वानाम्, गजानाम् च परिमाणरूपेण अक्षौहिणी इति शब्दः प्रयुज्यते । Visit this or this wikipedia page to know more about this word. (स्वात् ईर-इरिणोः) । काशिकायाम् तु इति पाठभेदः दृश्यते । 'स्व'शब्दात् 'ईर' तथा 'ईरिन् / ईरिणी' शब्दे परे पूर्वपरयोः गुणं बाधित्वा वृद्धिः भवति — 1. ईर् (गतौ, अदादिः <{2.8}>) अस्मात् धातोः भावे घञ्-प्रत्ययं कृत्वा 'ईर' इति शब्दः सिद्ध्यति । गतिः / गमनम् इति अस्य अर्थः । 'स्वेन ईरः' अस्मिन् अर्थे _कर्तृकरणे कृता बहुलम्_ 2.1.32 इति तृतीयासमासे कृते, अथ वा 'स्वस्य ईरः' अस्मिन् अर्थे _षष्ठी_ 2.2.8 इत्यनेन षष्ठीसमासे कृते अकार-ईकारयोः इति वार्त्तिकेन वृद्ध्यैकादेशः ऐकारः विधीयते, येन 'स्वैर' इति शब्दः सिद्ध्यति । अयं शब्दः शिष्टप्रयोगबलात् नपुंसकलिङ्गे एव प्रयुज्यते । 2. 'स्वेन ईरितुम् शीलम् अस्य' अस्यां वृत्तौ 'स्व'-उपपदपूर्वात् ईर् (गतौ, अदादिः <{2.8}>) धातोः _सुप्यजातौ णिनिस्ताच्छील्ये_ 3.2.78 इत्यनेन णिनि-प्रत्ययं कृत्वा 'स्व + इरिन्' इत्यवस्थायाम् इति वार्त्तिकेन वृद्ध्यैकादेशः ऐकारः विधीयते, येन 'स्वैरिन्' इति शब्दः सिद्ध्यति । तत्र _ऋन्नेभ्यो ङीप्_ 4.1.5 इति ङीप्-प्रत्ययं कृत्वा 'स्वैरिणी' इति स्त्रीलिङ्गशब्दः सिद्ध्यति । (प्रात् ऊह-ऊढ-ऊढि-एष-एष्येषु) । प्र-उपसर्गात् परः ऊह/ऊढ-ऊढि/एष-एष्य एतेषु कश्चन शब्दः विद्यते चेत् पूर्वपरयोः एकः वृद्ध्यैकादेशः भवति — 1. ऊहँ (वितर्के, भ्वादिः, <{1.735}>) अस्मात् धातोः भावे घञ्-प्रत्यये 'ऊह' इति शब्दः सिद्ध्यति । अस्मात् शब्दात् पूर्वम् 'प्र' उपसर्गः विद्यते चेत् _आद्गुणः_ 6.1.87 इत्यनेन प्राप्तं गुणैकादेशं बाधित्वा इत्यनेन वृद्ध्यैकादेशं कृत्वा 'प्रौह' इति रूपं सिद्ध्यति । 2. वह् (प्रापणे, भ्वादिः <{1.1159}>) अस्मात् धातोः क्त-प्रत्यये 'ऊढ' इति शब्दः सिद्ध्यति । अस्मात् शब्दात् पूर्वम् 'प्र' उपसर्गः विद्यते चेत् _आद्गुणः_ 6.1.87 इत्यनेन प्राप्तं गुणैकादेशं बाधित्वा इत्यनेन वृद्ध्यैकादेशं कृत्वा 'प्रौढ' इति रूपं सिद्ध्यति । वह्-धातोः क्तवतुँ-प्रत्ययान्तरूपम् 'ऊढवत्' इति विद्यते । तत्र विद्यमानः 'ऊढ' इति अंशः अनर्थकः अस्ति, अतः <ऽअर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्ऽ> इत्यनया परिभाषया तस्य विषुे इदं वार्त्तिकं नैव प्रवर्तते । अतः 'प्र + ऊढवत्' इत्यत्र गुणैकादेशं कृत्वा 'प्रोढवत्' इत्येव रूपं सिद्ध्यति । 