सम्प्रसारणाच्च

6-1-108 सम्प्रसारणात् च संहितायाम् अचि एकः पूर्वपरयोः पूर्वः

Sampurna sutra

Up

index: 6.1.108 sutra: सम्प्रसारणाच्च


सम्प्रसारणात् पूर्वपरयोः एकः पूर्वः

Neelesh Sanskrit Brief

Up

index: 6.1.108 sutra: सम्प्रसारणाच्च


सम्प्रसारणसंज्ञकात् वर्णात् अच् वर्णे परे पूर्वपरयोः एकः पूर्वरूप-एकादेशः भवति ।

Neelesh English Brief

Up

index: 6.1.108 sutra: सम्प्रसारणाच्च


When a letter having the sanjna सम्प्रसारण is followed by an अच् letter, both of them are combined to form a पूर्वरूप-एकादेश.

Kashika

Up

index: 6.1.108 sutra: सम्प्रसारणाच्च


पूर्वः इत्येव। सम्प्रसारणातचि परतः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति। यजि इष्टम्। वपि उप्तम्। ग्रहि गृहीतम्। सम्प्रसरणविधानसामर्थ्यात् विगृहीतस्य श्रवणे प्राप्ते पूर्वत्वं विधीयते। वा छन्दसि 6.1.106 इत्येव, मित्रो नो अत्र वरुणो यज्यमानः। परपूर्वत्वविधाने सत्यर्थवत् सम्प्रसारणविधानम् इति इष्ट इत्येवमादिषु पूर्वत्वभावे यणादेशो भवत्येव। अन्तरङ्गे च अचि इऋतार्थं वचनम् इति बाह्ये पश्चात् सन्निपतिते पूर्वत्वं न भवति। शकह्वौ। शकह्वर्थम्।

Siddhanta Kaumudi

Up

index: 6.1.108 sutra: सम्प्रसारणाच्च


संप्रसारणादचि परे पूर्वरूपमेकादेशः स्यात् । एत्येधत्यूठ्सु <{SK73}> । विश्वौहः । विश्वौहेत्यादि । छन्दस्येव ण्विरिति पक्षे णिजन्ताद्विच् ॥

Laghu Siddhanta Kaumudi

Up

index: 6.1.108 sutra: सम्प्रसारणाच्च


संप्रसारणादचि पूर्वरूपमेकादेशः। एत्येधत्यूठ्स्विति वृद्धिः। विश्वौहः, इत्यादि॥

Neelesh Sanskrit Detailed

Up

index: 6.1.108 sutra: सम्प्रसारणाच्च


यण्-वर्णस्य स्थाने विधीयमानः इक्-वर्णः इग्यणः सम्प्रसारणम् 1.1.45 इत्यनेन सूत्रेण सम्प्रसारणसंज्ञकः भवति । अस्याः प्रक्रियायाः निर्देशः अपि 'सम्प्रसारणम्' इत्यननैव क्रियते । एतादृशे सम्प्रसारणे कृते, प्रारम्भे यण्-वर्णात् अनन्तरम् विद्यमानः अच्-वर्णः अनेन सम्प्रसारणसंज्ञकेन वर्णेन सह पुनः यणादेशं मा कार्षीत् इति स्पष्टीकर्तुम् प्रकृतसूत्रेण सम्प्रसारणसंज्ञकवर्णस्य अच्-वर्णेन सह पूर्वरूपम् उच्यते । इत्युक्ते, य (= य् + अ) इत्यत्र विद्यमानस्य यकारस्य सम्प्रसारणे इकारादेशे प्राप्ते, इ + अ इति जाते पुनः इकार-अकारयोः यणादेशे यकारः मा भूत् इति हेतुना अत्र —  अकारस्य इकारेण एकादेशं कृत्वा इकारः एव सिद्ध्यति —   इति ज्ञापनार्थम् इदं सूत्रम् निर्मितम् अस्ति । उदाहरणानि एतानि —

