वृद्धिरादैच्

1-1-1 वृद्धिः आत् ऐच्

Sampurna sutra

Up

आत्-ऐच् वृद्धिः

Neelesh Sanskrit Brief

Up

आ, ऐ, औ - एतेषां त्रयाणां 'वृद्धिः' इति संज्ञा भवति ।

Neelesh English Brief

Up

The letters आ, ऐ and औ are called 'वृद्धि'.

Kashika

Up

वृद्धिशब्दः संज्ञात्वेन विधीयते प्रत्येकमादैचां वर्णानां सामान्येन तद्भावितानामतद्भावितानां च। तपरकरणमैजर्थं तादपि परस्तपर इति, खट्वैडकादिषु त्रिमात्रचतुर्मात्रप्रसङ्गनिवृत्तये। आश्वलायनः। ऐतिकायनः। औपगवः। औपमन्यवः। शालीयः। मालीयः। वृद्धिप्रदेशाः — <<सिचि वृद्धिः परस्मैपदेषु>> ७.२.१ इत्येवमादयः॥

Siddhanta Kaumudi

Up

आदैच्च वृद्धिसंज्ञः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

आदैच्च वृद्धिसंज्ञः स्यात्॥

Neelesh Sanskrit Detailed

Up

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु प्रथमा संज्ञा 'वृद्धिः' इति अनेन सूत्रेण पाठ्यते । 'आ', 'ऐ', 'औ' एते त्रयः वर्णाः अनेन सूत्रेण वृद्धिसंज्ञकाः भवन्ति । यथा, राम: इत्यत्र रकारोत्तरः आकारः ; शैवः इत्यत्र शकारोत्तरः ऐकारः ; तथा च गौरवः इत्यत्र गकारोत्तरः औकारः वृद्धिसंज्ञकः वर्तते । वृद्धिसंज्ञायाः प्रयोजनम् वृद्धिसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उक्ताः सन्ति । कानिचन उदाहरणानि एतादृशानि — 1. <<अत उपधायाः>> 7.2.116 इत्यनेन अकारस्य वृद्धिः विधीयते । अत्र अकारस्य स्थाने वृद्धिसंज्ञकः आकारः आदिश्यते इति आशयः । यथा - पठ् + घञ् [कृत्संज्ञकः घञ्-प्रत्ययः] → पठ् + अ [इत्संज्ञालोपः] → पाठ् + अ [<<अत उपधायाः>> 7.2.116 इत्यनेन पकारोत्तरस्य अकारस्य वृद्धिः आकारः] → पाठ । 2. <<अचो ञ्णिति>> 7.2.115 इत्यनेन इकारस्य वृद्धिः विधीयते । अत्र इवर्णस्य स्थाने वृद्धिसंज्ञकः ऐकारः आदिश्यते। यथा - नी + णिच् [स्वार्थिकः णिच्-प्रत्ययः] → नी + इ [इत्संज्ञालोपः] → नै + इ [<<अचो ञ्णिति>> 7.2.115 इत्यनेन नकारोत्तस्य ईकारस्य वृद्धिः ऐकारः] → नाय् + इ [<<एचोऽयवायावः>> 6.1.78 इति आयादेशः] → नायि [<<सनाद्यन्ता धातवः>> 3.1.32 इति धातुसंज्ञा] 3. <<तद्धितेष्वचामादेः>> 7.2.117 इत्यनेन उकारस्य वृद्धिः विधीयते । अनेन उवर्णस्य स्थाने वृद्धिसंज्ञकः औकारः आदिश्यते । यथा - उपगु + अण् [तद्धितसंज्ञकः अण्-प्रत्ययः] → उपगु + अ [इत्संज्ञालोपः] → औपगु + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इत्यनेन आदिस्थस्य उकारस्य वृद्धिः भवति । अनेन उकारस्य स्थाने वृद्धिसंज्ञकः औकारः विधीयते] → औपगो + अ [<<ओर्गुणः>> 6.4.146 इति उकारस्य गुणः ओकारः] → औपगव् + अ [<<एचोऽयवायावः>> 6.1.78 इति अवादेशः] → औपगव वृद्धिसंज्ञा तथा वृद्धिसन्धिः यस्मिन् सन्धौ द्वयोः स्वरयोः एकत्रीकरणम् कृत्वा उभयोः स्थाने एकः वृद्धिसंज्ञकः वर्णः विधीयते, सः सन्धिः सामान्यरूपेण वृद्धिसन्धिः इति नाम्ना ज्ञायते । यथा, वन + ओषधिः → वनौषधिः इत्यत्र प्रक्रियायाम् <<वृद्धिरेचि>> 6.1.88 इति सूत्रेण अकार-ओकारयोः स्थाने इति वृद्धि-एकादेशः भवति । अत्र वृद्धिसंज्ञकः वर्णः आदेशरूपेण विधीयते, अतएव अस्य सन्धेः नाम वृद्धिसन्धिः इति दीयते । वृद्धिसंज्ञायाः सूत्रेषु प्रयोगः अष्टाध्याय्यां 'वृद्धिः' इयं संज्ञा नवसु सूत्रेषु साक्षात् प्रयुक्ता दृश्यते — 1. <<इको गुणवृद्धी>> 1.1.3 2. <<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> 1.1.73 3. <<वृद्धिरेचि>> 6.1.88 4. <<उत्तरपदवृद्धौ सर्वं च>> 6.2.105 5. <<इद्वृद्धौ>> 6.3.28 6. <<वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे>> 6.3.39 7. <<सिचि वृद्धिः परस्मैपदेषु>> 7.2.1 8. <<मृजेर्वृद्धिः>> 7.2.114 9. <<उतो वृद्धिर्लुकि हलि>> 7.3.89 अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति । 