2-1-32 कर्तृकरणे कृता बहुलम् आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः तृतीया
तृतीयेति वर्तते। कर्तरि करणे च या तृतीया, तदन्तं कृदन्तेन सह समस्यते बहुलम्, तत्पुरुषश्च समासो भवति। सर्वोपाधिव्यभिचारार्थं बहुलग्रहणम्। कर्तरि — अहिना हतः, अहिहतः। करणे — नखैर्निर्भिन्नः, नखनिर्भिन्नः। परशुना छिन्नः, परशुच्छिन्नः। कर्तृकरण इति किम्? भिक्षाभिरुषितः। बहुलग्रहणं किम्? दात्रेण धान्यं लूनवान्, परशुना छिन्नवान् इह समासो न भवति। पादहारकः, गलेचोपक इति च भवति॥
कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्रागवत् । हरिणा त्रातो हरित्रातः । नखैर्भिन्नो नखभिन्नः ॥ [(परिभाषा - ) कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्] ॥ नखनिर्भिन्नः । कर्तृकरणे इति किम् । भिक्षाभिरुषितः । हेतावेषा तृतीया । बहुलग्रहणं सर्वोपाधिव्यभिचारार्थम् । तेन दात्रेण लूनवानित्यादौ न । कृता किम् । काष्ठैः पचतितराम् ॥
कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत्। हरिणा त्रातो हरित्रातः। नखैर्भिन्नः नखभिन्नः। <<कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्>> (वार्त्तिकम्)। नखनिर्भिन्नः॥
<<कर्तृकरणे कृता बहुलम्>> - कर्तृकरणे । कर्ता च करणं चेति समाहाद्वन्द्वात्सप्तमी । तृतीयेत्यनुवर्तते । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणं । कृतेत्यपि तथैव । तदाहकर्तरि करणे चेति । प्राग्वदिति । समस्यते स तत्पुरुष इत्यर्थः । इह कृद्ग्रहणेन क्तप्रत्यय एव गृह्रते, बहुलग्रहणादिति भाष्यम् । अतः क्तान्तमेवोदाहरति — हरिणा त्रात इति । पालित इत्यर्थः । ननु कृदन्तस्य समर्थविशेषणत्वेऽपि समासप्रत्ययविधौ तदन्तविधिप्रतिषेधान्नखनिर्भिन्न इत्यत्र न स्यादित्यत आह — कृद्ग्रहणे इति । परिभाषेयम् 'गतिरनन्तरः' इति सूत्रे भाष्ये स्थिता । पचतितरामिति । अतिशयेन पचतीत्यर्थः । 'अति शायने'तिङश्चे॑त्यनुवृत्तौद्विवचनविभज्ये॑ति तरप् ।किमेत्तिङव्ययघादाम्बद्रव्यप्रकर्षे॑ इत्याम् । अत्र तद्धितान्तेन समासनिवृत्त्यर्थं कृद्ग्रहणमिति भावः ।
'कर्तृकरणे' इति प्रथमाद्विवचनम्। वृतौ वस्तुव्याख्यानं कृतम् - कर्तरि करणे च या तृतीयेति। तथा चोतरत्र वक्ष्यति'कर्तृकरणे कृत्यैः सहाधिकार्थवचने समस्येते' इति। पर्वोपाधिव्यभिचारार्थमिति। अव्याप्त्यतिव्याप्तिपरिहार्थमित्यर्थः। पादहारक इति। ह्रियत इति हारक इति'कृत्यल्युटो बहुलम्' इति कर्मणि ण्वुल्, पादाभ्यामित्यपादानपञ्चम्यन्तस्य समासः। गले चोपक इति।'चुप मन्दायाआ गतौ' , हेतुमण्णिजन्तात्कर्मणि ण्वुल्, ठमूर्ध्दमस्तकात्ऽ यत्युल्क्। कृद्रहणमनर्तकम्; अन्यस्याभावात्। इह कर्तृकरण क्रियाया एव भवतः क्रिया च धातुव्च्या, ध्तोश्च द्वये प्रत्ययाः - कृतस्तिङ्श्च। तत्र सुपेत्यधिकारातिङ्न्ते न प्रसङ्गः। तद्वितनिवृत्यर्थं तु - इह काष्ठ्èअः पचतितराम्, काष्ठ्èअः पचतिरूपम्, काष्ठ्èअः पचतिदेश्यम्, हस्तेन कृतपूर्वी, दध्ना भुक्तपूर्वी, धृतेनेष्टीति॥