  1. यज्-धातोः निष्ठाप्रत्ययान्तस्य 'इष्ट' इति रूपस्य प्रक्रियायाम् वचिस्वपियजादीनां किति 6.1.15 इति सूत्रेण सम्प्रसारणं कृत्वा ततः सम्प्रसारणाच्च 6.1.108 इति सूत्रेण पूर्वरूपम् क्रियते —

यजँ (देवपूजासङ्गतिकरणदानेषु, भ्वादिः, <{1.1157}>)

→‌ यज् + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययः]

→ इअज् + त [वचिस्वपियजादीनां किति 6.1.15 इत्यनेन कित्-प्रत्यये परे यकारस्य सम्प्रसारणम् इकारः । अत्र केवलं यकारस्य एव सम्प्रसारणम् भवति, 'य् + अ' इत्यस्य वर्णद्वयस्य न ।]

→ इ ज् त [इकार-अकारयोः इको यणचि 6.1.77 इत्यनेन यणादेशः भवति चेत् पुनः यकारस्य एव निर्माणम् भवेत् । तद्बाधित्वासम्प्रसारणाच्च 6.1.108 इत्यनेन पूर्वरूप-एकादेशः इकारः विधीयते ]

→ इष् त [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36 इति जकारस्य षकारः]

→ इष्ट [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वम्]

  1. युवन्-शब्दस्य चतुर्थ्येकवचनस्य रूपे श्वयुवमघोनामतद्धिते 6.4.133 इत्यनेन वकारस्य सम्प्रसारणे (उकारे) कृते ततः सम्प्रसारणाच्च 6.1.108 इति सूत्रेण पूर्वरूपम् क्रियते —

युवन् + ङे [चतुर्थ्यैकवचनस्य प्रत्ययः]

→ यु उ अ न् + ए [श्वयुवमघोनामतद्धिते 6.4.133 इति वकारस्य सम्प्रसारणम् उकारः । ]

→ यु उ न् ए [उकार-अकारयोः इको यणचि 6.1.77 इत्यनेन यणादेशः भवति चेत् पुनः वकारस्य एव निर्माणम् भवेत् । तद्बाधित्वासम्प्रसारणाच्च 6.1.108 इत्यनेन पूर्वरूप-एकादेशः उकारः विधीयते ।]

→ यूने [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]

  1. 'त्रयाणाम् पूरणः' अस्मिन् अर्थे 'त्रि' शब्दात् 'तीय' इति तद्धितप्रत्ययः विधीयते । प्रक्रियायाम् त्रेः सम्प्रसारणम् च 5.2.55 इत्यनेन सम्प्रसारणम् भवति । सम्प्रसारणाच्च 6.1.108 इति सूत्रेण पूर्वरूपम् क्रियते । प्रक्रिया इयम् -

त्रयाणाम् पूरणः [तद्धितवृत्तिः]

त्रि + तीय [त्रेः सम्प्रसारणम् च 5.2.55 इति तीय-प्रत्ययः ]

→ त् + ऋ + ई + तीय [त्रेः सम्प्रसारणम् च 5.2.55 इत्यनेनैव सम्प्रसारणम् अपि भवति । रेफस्य सम्प्रसारणे ऋकारः जायते ।]

→ त् + ऋ + तीय [ऋकार-ईकारयोः सम्प्रसारणाच्च 6.1.108 पूर्वरूप-एकादेशः ऋकारः भवति ।]

