क्र्यादिभ्यः श्ना

3-1-81 क्र्यादिभ्यः श्ना प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः सार्वधातुके कर्तरि

Sampurna sutra

Up

कर्त्तरि सार्वधातुके क्र्यादिभ्यः धातोः परः श्ना-प्रत्ययः

Neelesh Sanskrit Brief

Up

सार्वधातुके कर्तरि प्रत्यये परे क्र्यादिगणस्य धातोः परः श्ना-प्रत्ययः विधीयते ।

Neelesh English Brief

Up

A verb belonging to the क्र्यादिगण gets the विकरणप्रत्यय 'श्ना' in presence of a सार्वधातुक प्रत्यय in कर्तरि प्रयोग.

Kashika

Up

<<डुक्रीञ् द्रव्यविनिमये>> इत्येवमादिभ्यो धातुभ्यः श्नाप्रत्ययो भवति। शपोऽपवादः। शकारः सार्वधातुकसंज्ञार्थः। क्रीणाति। प्रीणाति॥

Siddhanta Kaumudi

Up

{$ {!1473 डुक्रीञ्!} द्रव्यविनिमये$} ॥ क्रीणाति । ई हल्यघः <{SK2497}> क्रीणीतः । ईत्वात्पूर्वं झेरन्तादेशः । परत्वान्नित्यत्वादन्तरङ्गत्वाच्च । एवं झस्याद्भावः । ततः श्नाभ्यस्तयोः - <{SK2483}> इत्याल्लोपः । क्रीणन्ति । क्रीणीते । क्रीणाते । क्रीणाते । चिक्राय । चिक्रियतुः । चिक्रियिथ । चिक्रेथ । चिक्रियिव । चिक्रियिषे । क्रेता । क्रेष्यति । क्रीतात् । क्रेषीष्ट । अक्रैषीत् । अक्रेष्ट ।{$ {!1474 प्रीञ्!} तर्पणे कान्तौ च$} । कान्तिः कामना । प्रीणाति । प्रीणीते ।{$ {!1475 श्रीञ्!} पाके$} ।{$ {!1476 मीञ्!} हिंसायाम्$} । हिनुमीना <{SK2530}> प्रमीणाति । प्रमीणीतः । मीनातिमिनोति <{SK2508}> इत्येज्विषये आत्वम् । ममौ । मिम्यतुः । ममिथ । ममाथ । मिम्ये । माता । मास्यति । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् । अमास्त ।{$ {!1477 षिञ्!} बन्धने$} । सिनाति । सिनीते । सिषाय । सिष्ये । सेता ।{$ {!1478 स्कुञ्!} आप्रवणे$} ॥

Laghu Siddhanta Kaumudi

Up

॥ {$ {! 1 डुक्रीञ् !} द्रव्यविनिमये $} (धातुपाठे <{09.0001}>) ॥ शपोऽपवादः। क्रीणाति। ई हल्यघोः। क्रीणीतः। श्नाभ्यस्तयोरातः। क्रीणन्ति। क्रीणासि। क्रीणीथः। क्रीणीथ। क्रीणामि। क्रीणीवः। क्रीणीमः। क्रीणीते। क्रीणाते। क्रीणते। क्रीणीषे। क्रीणाथे। क्रीणीध्वे। क्रीणे। क्रीणीवहे। क्रीणीमहे। चिक्राय। चिक्रियतुः। चिक्रियुः। चिक्रयिथ, चिक्रेथ। चिक्रिय। चिक्रिये। क्रेता। क्रेष्यति, क्रेष्यते। क्रीणातु, क्रीणीतात्। क्रीणीताम्। अक्रीणात्, अक्रीणीत। क्रीणीयात्, क्रीणीत। क्रीयात्, क्रेषीष्ट। अक्रैषीत्, अक्रेष्यत॥॥ {$ {! 2 प्रीञ् !} तर्पणे कान्तौ च $} (धातुपाठे <{09.0002}>) ॥ प्रीणाति, प्रीणीते॥ {$ {! 3 श्रीञ् !} पाके $} (धातुपाठे <{09.0003}>) ॥ श्रीणाति, श्रीणीते॥ {$ {! 4 मीञ् !} हिंसायाम् $} (धातुपाठे <{09.0004}>) ॥