3. वह् (प्रापणे, भ्वादिः <{1.1159}>) अस्मात् धातोः क्तिन्-प्रत्यये 'ऊढि' इति शब्दः सिद्ध्यति । अस्मात् शब्दात् पूर्वम् 'प्र' उपसर्गः विद्यते चेत् _आद्गुणः_ 6.1.87 इत्यनेन प्राप्तं गुणैकादेशं बाधित्वा इत्यनेन वृद्ध्यैकादेशं कृत्वा 'प्रौढि' इति रूपं सिद्ध्यति । 4. इषुँ (गतौ <{4.22}>, इच्छायाम् <{6.78}>, आभीक्ष्य्णे <{9.61}> - अस्मात् धातोः भावे घञ्-प्रत्यये 'एष' इति शब्दः सिद्ध्यति । अस्मात् शब्दात् पूर्वम् 'प्र' उपसर्गः विद्यते चेत् _एङि पररूपम्_ 6.1.94 इत्यनेन प्राप्तं पररूपं बाधित्वा इत्यनेन वृद्ध्यैकादेशं कृत्वा 'प्रैष' इति रूपं सिद्ध्यति । 5. इषुँ (गतौ <{4.22}>, इच्छायाम् <{6.78}>, आभीक्ष्य्णे <{9.61}> - अस्मात् धातोः भावकर्मणोः ण्यत्-प्रत्यये 'एष्य' इति शब्दः सिद्ध्यति । अस्मात् शब्दात् पूर्वम् 'प्र' उपसर्गः विद्यते चेत् _एङि पररूपम्_ 6.1.94 इत्यनेन प्राप्तं पररूपं बाधित्वा इत्यनेन वृद्ध्यैकादेशं कृत्वा 'प्रैष्य' इति रूपं सिद्ध्यति । (काशिकायां इति पाठः वर्तते ।) तृतीयासमासे उत्तरपदरूपेण विद्यमानस्य 'ऋत'शब्दस्य ऋकारस्य, पूर्वपदान्ते विद्यमानस्य अवर्णेन सह _आद्गुणः_ 6.1.87 इत्यनेन प्राप्तं गुणैकादेशं बाधित्वा 'आर्' इति वृद्ध्यैकादेशः भवति । यथा - 1. 'सुखेन ऋतः' अत्र _कर्तृकरणे कृता बहुलम्_ 2.1.32 इति तृतीयासमासे कृते 'सुख + ऋत' इत्यत्र गुणं बाधित्वा अनेन वार्त्तिकेन वृद्धि-एकादेशं कृत्वा 'सुखार्तः' इति रूपं जायते । 2. 'पीड ऋतः' अत्र _कर्तृकरणे कृता बहुलम्_ 2.1.32 इति तृतीयासमासे कृते 'पीडा + ऋत' इत्यत्र गुणं बाधित्वा अनेन वार्त्तिकेन वृद्धि-एकादेशं कृत्वा 'पीडार्त' इति रूपं जायते । तृतीयासमासः नास्ति चेत् तु इदं वार्त्तिकम् नैव प्रसज्यते, अतः _आद्गुणः_ 6.1.87 इत्यनेन गुण-एकादेशः एव भवति । यथा, 'परमश्च असौ ऋतश्च' इत्यत्र कर्मधारयसमासे 'परम + ऋत' इति स्थिते अकार-ऋकारयोः गुणैकादेशः 'अर्' इति जाते 'परमर्तः' इत्येव सिद्ध्यति । (प्र-वत्सतर-कम्बल-वसन-ऋण-दशानाम् ऋणे) । अत्र काशिकाकारेण तु भाष्यम् अनुसृत्य तथा इति द्वे वार्त्तिके पृथक् पाठ्येते । प्र/वत्सतर/कम्बल/वसन/ऋण/दश - एतेषां शब्दानाम् ऋण-शब्दे परे गुणं बाधित्वा पूर्वपरयोः 'आर्' इति वृद्धि-एकादेशः भवति —
  • प्र + ऋणम् → प्रार्णम् ।
  • वत्सतरस्य (शिशुवत्सस्य ऋणम्) → वत्सतर + ऋणम् → वत्सतरार्णम् ।
  • कम्बलस्य ऋणम् → कम्बल + ऋणम् → कम्बलार्णम् ।
  • वसनस्य ऋणम् → वसन + ऋणम् → वसनार्णम् ।
  • ऋणस्य ऋणम् → ऋण + ऋणम् → ऋणार्णम् । एकस्य ऋणस्य अपनयनार्थम् क्रियमाणम् अपरं ऋणम् इत्याशयः ('Refinancing!')