→ तृतीय

पूर्वरूपैकादेशस्य सम्प्रसारणसंज्ञा न विद्यते

सम्प्रसारणसंज्ञकवर्णस्य तस्मात् अनन्तरम् विद्यमाननेन अच्-वर्णेन सह यः पूर्वरूपैकादेशः भवति, तस्य पुनः सम्प्रसारणसंज्ञा न भवति । यथा, शकान् ह्वयति इत्यत्र ह्वे-धातोः आदौ आदेच उपदेशेऽशिति 6.1.45 इत्यनेन आकारादेशे कृते, ततश्च क्विप्-प्रत्यये कृते,वचिस्वपियजादीनां किति 6.1.15 इत्यनेन वकारस्य सम्प्रसारणे उकारः, ततश्च उकार-आकारयोः सम्प्रसारणाच्च 6.1.108 इति पूर्वरूपं कृत्वा ततः हलः 6.4.2 इत्यनेन दीर्घादेशे कृते शकहू इति शब्दः सिद्ध्यति । अस्मिन् शब्दे विद्यमानः ऊकारः सम्प्रसारणप्रक्रियया निर्मितः नास्ति अपितु पूर्वरूपैकादेशं कृत्वा ततः दीर्घादेशं कृत्वा निर्मितः अस्ति, अतः अस्य सम्प्रसारणसंज्ञा न दीयते । यदि अस्यापि सम्प्रसारणसंज्ञा अभविष्यत्, तर्हि अस्य शब्दस्य प्रथमाद्विवचनस्य रूपे शकहू + औ इति स्थिते पुनः सम्प्रसारणाच्च 6.1.108 इत्यनेन अनिष्टः पूर्वरूपैकादेशः अभविष्यत् । परन्तु ऊकारस्य अत्र सम्प्रसारणसंज्ञायाः अभावात् तादृशः अनिष्टः प्रयोगः नैव सिद्ध्यति । अयमेव विषयः पदमञ्जर्याम् अपि स्पष्टीकृतः अस्ति —

यणः स्थाने यः इक्, सः सम्प्रसारणम् । एकादेशः तु न यण्स्थानिकः । वर्णाश्रयत्वात् च अन्तादिवद्भावः अपि नास्ति, एवम् पूर्वत्वम् एव तावत्, न सम्प्रसारणम् । किं पुनः, तत्स्थानिक ऊकारः इति पूर्वैकादेशाभावः ।

The ऊ generated by the दीर्घादेश is not even a पूर्वरूप-एकादेश (the पूर्वरूप-एकादेश was 'उ'), and hence there is no question of even thinking whether ऊ can be called सम्प्रसारणम् or not.

काशिकायाम् तु अयं विषयः किञ्चित् भिन्नरूपेण प्रतिपादितः अस्ति । तत्र काशिकाकारः वदति — अन्तरङ्गे च अचि कृतार्थम् वचनम् इति बाह्ये पश्चात् सन्निपतते पूर्वत्वं न भवति —‌ इति । काशिकाकारस्य मतेन अत्र पूर्वरूपैकादेशेन प्राप्तस्य उकारस्य यद्यपि सम्प्रसारणसंज्ञा स्वीक्रियते, तथापि तस्याः सम्प्रसारणसंज्ञायाः पूर्वमेव (पूर्वरूप-एकादेशस्य प्रक्रियायाम्) चरितार्थत्वात् पुनः तद्विषयकम् कार्यं न प्रवर्तते — इति ।

The above technique used by काशिका, where — the उत्तरपक्ष temporarily agrees to the incorrect assumptions of पूर्वपक्ष, just so as to have some common grounds for argument, and also because such an incorrect assumption still allows the उत्तरपक्ष to prove the right point — is known as अभ्युपाय. For instance, in the current case, even if the actual point is that 'ऊ' is not a सम्प्रसारणसंज्ञक letter, still काशिका assumes it otherwise (just to agree to a common ground with the पूर्वपक्ष), and then proceeds to prove the required result nevertheless (that सम्प्रसारणाच्च can't still be applied). पदमञ्जरी aptly describes this attempt by saying — वृत्तिकारः तु सम्प्रसारणम् अभ्युपेत्य परिहारान्तरम् आह ।

वैदिकप्रयोगेषु विकल्पः

वैदिकप्रयोगेषु कुत्रचित् सम्प्रसारणादनन्तरम् सम्प्रसारणाच्च 6.1.108 इति सूत्रम् विना एव पुनः यणादेशम् एव कृत्वा रूपम् प्रयुक्तं दृश्यते । यथा, एवैनं देवतेज्यमाना भूत्या... (तैत्तिरीयसंहिया 2.5.4.5)‌ - इत्यत्र विद्यमानः 'इज्यमानः' इति शब्दः यज्-धातोः कर्मणि-शानच्-प्रत्ययान्तरूपम् अस्ति । अस्य प्रक्रियायाम् यज्-धातोः यकारस्य सम्प्रसारणे कृते, ततः सम्प्रसारणाच्च 6.1.108 इत्यनेन प्राप्तम् पूर्वरूपम् वैदिकप्रक्रियायां विकल्प्यते, अतः पूर्वरूपस्य स्थाने पुनः यणादेशं कृत्वा यकारघटितम् 'यज्यमान' इति रूपं सिद्ध्यति । प्रक्रिया इयम् —