'आदैच्' इत्यत्र तपरकरणस्य प्रयोजनम् आदैच् इत्यत्र आत् तथा ऐच् इति पदद्वयम् विद्यते । तत्र आत् इत्यत्र आकारात् अनन्तरम् स्थापितः तकारः तात्कालिकभेदग्रहणार्थम् स्थापितः अस्ति । अयम् तकारः ऐच् इत्यनेन सह अन्वेति । इत्युक्ते, ऐच्-प्रत्याहारस्थवर्णाभ्याम् जायमानम् सवर्णग्रहणम् अत्र तकारनिर्देशसामर्थ्यात् <<तपरस्तत्कालस्य>> 1.1.70 इति सूत्रस्य साहाय्येन नियम्यते, येन केवलम् दीर्घभेदानाम् एव अत्र ग्रहणं भवति, न हि प्लुतभेदानाम् । प्लुत-ऐकार-औकारयोः 'वृद्धिः' इति संज्ञा न इष्यते, अतः अत्र तपरकरणम् कृत्वा सा निवार्यते । अत्र विद्यमानः तकारः आकारेण सह न हि अन्वेति, यतः आकारेण सवर्णग्रहणं नैव क्रियते । इत्युक्ते तकारं विना अपि अनेन सूत्रेण प्लुत-अकारस्य वृद्धिसंज्ञा मूलतः एव न प्राप्नोति, अतः तस्य विषये वृद्धिसंज्ञायाः निषेधः अपि नैव आवश्यकः । <pv>तद्भावितस्य, अतद्भावितस्य च वृद्धिसंज्ञा प्रकृतसूत्रस्य व्याख्याने काशिकाकारः तद्भावितानाम् अतद्भावितानां च इति वाक्यं प्रयुङ्क्ते । अत्र विद्यमानयोः द्वयोः शब्दयोः अर्थौ एतादृशौ — 1. तद्भावितः वर्णः — यः आकारः / ऐकारः / औकारः 'वृद्धिः भवति' इति निर्देशेन सिद्ध्यति, सः आकारः / ऐकारः / औकारः अत्र तद्भावितवर्णः इत्यनेन निर्दिष्टः अस्ति । यथा, उपरिनिर्दिष्टे उदाहरणे औपगव इत्यस्मिन् शब्दे विद्यमानः औकारः उकारस्य 'वृद्धिं' कृत्वा सिद्ध्यति, अतः अयम् तद्भावितवर्णः अस्ति इति उच्यते । 2. अतद्भावितः वर्णः — यः आकारः / ऐकारः / औकारः 'वृद्धिः भवति' इति निर्देशं विना एव उपस्थितः अस्ति, सः वर्णः अतद्भावितवर्णः नाम्ना ज्ञायते । यथा, माला इत्यत्र विद्यमानः मकारोत्तरः आकारः मा-धातोः आकारः अस्ति, लकारोत्तरः विद्यमानः च आकारः सवर्णदीर्घेण सिद्ध्यति । अतः अत्र विद्यमानौ द्वौ अपि आकारौ अतद्भावितवर्णौ उच्येते । एतादृशम्, आकार-ऐकार-औकाराणाम् द्वयोः गणयोः विभाजनं कृत्वा काशिकाकारः प्रकृतसूत्रस्य व्याख्याने इदं स्पष्टीकरोति, यत् उभयोः प्रकारयोः आकार-ऐकार-औकाराणाम् (इत्युक्ते, तद्भावितानाम्, अतद्भावितानाम् च) प्रकृतसूत्रेण वृद्धिसंज्ञा भवति । अतएव माला शब्दस्य आदौ विद्यमानः आकारः वृद्धिसंज्ञकं स्वीकृत्य माला शब्दस्य <<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> 1.1.73 इति सूत्रेण वृद्धसंज्ञा भवति, येन अग्रे <<वृद्धाच्छः>> 4.2.114 इत्यनेन छ-प्रत्यये कृते मालीय इति शब्दः अपि सिद्ध्यति । <pv>चकारस्य कुत्वप्राप्तिः अस्मिन् सूत्रे आदैच् इत्यत्र पदान्ते विद्यमानस्य चकारस्य वस्तुतः <<चोः कुः>> 8.2.30 इत्यनेन कुत्वे कृते गकारः भवितुम् अर्हति । परन्तु <<छन्दोवत्सूत्राणि भवन्ति>> इति वचनेन एतत् सूत्रम् छन्दसः वचनम् (वैदिकवचनम्) मत्वा <<अयस्मयादीनि च्छन्दसि>> 1.4.20 इत्यत्र निर्दिष्टे अयस्मयादिगणे ऐच् पदस्य समावेशं कृत्वा अस्य भसंज्ञा क्रियते, येन एकसंज्ञाधिकारमनुसृत्य पदसंज्ञा निषिध्यते, येन च अनिष्टं कुत्वमपि निवार्यते ।