  • दश ऋणानि अस्मिन् देशे सः = दश + ऋण → दशार्णः देशः । एवमेव दशार्णा नदी । ##Balamanorama --- index: 6.1.89 sutra: एत्येधत्यूठ्सु --- _एत्येधत्यूठ्सु_ - एत्येधत्यूठसु । एतिश्च एधतिश्च ऊठ्चेति विग्रहः । एतीति एधतीति चईक्श्तिपौ धातुनिर्देशे॑ इति श्तिपा निर्देशः । इण् गताविति, एध वृद्धाविति च धातू विवक्षितौ । एचीत्यनुवर्तते ।यस्मिन्विधि॑रिति तदादिग्रहणम् । एजादाविति लभ्यते । तच्च एत्येधत्योरेव विशेषणं, न तूठोऽसंभवात् ।एकः पूर्वपरयो॑रित्यधिकृतम् । आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते । तदाह — अवर्णादित्यादिना । उपैतीति । इण्धातोर्लट् । तिप् शप् लुक् । 'सार्वधातुक' इति इकारस्य गुण एकारः । उप-एतीति स्थितेऽनेन वृद्धिः । उपैधत इति । एधधातोर्लट् । आत्मनेपदं तादेशः । शप् ।टित आत्मनेपदाना॑मित्येत्वम् । उप एधते इति स्थितेऽनेन वृद्धिः । प्रष्ठौह इति । प्रष्ठं वहतीति प्रष्ठवाट् ।वहश्चे॑ति ण्विः । 'वेरपृक्तस्ये' इति वलोपः । 'अत उपधाया' इति वृद्धिः । ततः शसिवसोः सम्प्रसारण॑मित्यतः संप्रसारणमित्यनुवृत्तौ 'वाह ऊठ्' इति संप्रसारण संज्ञकस्य ऊठःसम्प्रसारणाच्चे॑ति पूर्वरूपम् । प्रष्ठ ऊहिति स्थितेऽनेन वृद्धिरौकारः । नन्वत्र एत्येधतिग्रहणं व्यर्थम्, उपैति उपैधत इत्यत्र वृद्धिरैचीत्यनेनैव वृद्धिसंभवात् । ऊठग्रहणमपि व्यर्थं, वृद्धिरेचीत्य#एव सिद्धेः । वाह ऊठग्रहणानार्थक्यं, संप्रासरणेन कृतत्वात् । गुणस्तु प्रत्ययलक्षणत्वात् । एज्ग्रहणाद्वृद्धिः॑ इति वार्त्तिककृता तथैवोक्तत्वात् । ऊठ्ग्रहणं न कर्तव्यम् ।वाह॑इत्येव सूत्पमस्तु । भस्य वाहः संप्रसारणं स्यादिति संप्रसारणमेव विधीयतां, ततश्च वकारस्य उकारे संप्रसारणे पूर्वरूपे सति उहिति स्थिते प्रत्ययलक्षणमाश्रित्य ण्विप्रत्यये परे उकारस्य लघूपधगुणे ओकारे कृते प्रष्ठ-ओहिति स्थिते वृद्धिरेचीति वृद्धिरिति वार्तिकार्थः । तस्मादेत्येधत्यूठसु इति सूत्रं व्यर्थमित्यत आह — पररूपगुणापवाद इति । एत्येधत्योरेङि पररूपमित्यस्य, ऊठि आद्गुण इत्यस्यायमपवाद इत्यर्थः । यदि हि बाहः सम्प्रसारणमेव विधीयेत न तूठ्, तर्हि वस्य संप्रसारणेन उत्वे कृते पूर्वरूपे सति तस्य लघूपधगुणो न भवति तस्मिन् कर्तव्ये बहिर्भूतशस्प्रत्ययापेक्षभसंज्ञापेक्षसंप्रसारणाश्रित पूर्वरूपस्य बहिरङ्गतयाऽत्राऽसिद्धत्वात् । तथाच गुणाऽभावे प्रष्ठ-उ-आहिति स्थिते पूर्वरूपे प्रष्ठ-उह् इति स्थिते 'आद्गुण' इति गुणे ओकारे 'प्रष्ठोह' इति स्यात् । संप्रसारणसंज्ञकस्य