यज् + लट् [वर्त्तमाने लट् 3.2.123 इति लट्]

→ यज् + यक् + शानच् [लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124 इति शानच्-प्रत्ययः । सार्वधातुके यक् 3.1.67 इति यक्]

→ यज् + य + मुक् + आन [आने मुक् 7.2.82 इति अङ्गस्य मुक्-आगमः]

→ इ अज् + य + म् + आन [वचिस्वपियजादीनां किति 6.1.15 इति यकारस्य सम्प्रसारणम् इकारः]

→ यज् + य + म् + आन [सम्प्रसारणाच्च 6.1.108 इत्यनेन पूर्वरूपे प्राप्ते, वेदेषु वा छन्दसि 6.1.106 इति विकल्पः । अतः इकार-अकारयोः इको यणचि 6.1.77 इत्यनेन यणादेशं कृत्वा पुनः 'य' इति सिद्ध्यति ।]

→ यज्यमानः ।

पक्षे सम्प्रसारणाच्च 6.1.108 इत्यनेन पूर्वरूपैकादेशे कृते 'इज्यमान' इति रूपं अपि वेदेषु दृश्यते एव । एतादृशानाम् रूपाणाम् साधुत्वज्ञापनार्थम् वा छन्दसि 6.1.107 इति पूर्वसूत्रम् अत्र सम्पूर्णरूपेण अनुवर्त्यते, येन 'सम्प्रसारणाच्च, छन्दसि वा' इति सूत्रम् सिद्ध्यति, येन वेदेषु अस्य सूत्रस्य पाक्षिकत्वम् स्पष्टम् भवति ।

Balamanorama

Up

index: 6.1.108 sutra: सम्प्रसारणाच्च


सम्प्रसारणाच्च - संप्रसारणमिति । तेन वाहो यो यण् वकारस्तस्य ऊडिति लभ्यते । संप्रसारणमित्यननुवृत्तौ 'अलोऽन्त्यस्य' इति हकारस्य स्यात् । तदनुवृत्तौ तु ऊठो यण्स्थानिकत्वूलाभान्नालोऽन्त्यस्येति भवति । विआ ऊ आह् असिति स्थिते- । संप्रसारणाच्च ।इको यणची॑त्यतोऽचीति 'अमि पूर्वः' इत्यतः पूर्व इति चानुवर्तते । 'एकः पूर्वपरयोः' इत्यधिकृतम् । तदाह — संप्रसारणादित्यादिना । विआ ऊह असिति स्थिते आद्गुणमाशङ्क्याह — एत्येधत्यूठ्स्विति ।अनेन गुणापवादो वृद्धि॑रिति शेषः । विआऔहः । विआऔहा । इत्यादीति । विआवाड्भ्याम् विआवाड्भिः । विआवाड्भ्यः । विआऔहे । विआऔहः । विआऔहः । विआऔहोः विआऔहाम् । विआवाट्त्सु विआवाट्सु । ननु वहश्चेति ण्विविधौ 'छन्दसि सहः' इत्यतश्छन्दसीति केचिदनुवर्तयन्ति । तन्मते विआआह्शब्दस्य लोके कथं प्रयोग इत्यत आह — छन्दस्येव ण्विरितिपक्षे णिजन्ताद्विजिति । विआं वाहयतीत्यर्थे वाह् इ इति ण्यन्तात्अन्येभ्योऽपि दृश्यते॑ इति विचिनेड्वशि कृती॑ति इडभावे णिलोपेऽपृक्तलोपे उपपदसमासे विआआह्शब्दो सोते प्रयोगार्हः । किन्तु तस्य ऊठ् न भवति,अचः परस्मि॑न्निति णिलोपस्य स्थानिवत्त्वाऽभावेन तस्य भत्वाऽभावात् । वाहयतेः क्विपि विआवाह्शब्दस्य तूठ् निर्हाध एव,क्वौ लुप्त॑मिति णिलोपस्य स्थानिवत्त्वाऽभावेन तस्य भत्वाऽनपायात् । अत एवविभाषा पूर्वाह्णापरह्णाभ्या॑मिति सूत्रे प्रष्ठौह आगतं प्रष्ठवाङ्रूपर्यमिति लौकिकविग्रहवाक्ये 'प्रष्ठौह' इति प्रयोगः सङ्गच्छते । क्वचित्पुस्तकेछन्दस्येव ण्विरिति प्रामाणिकाः॑ इति पठते । 'कव्यपुरीष' इत्याद्युत्तरसूत्रे तदनुवृत्तेरावश्यकत्वादिति तदाशयः । अनः=शकटं वहतीत्यर्थे अनसि वहेः क्विप्, अनसो डश्चेति सस्य डश्च ।वचिस्वपियजादीनां किती॑ति यजादित्वाद्वकारस्य सम्प्रसापरणमुकारः ।संप्रसारणाच्चे॑ति पूर्वरूपम् । अनडुहिति रूपं । ततः सुबुत्पत्तिः ।

