ओमाङोश्च
6-1-95 ओमाङोः च संहितायाम् अचि एकः पूर्वपरयोः आद् पररूपम्
Sampurna sutra
Up
ओम्-आङोः आत् पूर्वपरयोः एकः पररूपम्
Neelesh Sanskrit Brief
Up
अवर्णात् ओम्-शब्दे परे आङ्-शब्दे च परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति ।
Neelesh English Brief
Up
In the context of संहिता, When अवर्ण is followed by the word ओम् or the word आङ् , both the letters are replaced by a single पररूप.
Kashika
Up
आदित्येव । अवर्णान्तादोमि आङि च परतः पूर्वपरयोः स्थाने पररूपमेकादेशो भवति। का ओमित्यवोचत् कोमित्यवोचत्। योमित्यवोचत्। आङि खल्वपि — आ ऊढा ओढा। अद्य ओढा अद्योढा। कदा ओढा कदोढा। तदा ओढा तदोढा। <<वृद्धिरेचि>> ६.१.८८ इत्यस्यापवादः। इह तु आ ऋश्यात् अर्श्यात्, अद्य अर्श्यात् अद्यर्श्यादिति अकः सवर्णे दीर्घत्वं ६.१.१०१ बाधते॥
Siddhanta Kaumudi
Up
ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवायों नमः । शिव एहि । शिवेहि ॥
Laghu Siddhanta Kaumudi
Up
ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवायों नमः । शिव एहि ॥
Neelesh Sanskrit Detailed
Up
अवर्णात् (इत्युक्ते, अकारात् उत आकारात्) परः यदि 'ओम्' (ॐ) शब्दः, अथवा 'आङ्' उपसर्गः विद्यते चेत् संहिताया: विषये पूर्वपरवर्णयोः पररूप-एकादेशः भवति ।
उदाहरणानि क्रमेण एतादृशानि —
(1) ओम्-शब्दः — अवर्णात् ओम्-शब्दस्य ओकारे परे पूर्वपरयोः <<वृद्धिरेचि>> 6.1.88 इत्यनेन वृद्ध्येकादेशे प्राप्ते, तद्बाधित्वा प्रकृतसूत्रेण पररूप-एकादेशः भवति ।
शिवाय ओम् नमः → शिवायोम् नमः ।
का ओम् अवोचत् → कोम् अवोचत् ।
(2) आङ्-उपसर्गः — धातुरूपस्य आदौ विद्यमानः आङ्-उपसर्गः अवर्णात् परः विद्यते चेत् पूर्वपरयोः पररूप-एकादेशः भवति । वस्तुतस्तु अस्यां स्थितौ <<धातूपसर्गयोः कार्यम् अन्तरङ्गम्>> इति परिभाषया आदौ आङ्-उपसर्गस्य धातुना सह सन्धिकार्यम् क्रियते । अनेन सन्धिकार्येण आङ्-इत्यस्य स्थाने जायमानेन वर्णेन सह तस्मात् पूर्वम् विद्यमानस्य अवर्णस्य पररूपैकादेशः भवितुम् अर्हति । यथा —
1. अद्य + आ + इङ्खति इत्यत्र आङ्-उपसर्गस्य 'इङ्खति' इत्यस्य इकारेण सह गुणैकादेशे कृते अद्य + एङ्खति इति स्थिते, <<वृद्धिरेचि>> 6.1.88 इत्यनेन वृद्ध्येकादेशे प्राप्ते, तद्बाधित्वा प्रकृतसूत्रेण पररूप-एकादेशः भवति, येन अद्येङ्खति इति रूपं सिद्ध्यति ।
2. अद्य + आ + उङ्खति इत्यत्र आङ्-उपसर्गस्य 'उङ्खति' इत्यस्य उकारेण सह गुणैकादेशे कृते अद्य + ओङ्खति इति स्थिते, <<वृद्धिरेचि>> 6.1.88 इत्यनेन वृद्ध्येकादेशे प्राप्ते, तद्बाधित्वा प्रकृतसूत्रेण पररूप-एकादेशः भवति, येन अद्योङ्खति इति रूपं सिद्ध्यति ।
<<ओमाङोश्च>> 6.1.95 इति सूत्रम् सर्वेषाम् सन्धिकार्याणाम् बाधकम्
प्रकृतसूत्रम् अन्येषाम् सर्वेषाम् सन्धिकार्याणाम् बाधकरूपेण विधीयते । तदित्थम् —
1. <<ओमाङोश्च>> 6.1.95 इति <<वृद्धिरेचि>> 6.1.88 इत्यस्य बाधकम् —