ऊठो विधौ तु प्रष्ठ ऊ आहिति स्थिते पूर्वरूपे लघूपधगुणस्याऽप्रसक्ततया ओकारस्याऽभावादूकारस्यैव सत्त्वाद्वृद्धिरेचीत्यस्याऽप्रसक्तेराद्गुण इति प्राप्ते एत्येधत्यूठ्स्विति वृद्धौ 'प्रष्ठौह' इति सिध्यतीत्यूठ्ग्रहणमावश्यकमिति वाहौउठ सूत्रे समुदाहृतवार्तिकं भाष्ये दूषितमित्यास्तां तावत् । उपेत इति । इण्धातोर्लट् तस् शप् लुक् ।सार्वधातुकमपि ॑दिति तसो ङित्त्वात्तास्मिन् परत इकारस्य न गुणः । अत्र इण्धातोरेजादित्वाऽभावात्तस्मिन्परतो न वृद्धिः । मा भवान्प्रेदिधदिति । एधधातोर्णिच् । लुङ् तिप् । 'नित्यं ङितः' इति इकारलोपः । 'णिश्रिद्रुरुआउभ्य' इति चङ् ।णौ चङ्युपधाया ह्रस्वः॑ ।चङी॑त्यजादेर्द्वितीयस्य धिशब्दस्य द्वित्वम् ।अभ्यासे चर्चे॑ति जश्त्वम् । 'न माङ्योग' इत्याडभावः । भवच्छब्दयोहगात्प्रथमपुरुषः । तच्च तिङन्ताधिकारे स्पष्टीभविष्यति । प्र-इदिधदिति स्थिते एत्येधतीति न वृद्धिः, एधधातोरेजादित्वाऽभावात् । तत्र एजादित्वविशेषणाऽभावे तु इहापि वृद्धिः स्यात् । न च णौ चङीत्येकारस्य ह्रस्वेन इकारे सति नायमेधधातुरिति वाच्यम्, एकदेशविकृतस्यानन्यत्वात् । अत्र माङं विहाय प्रेदिधदिति न प्रत्युदाहृतम् । तथा सति आडजादीनामित्याडागमे आटश्चेति वृद्धौ ऐदिधदिति स्यात् । तत्र एधतेरेजादित्वाद्वृद्धिरिष्टैव । भवच्छब्दस्तु चिन्त्यप्रयोजनः । ननु आ इहि, आद्गुणः, एहि, अव-एहीति स्थिते एकादेशस्य गुणस्य एकारस्य अन्तादिवच्चेति परादिवद्भावेन,आद्यन्तवदेकस्मि॑न्निति व्यपदेशिवद्भावेन च , च इण्धातोरेजादित्वात्तस्मिन् परेएङिपररूप॑मिति पररूपं बाधित्वा एत्येधत्यत्यूठ्स्विति वृद्धौअवैही॑ति इष्टं न स्यात् । न च ओमाङोश्चेति पररूपेण तन्निर्वाहः शङ्क्यः । एत्येधतीति वृद्धिर्हि यथा एङि पररूपमित्यस्यापवादस्तथा ओमाङित्यस्याप्यपवादः;येन नाप्राप्तिन्यायसाम्यादित्यत आह — पुरस्तादिति ।पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरा॑निति न्यायः । पूर्वपठिता अपवादा अव्यवहितानेवोत्तररान्विधीन्बाधन्ते न तु व्यवहितानित्यर्थः । प्रकृते च एत्येधत्यूठ्सु इत्युत्तरं कानिचित् सूत्राणि पठित्वाएङि पररूप॑मिति पठित्वा पुनः कतिपयसूत्राणि पठित्वा पुनः ओमाङोश्चेति पठितम् । ततश्चोक्तन्यायेनएत्येधती॑ति वृद्ध्याएङि पररूप॑मित्येव बाध्यते न त्वोमाङोश्चेति पररूपमपीति भावः । वस्तुतस्तु एत्येधतीति वृद्धिरोमाङोश्चात्यस्यापवाद एव न भवति, उपैतीत्यादावप्राप्तेऽपि तस्मिन्नेत्येधतीति वृद्धेरारम्भात् । अतः पुरस्तादपवादा॑ इति