Padamanjari

Up

index: 6.1.108 sutra: सम्प्रसारणाच्च


सम्प्रसारणविधानसामर्थ्यादिति। कथं पुनः सामर्थ्यम्, यावता संहितायां यण् विधीयते, असंहितायां संप्रसारणं चरितार्थम् ? नैत दस्ति;'संहितैकपदे नित्या' इति वचनात्। वा च्छन्दसीत्येवेति। पूर्ववद्वाक्यभेदेन सम्बन्धः। यज्यमान इति। नन्विदानी मेवोक्तम् -विगृहीतस्य श्रवणं प्राप्नोति, तत्कथमत्र यणादेशः ? अत आह-पूर्वत्वविधाने हीति। सत्यम्, अनारब्धे पूर्वत्वे विगृहीतश्रवणं प्राप्नोति, सम्प्रसारणविधानं व्यर्थं मा भूदिति, पूर्वत्वविधाने हि सति तत्प्रतिपतिविषये अर्थवत्सम्प्रसारणमिति पूर्वत्वाभावपक्षे यणादेशे भवत्येव,'सम्प्रसारणपूर्वत्वे समानाङ्गग्रहणम्' , यस्मिन्नङ्गे संप्रसारणमवस्थितं तदन्तर्भूतो योऽच् तेनैव सह यथा स्यात्, इह मा भूत् -शकह्वौ, शकह्वर्थमिति, शकान् ह्वयतीति क्विपि यज्ञादित्वात्सम्प्रसारणम्, योऽन्त्यो धातोराकारः तस्मिन्नेवाङ्गेऽन्तर्भवति तस्य तावत् पूर्वत्वम्, विभक्त्योकारोऽर्थशब्दाकारश्च न तस्मिन्नङ्गेऽन्तर्भवत इति तयोः पूर्वत्वं न भवति। अत्र परिहारः -यणः स्थाने य इक् स संप्रसारणम्, एकादेशस्तु न यण्स्तानिकः, वर्णाश्रयत्वाच्चान्तादिवद्भावोऽपि नास्ति, एवं पूर्वत्वमेव तावन्न सम्प्रसारणम्, किं पुनः, तत्स्थानिक ऊकार इति पूर्वैकादेशाभावः। सम्प्रसारणदीर्घत्वे तु वचनसामर्थ्यादेकादेशस्य पूर्वं प्रत्यन्तवद्भावात् सम्प्रसारणव्यपदेशः। वृत्तिकारस्तु सम्प्रसारणत्वमभ्युपेत्य परिहारान्तरमाह -अन्तरङ्गे चेति । देशतो विप्रकर्षोऽत्र बाह्यत्वेनोपवर्णितः। कालतो विप्रकर्षस्तु पश्चादुपनिपाततः ॥ धातावनन्तर्भावकृतं बाह्यत्वम्, पश्चादुपनिपातस्तु स्पष्ट एव ॥