Balamanorama

Up

<<वृद्धिरादैच्>> - इदानीं संज्ञान्तराणि विधास्यन् वृद्धिसंज्ञां तावदाह — वृद्धिरादैच् । यद्यपि पाणिनीयाष्टाध्याय्यामिदमादिमं सूत्रं, तथापि नेदमादावुपन्यस्तम्, अस्य सूत्रस्य तपरकरणेन प्रत्याहारगर्भितत्वेन ग्रहणकशास्त्रनियमार्थतपरसूत्रप्रत्याहारसूत्रप्रवृत्त्युत्तरप्रवृत्तिकतया प्रत्याहरशास्त्रप्रपञ्चनिरूपणात्प्रागुपन्यासनर्हत्वात् । न च सूत्रकृता अयमेव पाठकमः कुतो नाद्रियत इति वाच्यम् । स्वतन्त्रेच्छस्य महर्षेर्नियन्तुमशक्यत्वात् । आच्च ऐच्चेति समाहारद्वन्द्वः ।द्वन्द्वाच्चुदषहान्तात् इति समासान्तस्तु न, अत एव निर्देशेन समासान्तविधेरनित्यत्वात् । 'चोः कुः' इति पदान्ते विहितं कुत्वमपि न ।अयस्मयादीनि छन्दसि॑ इति भत्वात् । 'वृद्धिरादैजदेङ' इति संहितापाठपक्षे चकारस्य 'झलां जशोऽन्ते' इति पदान्ते विहितजश्त्वं तु भवत्येव,उभयसंज्ञान्यपि छन्दसि दृश्यन्ते॑ इति वचनात् ,छन्दोवत्सूत्राणि भवन्ति॑ इति छान्दसविधीनां सूत्रेष्वपि प्रवृत्तेः । नचैवमपि पदत्वात्कुत्वं भत्वाज्जश्त्वाऽभावश्च कुतो न स्यादिति वाच्यम्,छन्दसि दृष्टानुविधिः॑ इति वचनादित्यलम् ।आच्च ऐच्चेतीतरेतरयोगद्वन्द्वो वा । तथा सति सौत्रमेकवचनम् । आचार्यपारंपर्योपदेशसिद्धसंज्ञाधिकारात् संज्ञेति लभ्यते । तदेतदाह — आदैच्चेत्यादिना ।