अद्य + आ + इङ्खति इत्यत्र आङ्-उपसर्गस्य 'इङ्खति' इत्यस्य इकारेण सह गुणैकादेशे कृते अद्य + एङ्खति इति स्थिते, <<वृद्धिरेचि>> 6.1.88 इत्यनेन वृद्ध्येकादेशे प्राप्ते, तद्बाधित्वा <<ओमाङोश्च>> 6.1.95 इत्यनेन पररूप-एकादेशः भवति, येन अद्येङ्खति इति रूपं सिद्ध्यति ।
2. <<ओमाङोश्च>> 6.1.95 इति <<एत्येधत्यूठ्सु>> 6.1.89 इत्यस्य बाधकम् —
शिव + आ + इहि इत्यत्र आङ्-उपसर्गस्य 'इहि' इत्यस्य इकारेण सह गुणैकादेशे कृते शिव + एहि इति स्थिते, <<एत्येधत्यूठ्सु>> 6.1.89 इत्यनेन वृद्ध्येकादेशे प्राप्ते, तत् परत्वात् बाधित्वा <<ओमाङोश्च>> 6.1.95 इत्यनेन पररूप-एकादेशः भवति, येन शिवेहि इति रूपं सिद्ध्यति ।
3. <<ओमाङोश्च>> 6.1.95 इति <<एङि पररूपम्>> 6.1.94 इत्यस्य बाधकम् —
प्र + आ + इङ्खति इत्यत्र आङ्-उपसर्गस्य 'इङ्खति' इत्यस्य इकारेण सह पररूपैकादेशे कृते प्र + एङ्खति इति स्थिते, <<एङि पररूपम्>> 6.1.94 इत्यनेन पररूप-एकादेशे प्राप्ते, तत् परत्वात् बाधित्वा <<ओमाङोश्च>> 6.1.95 इत्यनेन पुनः पररूप-एकादेशः एव भवति, येन प्रेङ्खति इति रूपं सिद्ध्यति ।
4. <<ओमाङोश्च>> 6.1.95 इति <<अकः सवर्णे दीर्घः>> 6.1.101 इत्यस्य बाधकम् —
'देवस्य आलयः' इत्यत्र देव + आङ् + लय इति स्थिते, <<अकः सवर्णे दीर्घः>> 6.1.101 इत्यनेन सवर्णदीर्घ-एकादेशे प्राप्ते, तत्बाधित्वा <<ओमाङोश्च>> 6.1.95 इत्यनेन पररूप-एकादेशः भवति, येन देवालय इति रूपं सिद्ध्यति ।
देव + आलय → देवालय इत्यादिषु स्थलेषु <<अकः सवर्णे दीर्घः>> 6.1.101 इत्यनेन सवर्णदीर्घः मन्यते चेदपि नैव दोषाय इति बहवः वैयाकरणाः प्रतिपादयन्ति । तत् विधानम् छात्राणाम् सौलभ्यार्थम् कृतम् अस्ति । शास्त्रदृष्ट्या तु अत्र सवर्णदीर्घं बाधित्वा पररूप-एकादेशेन एव आकारः विधीयते ।
##Balamanorama
<<ओमाङोश्च>> - ओमाङोश्च । ओम् च आङचेति विग्रहः । आदिति पररूपमिति चानुवरग्तते, एकः पूर्वपरयो॑रिति च । तदाह — ओमीत्यादिना । शिवार्योनम इति । अत्र वृदिंध बाधित्वा पररूपम् । शिवहीति । आःइहीति स्थिते गुणेएही॑ति रूपम् । ततः शिव-एहि इति स्थिते वृदिंध बाधित्वा पररूपमेकारः । नचशिव-अःइही॑ति स्थिते सवर्णदीर्घे कृते पश्चाद्गुणे शिवेहीति रूपसिद्धेराङ्ग्रहणं व्यर्थमिति वाच्यं,धातूपसर्गयोः कार्यमन्तरङ्ग॑मिति न्यायेन प्रथमाद्गुण इति गुणे कृते शिव-एहीति स्थिते वृद्धौ प्राप्तायां तन्निवृत्त्यर्थत्वात् । भाष्ये तु-आ ऋश्यात्, गुणः अश्र्यात्, अद्य-अश्र्यात्-अद्यश्र्यादित्यत्र सवर्णदीर्घनिवृत्त्यर्थमाद्ग्रहणमिति स्थितम् ।
##Padamanjari
अद्योढेअति। आङ्नाङेरेकादेश आङ्ग्रहणेन गृह्यत इति भवत्युदाहरणम्। अत्र च'धातूपसर्गयोः कार्यमन्तरङ्गम्' इति पूर्वमाद्गुणए कृते पश्चादद्यशब्देन सम्बन्धे वृद्धिः प्राप्नोति, एवमाङे रूपमवितष्टम्। अद्य गाअगत इत्यादौ तत्र सवर्मदीर्घत्वेन सिद्धं रूपम्। अकः सवर्णे दीर्घत्वं बाध्यत इति। ननु च मध्येऽपवादन्यायेन वृद्धेरेव बाधो युक्तः न दीर्घत्वस्य? नैष दोष; चकारोऽत्र क्रियते, स पुनर्विदानार्थो भविष्यति ॥