Neelesh Sanskrit Detailed

Up

किम् नाम सार्वधातुकप्रत्ययः? <<तिङ्शित्सार्वधातुकम्>> 3.4.113 इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । किम् नाम कर्तरिप्रयोगः? <<लः कर्मणि च भावे च अकर्मकेभ्यः>> 3.4.69 अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः । कर्तरि प्रयोगे सार्वधातुके प्रत्यये परे क्र्यादिगणस्य धातोः परः 'श्ना' इति गणविकरणम् प्रत्ययरूपेण आगच्छति । अस्मिन् विकरणे शकारस्य <<लशक्वतद्धिते>> 1.3.8 इत्यनेन इत्संज्ञा भवति, ततः <<तस्य लोपः>> 1.3.9 इत्यनेन तस्य लोपः भवति । अतः केवलम् 'ना' इति अवशिष्यते । यथा - 1) डुक्रीञ् (द्रव्यविनिमये) इति क्र्यादिगणस्य प्रथमः धातुः । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशम् सिदध्यति - क्री + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्-लकारः] → क्री + तिप् [<<तिप्तस्झि..>> 3.4.78 इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः] → क्री + श्ना + ति [सार्वधातुके प्रत्यये परे <<क्र्यादिभ्यः श्ना>> 3.1.73 इति विकरणप्रत्ययः 'श्ना' ] → क्रीणाति [<<अट्कुप्वाङ्नुम्व्ययायेऽपि>> 8.4.2 इत्यनेन णत्वम् ।] 2) ज्ञा (अवबोधने) इति क्र्यादिगणस्य धातुः । तस्य 'शतृ' इति सार्वधातुके प्रत्यये परे - ज्ञा + शतृ [<<लटः शतृशानचौ अप्रथमासमानाधिकरणे>> 3.2.124 इत्यनेन शतृ-प्रत्ययः] → ज्ञा + श्ना + शतृ [सार्वधातुके प्रत्यये परे <<क्र्यादिभ्यः श्ना>> 3.1.73 इति विकरणप्रत्ययः 'श्ना'] → ज्ञा + ना + अत् [इत्संज्ञालोपः] → जा + ना + अत् [<<ज्ञाजनोर्जा>> 7.3.79 इति अङ्गस्य जा-आदेशः] → जा+ न् + अत् [<<श्नाभ्यस्तयोरातः>> 6.4.112 इति श्ना-इत्यस्य आकारस्य लोपः] → जानत् 'श्ना' गणविकरणस्य भिन्नेषु प्रत्ययेषु परेषु किञ्चित् परिवर्तनमपि भवति । यथा - 1. अजादि-अपित् प्रत्यये परे <<श्नाभ्यस्तयोरातः>> 6.4.112 इत्यनेन 'श्ना' इत्यस्य आकारस्य लोपः भवति । यथा - क्री + श्ना + अन्ति → क्री न् अन्ति → क्रीणन्ति । 2. हलादि-अपित्-प्रत्यये परे <<ई हल्यघोः>> 6.4.113 इत्यनेन 'श्ना' इत्यस्य आकारस्य ईकारादेशः भवति । यथा - क्री + श्ना + तः → क्री + नी + तः → क्रीणीतः । ज्ञातव्यम् - <<कर्तरि शप्>> 3.1.68 इत्यनेन सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकरूपेण शप्-प्रत्ययः विधीयते । क्र्यादिगणस्य धातुभ्यः तस्य अपवादरूपेण श्ना-प्रत्ययः भवति ।

Balamanorama

Up

<<क्र्यादिभ्यः श्ना>> - क्र्यादिभ्यः श्ना.कत्र्रर्थे सार्वधातुके परे क्र्यादिभ्यः श्नाप्रत्ययः स्यात्स्वार्थे इत्यर्थः । शपोऽपवादः । क्रीणातीति । श्नाप्रत्ययस्य अपित्सार्वधातुकत्वेन ङित्त्वादीकारस्य न गुण इति भावः । ई हल्यघोरिति । हलादौ क्ङिति सार्वधातुके ईत्त्वमिति भावः । क्री णा झीति स्थितेई हल्यघो॑रिति ईत्वमाशङ्क्य आह — ईत्वात्पूर्वमिति । नित्यत्वादिति । अकृते कृते च ईत्वे अन्तादेशस्य प्रवृत्तेरिति भावः । एवं झस्येति । क्री णा झ इति स्थिते 'आत्मनेपदेष्वनतः' इत्यदादेशोऽपि ईत्त्वात्पूर्वमित्यर्थः । तत इति । अन्तादेशाददादेशाच्च पश्चादित्यर्थः । अजादौ क्ङिति सार्वधातुके श्नाप्रत्ययस्य आल्लोपः । भारद्वाजनियमात्थलि वेडिति मत्वाऽऽह — चिक्रयिथ चिक्रेथेति । चिक्रियिवेति । क्रादिनियमादिडिति भावः । क्रीणातु । क्रीणीहि । अक्रीणात् । अक्रीणीत । क्रीणीयात् । क्रीणीत ।

Padamanjari

Up