Padamanjari

Up

त्रिपदमिदं सूत्रम् - वृद्धिः, आद्, ऐज् इति । अत्र चाकारः प्रयोगस्थैराकारैरर्थवान् । जात्यभिप्रायं चैकवचनम् । ऐच्छब्दस्तु ऐकारौकाराभ्याम् । संज्ञिनोर्द्वित्वेऽपि द्विवचनं न भवति; द्वयोरप्येकशब्दरूपरूषितत्वेनैक्यमापन्नयोरिवाभिधानात् । एवं सर्वेष्वेव प्रत्याहारेष्वेकवचनं द्रष्टयम् । समाहारद्वन्द्वो वा - आदैजिति । 'द्वन्द्वाच्चुदषहान्तात् समाहारे' इति समासान्तस्तु न भवति; समासान्तविधेरनित्यत्वात् । अनित्यत्वं च 'द्वित्रिभ्यां पाद्दन्मूर्द्धसु' इति मूर्द्धन्शब्दस्य निर्द्देशादवसीयते । अन्यथा 'द्वित्रिभ्यां ष मूर्ध्नः' इति षप्रत्ययान्तत्वान्मूर्धेष्विति निर्द्देश्यं स्यात् । आदैच्छब्दात्समासत्वादर्थवत्वाद्वा विभक्त्युत्पतौ 'चोः कुः ' पदस्येति कुत्वं प्राप्तम्, अयस्मयादित्वेन भत्वान्न हि भविष्यति; छन्दोवत्सूत्राणि भवन्ति । वृद्धिशब्दस्य त्रयीशब्दानां प्रवृत्तिरिति पक्षे 'वृधु वृद्धौ' इत्यस्माद्भावे क्तिनि व्युत्पत्तिः, अभेदोपचाराच्च वृद्धियुक्तेष्वादैक्षु वृत्तिः । न चैवं लक्षणयैवादैक्षु वृद्धिशब्दस्य वृत्तिसिद्धेः सूत्रस्यानर्थक्यम्; नियमार्थत्वात् । अन्यथा वर्द्धनक्रियायोगिष्विकारादिषु प्लुतेषु च वर्तेत । मा तत्र वर्तिष्ट, आदैक्ष्वेव वर्ततामिति नियमः । चतुष्टयीपक्षे तु कथम्, यावतश्च संज्ञात्वेन विनियुक्ते सति 'सिचि वृद्धिः' इत्यादौ प्रदेशान्तर एव वृद्धिशब्दस्यादैक्षु प्रवृत्तिर्युक्ता, न त्वत्रैव संज्ञाविनियुक्तिकाले ? उच्यते; 'नित्यः शब्दार्थसम्बन्धः' इति दर्शनेन क्वचिदपि पुरुषव्यापारात्प्रअग् वाचकः सन् पुरुषव्यापारेण वाचकः क्रियते । अतः सर्वे शब्दाः संज्ञारूपेण सर्वानर्थान् प्रतिपादयितुं समर्थाः । तत्रानियतार्थेन व्यवहारासिद्धेर्नियमार्थ एव पुरुषव्यापारः - मया प्रयुक्तस्य वृद्धिशब्दस्यादैजर्थ इति । एवं तावत्पदार्थो व्याख्यातः । वाक्यविषयाः पुनरष्टौ विकल्पाः-अनर्थकम्, साध्वनुशासनम्, प्रयोगनियमार्थम्, आदेशार्थम्, आगमार्थम्, विशेषणार्थम्, तद्गुणाध्यारोपार्थम्, संज्ञार्थमिति । तत्रानर्थकाभिधानं प्रमादाश्रयदोषादनवधानादशक्तेर्वा भवति । न