सुप्यजातौ णिनिस्ताच्छील्ये

3-2-78 सुपि अजातौ णिनिः ताच्छील्ये प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अजातिवाचिनि सुबन्त उपपदे ताच्छील्ये गम्यमाने धातोर्णिनिः प्रत्ययो भवति। उष्णभोजी। शीतभोजी। अजाताविति किम्? ब्राह्मणानामन्त्रयिता। ताच्छील्य इति किम्? उष्णं भुङ्क्ते कदाचित्। सुपीति वर्तमाने पुनः सुब्ग्रहणमुपसर्गनिवृत्त्यर्थम्॥ उत्प्रतिभ्यामाङि सर्तेरुपसंख्यानम्॥ उदासारिण्यः। प्रत्यासारिण्यः॥ साधुकारिणि च॥ साधुकारी। साधुदायी॥ ब्रह्मणि वदः॥ ब्॒रह्म॒वा॒दिनो॑ वदन्ति (तै०सं० २.५.४.१)॥

Siddhanta Kaumudi

Up

अजात्यर्थे सुपि धातोर्णिनिः स्यात्ताच्छील्ये द्योत्ये । उष्णभोजी । शीतभोजी । अजातौ किम् । ब्राह्मणानाममन्त्रयिता । ताच्छील्ये किम् । उष्णं भुङ्क्ते कदाचित् । इह वृत्तिकारेणोपसर्गभिन्न एव सुपि णिनिरिति व्याख्याय उत्प्रतिभ्यामाङि सर्तेरुपसंख्यानमिति पठितम् । हरदत्तमाधवीदिभिश्च तदेवानुसृतम् । तच्च भाष्यविरोधादुपेक्ष्यम् । प्रसिद्धश्चोपसर्गेऽपि णिनिः । स बभूवोपजीविनाम् । अनुयायिवर्गः । पतत्यधो धाम विसारि । न वञ्चनीयाः प्रभवोऽनुजीविभिरित्यादौ ।<!साधुकारिण्युपसंख्यानम् !> (वार्तिकम्) ।<!ब्रह्मणि वदः !> (वार्तिकम्) ॥ अताच्छील्यार्थं वार्तिकद्वयम् । साधुकारी । ब्रह्मवादी ॥

Laghu Siddhanta Kaumudi

Up

अजात्यर्थे सुपि धातोर्णिनिस्ताच्छील्ये द्योत्ये। उष्णभोजी॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सुप्यजातौ णिनिस्ताच्छिल्ये>> - सुप्यजातौ । 'सुपि स्थः' इत्यतः सुपीत्यनुवृत्तौ पुनः सुब्ग्रहणमुपसर्गेऽपि विधानार्थमम् । अन्यथा 'आतोऽनुपसर्गे' इत्यतोऽनुपसर्गे इत्यनुवर्तेत । तद्ध्वनयन्नुदाहरति — उष्णभोजीति । उष्णभोजनशील इत्यर्थः । उपसर्गभिन्न एवेति । अनुपसर्ग इत्यनुवर्तते । सुब्ग्रहणं तुसत्सूद्विषे॑ति सूत्रादुपसर्गेऽपीत्यनुवृत्तिनिवृत्तये इति भावः । उपसर्गभिन्न एवेति । अनुपसर्ग इत्यनुवर्तते । सुब्ग्रहणं तुसत्सूद्विषे॑ति सूत्रादुपसर्गेऽपीत्यनुवृत्तये इति भावः । उत्प्रतिभ्यामिति । उत्प्रतिभ्यां परे आङि प्रयुज्यमाने सति तत्पूर्वात्सर्तेर्णिनेरुपसङ्ख्यानमिति तदर्थः । उदासारिणी प्रत्यासारिणीत्युदाहरणम् । भाष्यविरोधादिति । सुब्ग्रहणमुपसर्गग्रहणाऽनुवृत्तिनिवृत्त्यर्थम्, उपसर्गे अनुपसर्गे च सुबन्ते उपपदे धातोर्णिनिरित्येव भाष्ये उदाहृतत्वादिति भावः । तथा चउत्प्रतिभ्यामाङि सर्ते॑रिति वचं नादर्तव्यम् । भाष्ये तत्पाठस्तु प्रक्षिप्त एवेति भावः । अत एव 'अनुगादिनष्ठ' गिति सूत्रप्रयोगश्च सङ्गच्छते इति ज्ञेयम् ।उपसर्गभिन्न एव सुपि णिनि॑रिति मतं शिष्टप्रयोगविरुद्धं चेत्याहु — — प्रसिद्धश्चोपसर्गेऽपि णिनिरिति ।इत्यादा॑वित्यत्रान्वयः । साधुकारिणीति । कृञ्ग्रहणं सर्वधातूपलक्षणम् । साधुकारीत्यात्युदाहरणात् । ब्राहृणि वद इति ।णिनेरुपसङ्ख्यान॑मिति शेषः ।णिनेरुपसङ्ख्यान॑मिति शेषः । ननु 'सुप्यजातौ' इत्येव सिद्धे किमर्थमिदं वार्तिकमित्यत आह — अताच्छील्यार्थमिति । साधुदायीति । आतो युक् । ब्राहृवादीति । ब्राहृ - वेदः ।

Padamanjari

Up

सुप्यजातौ णिनिस्ताच्छील्ये॥ ब्राह्मणानामन्त्रयितेति। ताच्छील्यस्य विवक्षितत्वातृन् प्रत्युदाहृतः,'न लोकाव्यय' इति षष्ठीप्रतिषेधः। उत्प्रतिभ्यामिति। पुनः सुब्ग्रहणस्योपसर्गनिवृत्यर्थत्वादयमारम्भः। साधुकारिणि चेति। अताच्छील्यार्थमिदम्, तच्चैतज्ज्ञापकात्सिद्धं यदयम् ठाक्वेस्तच्छीलऽ इत्यत्र तच्छीलेत्यभिधाय साधुकारिग्रहणं करोति, तज्ज्ञापयति - साधुकारिण्यताच्छील्येऽपि णिनिर्भवतीति। ब्रह्मणि वद इति। ब्रह्मौवेदः। इदमप्यताच्छील्यार्थम्॥