ऋन्नेभ्यो ङीप्

4-1-5 ऋन्नेभ्यः ङीप् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम्

Sampurna sutra

Up

index: 4.1.5 sutra: ऋन्नेभ्यो ङीप्


ऋत्-नेभ्यः प्रातिपदिकात स्त्रियाम् ङीप् प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 4.1.5 sutra: ऋन्नेभ्यो ङीप्


ऋकारान्तप्रातिपदिकात् नकारान्तप्रातिपदिकात् च स्त्रीत्वम् द्योतयितुम् ङीप्-प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 4.1.5 sutra: ऋन्नेभ्यो ङीप्


To indicate the feminine property, the ऋकारान्त and the नकारान्त words get the ङीप्-प्रत्यय.

Kashika

Up

index: 4.1.5 sutra: ऋन्नेभ्यो ङीप्


ऋकारान्तेभ्यो नकारान्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो भवति ङकारः सामान्यग्रहणार्थः। कर्त्री। हर्त्री। दण्डिनी। छत्रिणी।

Siddhanta Kaumudi

Up

index: 4.1.5 sutra: ऋन्नेभ्यो ङीप्


ऋदन्तेभ्यो नान्तेभ्यस्च स्त्रियां ङीप्स्यात् । क्रोष्ट्री । क्रोष्ट्रयौ । क्रोष्ट्रयः । वधूर्गौरीवत् । भ्रूः श्रीवत् । हे सुभ्रूः । कथं तर्हि हा पितः क्वासि हे सुभ्रु इति भट्टिः । प्रमाद एवायमिति बहवः । खलपूः पुंवत् । पुनर्भूः । दृन्करेति यणा उवङो बाधनात् नेयङुवङ <{SK303}> इति निषेधो न । हे पुनर्भु । पुनर्भ्वम् । पुनर्भ्वौ । पुनर्भ्वः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.1.5 sutra: ऋन्नेभ्यो ङीप्


ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप्। क्रोष्ट्री गौरीवत्॥ भ्रूः श्रीवत्॥ स्वयम्भूः पुंवत्॥

Neelesh Sanskrit Detailed

Up

index: 4.1.5 sutra: ऋन्नेभ्यो ङीप्


स्त्र्यधिकारे उक्तः द्वितीयः स्त्री-प्रत्ययः अस्ति 'ङीप्' । वर्तमानसूत्रेण सर्वेभ्यः ऋकारान्तशब्देभ्यः नकारान्तशब्देभ्यश्च अयं प्रत्ययः स्त्रीत्वम् द्योतयितुम् विधीयते । यथा -

  1. कर्तृ + ङीप् → कर्त्री [इको यणचि 6.1.77]

  2. दण्डिन् + ङीप् → दण्डिनी ।

  3. राजन् + ङीप्

→ राज् न् ई [अल्लोपोऽनः 6.4.134 इति अकारलोपः]

→ राज्ञी ।

ज्ञातव्यम् -

  1. यस्य प्रातिपदिकस्य स्त्रीत्वस्य गुणाः न सन्ति, तस्य अयं प्रत्ययः न भवति । यथा - पितृ-शब्दस्य केवलं पुंलिङ्गत्वं वर्तते, तत्र स्त्रीत्वस्य गुणः नास्ति । अतः अस्य शब्दस्य स्त्री-प्रत्ययाः न भवन्ति ।

  2. तथैव, यस्य प्रातिपदिकस्य स्त्रीत्वस्य गुणाः प्रातिपदिकेनैव उच्यन्ते, तत्र तेषाम् पुनः द्योतनम् न आवश्यकम्, अतः एतेषां शब्दानां विषये अपि अस्य प्रत्ययस्य प्रयोगः न भवति । यथा, मातृ-शब्दः स्वयमेव स्त्रीत्वम् द्योतयति, अतः तस्य विषये कश्चन स्त्री-प्रत्ययः न आवश्यकः ।