चैतच्चतुष्टयं भगवतः सम्भवति; आचार्यो हि दर्भपवित्रपाणिः शुचाववकाशे प्राङ्मुख आसीनो मङ्गलपूर्वकं महता प्रणिधानेन सूत्राणि प्रणीतवान् । तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुम्, किं पुनरियता सूत्रेण ! साध्वनुशासनमपि न भवति, सिद्धत्वाद्वृद्धिशब्दस्य क्तिन्नन्तत्वात्, आदैच्छब्दस्य चार्थवत्वात् । ननु छन्दोवद्भावेन सूत्र एव प्रयोगः सिद्ध्यति, सूत्राद्वहिरपि कुत्वाभावार्थं निपातनमेतत् स्यात्, उच्यते; वृद्धिशब्दस्यैवमनन्वयप्रसङ्गः, संभूयकारित्वं च पदानां व्युत्पत्तिसिद्धम्, अतो नायं पक्षः । नापि प्रयोगनियमार्थम्, यत्र हि सहप्रयोगप्रसङ्गस्तत्र नियमः कर्तव्यः । न च वृद्ध्यादैच्छब्दयोः सहप्रयोगप्रसङ्गः, विनियोगात्प्रागसम्बन्धाद् उतरकालं वृद्धिशब्देनैव गतत्वात् । किं च नेह प्रयोगनियम आरभ्यते । नन्वारभ्यते,'परश्च' इति ? पदस्य नारभ्यते । पदस्याप्यारभ्यते 'उपसर्जनं पूर्वम् ' इति ? ययोरैकपद्यं नास्ति तयोर्नारभ्यते । तयोरप्यारभ्यते 'ते प्राग्धातोः' 'कृञ्चानुप्रयुज्यते लिटि' इति ? नैवंविधेनोच्चारणेनारभ्यते । एवमप्यारभ्यते 'विदाङ्कुर्वन्त्वित्यन्यतरस्याम्' इति ? नात्र केवलः प्रयोग एव नियम्यते, किन्तु आमादिकमपि विधीयते, अतः केवलस्य प्रयोगनियमस्य साक्षादुच्चारणेन क्वचिदप्यभावान्नायं प्रयोगनियमः । आदेशार्थमपि न भवति; स्थान्यर्थाभिधानसमर्थस्यैव ह्यादेशत्वम् । न च वृद्धिशब्द आदैचाम्, ते वा तस्यार्थमभिधातुं समर्थाः । निर्देशाच्च; यदयं 'सिचि वृद्धिः' 'यातिवातिद्राति' 'रायः'ङावः' इत्याह, ततो ज्ञायते - न वृद्धिशब्द आदैचां ते वा तस्यादेशाः इति । अथादैच्शब्दस्य वृद्धिशब्द आदेशः कस्मान्न भवति, न ह्यत्र किं चिल्लिङ्गमस्ति ? सत्यम्; अयं तु पक्षो न संभवत्येव, ऐच्छब्दो ह्यादिरन्त्येनेति संज्ञात्वेन विनियुक्तः कथमस्य स्वरूपस्य ग्रहणम्; अशब्दसंज्ञेति निषेधात् । एतैरेव लिङ्गैरागमार्थत्वं न भवति । षष्ठ।ल्भावाच्च, 'पूर्वौ तु ताभ्याम्' इति पञ्चम्याः षष्ठ।