न्यायस्य नायं विषयः । ततस्च अव-एहीत्यत्र एत्येधतीति बाधित्वा परत्वादोमाङोश्चेति पररूपं न्याय्यमित्येव वक्तुमुचितम् । अत एव भाष्ये — नाप्राप्ते एङि पररूपे एत्येधतीति बाधित्वा परत्वादोमाहोश्चेति पररूपं न्याय्यमित्येव वक्तुमुचितम् । अत एव भाष्ये — ॒नाप्राप्ते एङि पररूपे एत्येधतीति वृद्धिरारभ्यमाणा भवति तस्यापवादः । आङि पररूपे तु प्राप्ते चाऽप्राप्ते च आरभ्यमाणा वृद्धिर्नं तदपवाद॑ इति स्पष्टमेवोक्तम् । यत्तु भाष्ये पक्षान्तरमुक्तम् — ॒अथवा पुरस्तादपवादा अनन्तरान्विधीन् बाधन्त इत्येवमेत्येधतीति वृद्धिरेङि पररूपमेव बाधते न त्वोमाङोश्चेति पररूपमपी॑ति । तत्तु एत्येधतीति वृद्धिरेङि पररूपमोमाङोश्चेति सूत्रद्वयापवादत्वाब्युपगमवादमात्रमाश्रित्य, बाध्यसामान्याचिन्तामाश्रित्य वेत्यलं बहुना । अक्षादूहिन्यामुपसंख्यानम् । आदिति अचीति वृद्धिरिति चानुवर्तते ।एकः पूर्वपरयो॑रिति च ।ऊह वितर्के॑ । ऊहनमूहः, सोऽस्या अस्तीत्यूहिनी । अक्षशब्दादूहिनीशब्दे परे पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः । अक्षौहिणीति मत्वर्थीय इनिः । नान्तत्वान्ङीप् । अक्षाणामूहिनीति विग्रहः । परिमाणविशेषविशिष्टा सेना अक्षोहिणी ।पूर्वपदात्संज्ञाया॑मिति णत्वम् । अक्ष — ऊहिनीति स्थिते गुण प्राप्तेऽनेन वार्तिकेन वृद्धिः ।स्वादीरेरिणोः । स्वशब्दादीरशब्दे ईरिन्शब्दे च परे पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः । स्वैर इति ईरगतौ । भावे घञ् । स्वेन च्छन्देन ईर इति विग्रहः ।कर्तृकरणे कृता बहुल॑मिति समासः । स्व — ईर इति स्थिते गुणेप्राप्तेऽनेन वार्तिकेन वृद्धिः । स्वेनेरितुमिति । स्वेनच्छन्देन ईरितुं संचरितुं शीलमस्येत्यर्थेसुप्यजाता॑विति णिनिः । स्वच्छन्दचारीत्यर्थः । उपपदसमासः । स्व — ईरिन्निति स्थिते गुणे प्राप्तेऽनेन वृद्धिः ।प्रादूहोढोढएषेष्येषु । प्रेत्युपसर्गात् 'ऊह' 'ऊढ' 'एष॒॑एष्य' एतेषु परेषु पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः । प्रौह इति । ऊहवितर्के । भावे घञ् । गतिसमासः । प्र-ऊह इति स्थितेऽनेन वार्तिकेन वृद्धिः प्रौढ इति । बह प्रापणे । क्तः ।वचिस्वपी॑ति सम्प्रसारणम् । पूर्वरूपम् । 'हो ढ' इति ढत्वम् । झषस्तथोरिति धत्वम् । ष्टुत्वम् । 