Balamanorama

Up

index: 4.1.5 sutra: ऋन्नेभ्यो ङीप्


ऋन्नेभ्यो ङीप् - ऋन्नेभ्यो ङीप् । ऋतस्च नाश्चेति द्वन्द्वः ।स्त्रिया॑मित्यधिकृतम् ।ङ्याप्प्रातिपदिकात् इत्यतः प्रातिपदिकग्रहणमनुवृत्तमृन्नकारैर्विशेष्यते । अतस्तदन्तविधिस्तदाह — ऋदन्तेभ्य इत्यादिना । ङपावितौ । क्रोष्टृ ई इति स्थिते यणि क्रोष्ट्रीशब्दात्सुबुत्पत्तिः । गौरीवद्रूपाणीत्याह — क्रोष्टीत्यादि । इत्युदन्ताः । अथ ऊदन्ताः । वधूर्गौरीवदिति ।वहो धश्चे॑त्यूप्रत्ययः, हस्य धश्च । धात्ववयवोवर्णाऽभावान्नोवङ । ऊकारस्य यण्वकार इत्यादिविशेषस्तु सुगम इति भावः । भ्रूः श्रीवदिति । 'भ्रमेश्च डूः' इति डूप्रत्ययान्तोऽयम् ।अचि श्नुधातुभ्रुवा॑मित्युवङित्यादिविशेषस्तु सुगम इति भावः । सु=शोभना भ्रूर्यस्याः सा सुभ्रूः । अस्त्रीप्रत्ययान्तत्वात्गोस्त्रियो॑रिति ह्रस्वो न भवति । नेयङुवङ्स्थानावस्त्री ति भ्रूशब्दस्य तदन्तस्य च निषेधान्नदीत्वं न । ततश्चअम्वार्थे॑त्यादि नदीकार्यं नेत्यभिप्रेत्याह — हे सुभ्रूरिति॥ कथं तर्हीति । यदि सुभ्रूशब्दे नदीकार्यं न स्यात्तदाहा पितः क्वासि हे सुभ्रु॑ इति कथं भट्टिराहेत्यर्थः । रावणेन सीतापहारोत्तरं रामविलापोऽयम् । हे सुभ्रु त्वयाऽहं हापितोऽस्मि विधिनेत्यर्थः । 'हापित' इत्यस्य त्याजित इत्यर्थः । प्रमाद इति ।अम्बार्थे॑ति ह्रस्वस्य करणादिति भावः । बहव इति कतिपये सामान्ये नपुंसकत्वमाश्रित्य कथं॑चित्समादधुः । खलपूः पुंवदिति । खलपवनस्य उत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियां वर्तमानत्वाऽभावेन नित्यस्त्रीत्वाऽभावान्नदीत्वं नेति भावः । पुनर्भूरिति ।पुनर्भूर्दिधिषूरूढाद्विः॑ इत्यमरः । तस्यनेयङुवङि॑ति नेषेधमाशङ्क्याह-दृन्करेतीति ।अम्शसोःपूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वादृन्करे॑ति यणिति मत्वाह — पुनर्भ्वं पुनर्भ्वाविति । पुनर्भ्वाः । नद्यन्तत्वान्नुटि दीर्घे पुनर्भूनामिति स्थिते रेफान्नकारस्य भिन्नपदस्थत्वात्अट्कुप्वा॑ङित्यप्राप्ते- ।

Padamanjari

Up

index: 4.1.5 sutra: ऋन्नेभ्यो ङीप्


ङ्कारः सामान्यग्रहणार्थ इति ।'ङ्याप्प्रतिपदिकात्' इत्यादौ ।'पकारः सामान्यग्रहणाविघातार्थः' इति तु पूर्वानुसारेण गम्यमानत्वान्नोक्तम्, अत्रापि पकारानुरोधोऽनुदातार्थः ॥