ल्र्थोऽवगम्यते । टित्वादिलिङ्गाभावाच्च, न हि तद्रहितः कश्चिदागमो दृष्टः । विशेषणत्वमपि न भवति, असंभवादप्रयोजनत्वाच्च । न ह्यस्ति संभवो वृद्धशिब्दश्चासावादैच्छब्दश्चेति, नापि वर्द्धनक्रियाऽऽदैज् इति । एवं विशेषणे च प्रयोजनमपि नास्ति । एतेन तद्गुणाध्यारोपोऽपि निरस्तः । यथा हि सिंहो माणवक इति सिंहगुणा माणवके आरोप्यन्ते, नैवमत्र सम्भवः प्रयोजनं वाऽस्ति; अतः पारिशेष्यात्संज्ञासंज्ञिसम्बन्ध एवेत्यालोच्याह-ऽवृद्धिशब्दऽ इत्यादि । विपर्ययस्तु न भवति - वृद्धिशब्दः संज्ञी, आदैचः संज्ञेति । स हि त्रिधा स्यात् - आदैजित्ययं शब्दः, आ ऐ औ इत्ययं समुदायः, ते वा प्रत्येकमिति । तत्रादैच्छब्दस्तावन्न सम्भवति; ऐजित्यस्य संज्ञाशब्दत्वात्, स्वरूपग्रहणासम्भवात्, गौरवाद्, अनावृतेश्च । आवर्तिन्यो हि संज्ञा भवन्ति, वृद्धिः शब्दश्चावर्तते; नादैच्छब्दः । नापि समुदायः, गौरवादनावृतेश्च । अस्तु तर्हि प्रत्येकम्, लाघवादावृतेश्च - 'अष्टन आ विभक्तौ', 'पूतक्रतोरै च' 'मनोरौ वा ' इति ? न; प्रयोजनमन्तरेणैकस्यानेकसंज्ञाकरणस्यायुक्तत्वात्, न ह्ययं वृद्धिशब्दः सहस्रेण नामभिः स्तोतव्यः । शब्देनार्थस्य संज्ञात्वं मा विज्ञायीति शब्दग्रहणम्, एतच्चार्थे व्यवहारासम्भवाल्लभ्यते । तदिह वृद्धिशब्दः संज्ञात्वेन विधीयत इति समुदायेनानर्थकादिपक्षनिरासः । वृद्धिशब्द इत्यनेन विपर्ययनिरासः । वृद्धिशब्दः संज्ञा, न पुनरादैच्छब्द इति वचनव्यक्त्या शब्दग्रहणेनार्थनिरासः-वृद्धिशब्दः संज्ञा न पुनरर्थ इति । यत्र समुदायस्य कार्यमिच्छति करोति तत्र प्रयत्नम् - 'उभे अभ्यस्तम्' इति । तत्र ह्युभे ग्रहणं समुदितप्रतिपत्यर्थम् । अन्वर्थां वा महतीं संज्ञां करोति-'हलोऽनन्तराः संयोगः' इति । इह तु महासंज्ञाकरणं मङ्गलार्थम् । अत एव प्रथममुच्चारणम्; अन्यथा हि सतः कार्यिणः कार्येण भवितव्यमिति 'अदेङ् गुणः' इत्यादिवन्निर्दिश्येत । अतो यत्नाभावात्प्रत्येकमेव संज्ञा । किञ्च - लौकिकप्रयोगे व्यवस्थितानामादैचां संज्ञया भवितव्यम् । न च समुदायस्य क्वचित्प्रयोगः, अतोऽसंभवादपि प्रत्येकमेव संज्ञा । लिङ्गाच्च-किं लिङ्गम् ? 'प्रस्थे वृद्धमकर्क्यादीनाम्' 'मालादीनां च' इति । इदं हि 'मालाप्रस्थः' इत्यादाववृद्धमिति पर्युदासे प्राप्ते वचनम्,अतः प्रत्येकमेव संज्ञा तदाह-प्रत्येकमिति ॥ तत्रापि त्रयः प्रकाराः-लुगादिसंज्ञावतद्भावितानामेव, टिसंज्ञावद्वाऽतद्भावितानामेव, अनुनासिकादिसंज्ञावदुभयेषां वेति । तत्र यदि तद्भावितानामेव - ये वृद्धिसंज्ञया भाव्यन्ते, तेषामेव स्यात्, शालीयो मालीय इति छाए न स्यात्; आम्रमयं रैकुलमयम् - वृद्धलक्षणो मयण् न स्यात्; आम्रगुप्तायनिः - 'उदीचां वृद्धात्' इति फिञ् न स्यात् । अथातद्भावितानामेव - गार्गीयः, ऐतिकायनीयः, औपगवीयः-छाए न स्यात् ; अतो दोषदर्शनादगृह्यमाणविशेषत्वाच्चोभयेषां संज्ञेत्याह-ऽसामान्येनेऽति । आकारोऽनण्त्वादेव न भिन्नकालानां ग्राहक इति न तन्निवॄत्यर्थं तपरत्वम्, नापि गुणान्तरयुक्तानां ग्रहणार्थम् । अभेदकत्वाच्च गुणानाम्, लोके हि मुण्डेनापि चौर्ये कृते संजातकेशोऽपि प्रत्यभिज्ञाय निगृह्यते । तथा 'अडुदातः' इत्युदातवचनं लिङ्गम्, अन्यथा ह्युदातगुणमेवाटमुच्चारयेत् । अतोऽनर्थकं तपरकरणमित्यत आह - ऽतपरकरणमिऽति । तश्चासौ परश्च तपरः, तस्य करणमुच्चारणम्, आकारात्परस्य तकारस्योच्चारणमित्यर्थः । अथ वा-तः परो यस्मादिति तद्गुणसंविज्ञानो बहुव्रीहिः, तकारसहितस्याकारस्योच्चारणमित्यर्थः । ऽऐजर्थमिऽति । ऐचोरर्थः प्रयोजनं यस्य ततथोक्तम् । 'तपरस्तत्कालस्य' इत्यत्र तः परो यस्मादिति बहुव्रीहिराश्रितः । तत्कथं तपरकरणमैजर्थमित्याशङ्क्य पञ्चमीसमासोऽपि तत्राश्रित इति दर्शयति-ऽतादपि परऽ इति । इतिकरणो हेतौ । यस्मात् तादपि परस्तस्मादैजर्थ इति । ऐजर्थत्वमेव प्रकटयति - ऽखट्वैलकादिष्विऽति । असति तपरकरणे त्रिमात्रचतुर्मात्रयोरप्यैचोः सवर्णग्रहणेन ग्रहणाद् वृद्धिसंज्ञा स्यात्, ततश्च वृक्षैलकः, वृक्षौदनः, खट्वैलका, खट्वौदन इति त्रिमात्रचतुर्मात्रस्थानिनोस्त्रिमात्रचतुर्मात्रावेवैकारौकारौ स्यातामिति तन्निवृत्यर्थं तपरकरणम् । आश्वलायन इत्यादीनि तद्भावितानामाकारादीनां क्रमेण रूपोदाहरणानि । अश्वलेतिकशब्दौ नडादी । उपमन्युशब्दो बिदादिः । लक्षणस्य बहुविषयत्वसूचनार्थं चतुर्थस्योदाहरणस्योपन्यासः । आकारस्यातद्भावितस्य कार्योदाहरणमाह - ऽशालीयः, मालीयऽ इति । ऐकारौकारयोस्त्वतद्भावितयोरुदाहरणं रैकुलमयं नौकुलमयमिति, वृद्धलक्षणो मयड् भवति ॥