'ढो ढे लोपः' 'ढ्रलोप' इति दीर्घः । प्र-ऊढ इत,#इ स्थिते गुणे प्राप्तेऽनेन वृद्धिः । ननु प्रोढवानित्यत्रापि वहधातोः क्तवतुप्रत्यये ढत्वधत्वष्टुत्वढलोपदीर्घेषु प्र-ऊढवदिति स्थिते प्रादूहोढेति वृद्धि स्यात्, तत्रापि ऊढशब्दस्य परत्वेन श्रवणादित्यत आह — अर्थवदिति । अर्थवतः शब्दस्य ग्रहणसम्भवेऽनर्थकस्य शब्दस्य ग्रहणं न भवतीत्यर्थः । इयं परिभाषा॒स्वं रूप॑ मित्यत्र रूपग्रहणात्सिद्धेति तत्रैव सूत्रे भाष्ये स्पष्टम् । तेनेति । अर्थवत एव ग्रहणनियमेनेत्यर्थः । क्तान्तमेवेति । क्तप्रत्ययस्तावदर्थवान्, भावकर्मणोस्तद्विधानात् । क्तवतुप्रत्ययस्तु कर्तरि विहितः । अतस्तदेकदेशस्य क्तस्यानर्थकत्वात्प्रादूहोढेत्यत्र ऊढग्रहणेन ग्रहणं न भवति, अतस्तस्मिन्, परे वृद्धिर्न भवति, किन्त#उ गुण एवेत्यर्थः । प्रौढिरिति । वहधातोः क्तिन् । ढत्वधत्वष्टुत्वढलोपदीर्घाः । प्र-ऊढिरिति स्थिते गुणं बाधित्वाऽनेन वृद्दिः । इष-इच्छायामित्यादि । गणत्रयेऽपि ह्रस्वोपधा एव एते धातवः । तेषामिति निर्धारणे षष्ठी । तेषां मद्येऽन्यतमाद्व्वञि ण्यति च सति लघूपधगुणे कृते एष एष्य इति च रूपे सिद्धे । प्र एष प्र एष्य इति स्थिते एङि पररूपं बाधित्वाऽनेन वृद्धिः । #एतेन वृद्धिरेचीत्यनेन एवैषैष्यग्रहणयोर्गतार्थत्वं निरस्तम् । नन्वेवं सति प्रेष इति प्रेष्य इति च कथं प्रयोग इत्यत आह — यस्त्विति । तयोर्दीर्घोपधत्वेन लङूपधगुणाऽभावे ईष ईष्य इति च सिध्यति । तयोस्तु एतद्वार्तिके ग्रहणाऽभावात्तयोः परतो वृद्ध्यभावे 'आद्गुण' इति गुणे प्रेषः प्रेष्य इत्यपि रूपद्वयमस्तीत्यर्थः । एषशब्दसाहचर्यादेष्यशब्दोऽपि कृदन्त एव गृह्रते । तेन तिङन्ते ल्यबन्ते च न वृद्धिः । अग्नये प्रेष्य दूतम्, प्रेष्य गतः ।ऋते च तृतीयासमासे । तृतीया समासेऽकारादृतशब्दे परे पूर्वपरयोरचोर्वृद्धिः स्यादित्यर्थः । सुखेन ऋत इति विग्रहप्रदर्शनम् । ऋ गतौ । गत्यर्थाकर्मकेति कर्तरि क्तः । प्रकृत्यादित्वात्तृतीया । सुप्सुपेति समासः । सुख-ऋत इति स्थिते गुणे प्राप्तेऽनेन वृद्धिराकारः । रपरत्वे सुखार्त इति रूपम् । समसग्रहणस्योदाहृतविग्रहवाक्यमेव प्रत्युदाहरणं दर्शितप्रायमिति तृतीयेत्यंशस्य प्रयोजनं पृच्छति — तृतीयेति किमिति । परमर्त इति । परमश्चासौ ऋतश्चेति कर्मधारयः । आद्गुणः ।प्रवत्सतर पञ्चम्यर्थे षष्ठी ।प्र॒॑वत्सतर॒॑कम्बल॒॑वसन॒॑ऋण॑ 'दश' एतेषामृणशब्दे परे पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः । प्रार्णामिति । प्रगतमृणमिति विग्रहे,प्रादयो गताद्यर्थे प्रथमये॑ति गतिसमासः । प्र-ऋणिमिति स्थिते गुणं बाधित्वाऽनेन वार्तिकेन वृद्धिराकारः । रपरत्वम् । वत्सतरः=शिशुवत्सः, तस्य ऋणमिति विग्रहः । वत्सतरमधिकृत्य वा तद्ग्रहणार्थं वा यदृणं गृह्रते तद्वत्सतरार्णम् । एवमग्रेऽपि द्रष्टव्यम् । आदिशब्देन कम्बलार्णं वसनार्णं दशामृणार्णमिति च गृह्रते । सर्वत्र षष्ठीसमासः । ऋणशब्दस्य ऋणशब्दे परे कथमन्वय इत्यत आह-ऋणस्येति । देशनदीविशेषयोः कथं दशार्णशब्दप्रवृत्तिरित्यत आह — ऋणशब्द इति । तथा च दश ऋणानि दुर्गभूमयो यस्मिन् देशे स दशार्णो देशविशेषः । दशविधानि ऋणानि जलानि यस्यां नद्यां सा दशार्णेति विग्रहः । ##Padamanjari --- index: 6.1.89 sutra: एत्येधत्यूठ्सु --- न पुनरेधतेरव्यभिचारादिति। बाहुल्याभिप्रायेणैतदुक्तम्। अस्ति ह्यस्यापि व्यभिचारः -चङ्युपधाह्रस्वत्वे भवान् मा प्रेदिधदित्यत्रेत्याहुः। प्रष्ठौह इति। प्रष्ठ्ंअ वहतीति'धन्दसि सहः' ,'वहश्च' इति ण्विः,'वाह ऊठ' इत्यूठ, सम्प्रसारणम्, पूर्वत्वम्, ततो वृद्धिः। एत्येधत्योरेहि पररूपापवाद इति। वृद्धिर्विधीयत इत्यनुषङ्गः। यथैव तर्हि ठेङ् पिररूपम्ऽ बाधते, एवमाङ् पिररूपमपि बाधेतः नाप्राप्ते पररूपेऽस्या वृद्धेरारम्भात्? इत्यत आह-ओमाङेश्चैतच्चिवति। कुतः? इत्याहयेनेति। स तस्य बाधको भवतीति। तस्यैव बाधको भवतीति यावत्, तद्बाधस्यावश्यम्भावित्वात्, तावता च बाधकस्य चरितार्थत्वात्। न चाप्राप्ते एङ् पिररूपे इयं वृद्धिरारभ्यते, आङ् पिररूपे तु आ इतःउएतः, प्रेतः, परेत इत्यत्र प्राप्ते; उपैति, प्रैतीत्यत्र त्वप्राप्ते तस्मान्न बाधते। परिहारान्तरमाह -पुरस्तादिति। अनन्तरे बाध्ये ज्ञाते तद्बाधया वचनस्य चरितार्थत्वादुतरेण सह स्पर्द्धायां परत्वातदेव भवतीति भावः। अक्षौहिणीति। अक्षैरूहतेऽवश्यमिति आवश्यके णिनिः, साधनम्'कृता' इति समासः। स्वैरमिति। ठीर गतौऽ, ईरणमीरः, भावे घञ्, स्वेनाभिप्रायेण ईरणं स्वैरम्,'कर्तृकरणे कृता बहुलम्' इति समासः, क्रियाविशेषणात्वाल्लोकाश्रयत्वाद्वा लिङ्गस्य नपुंसकत्वम्। स्वेनाभिप्रायेणेरते गच्छतीति स्वैरी,'सुप्यजातौ' इति णिनिः। ईरिग्रहणमनर्थकम्, स्वेनाभिप्रायेणेरते गच्छतीति स्वैरी,'सुप्यजातौ' इति णिनिः। ईरिग्रहणमनर्थकम्,'पदास्वैरिबाह्य' इति निपातनात्सिद्धम्, पदास्वैरशब्दादिना मत्वर्थीयेन सिद्धम्, णिनिस्त्वनभिधानान्न भविष्यति। प्रादित्यादि। ऊढ, ऊढि, एष्य -इत्येतान्युतरपदानि। इष्यतेरिच्छतेरिष्णातेर्वा यदा ण्यत् तदा -प्रैष्यः, यदा घञ् तदा-प्रैषः, एङ् पिररूपापवादो वृद्धिः। ईष्यशब्दे तु प्रेष्य इति भवति। तथा आऔउढा ओढा प्रोढेअति ठोमाङेश्चऽ इति पररूपं भवति। पूर्वोपातस्य ऋणस्यापनयनाय यदृणमन्यदुपातं तद् ऋणार्णम्। दशार्णशब्दो नदीविशेषस्य, देशविशेषस्य च संज्ञा ॥