एङि पररूपम्
6-1-94 एङि पररूपम् संहितायाम् अचि एकः पूर्वपरयोः आद् उपसर्गात् धातौ
Sampurna sutra
Up
आत् उपसर्गात् एङि धातौ पूर्वपरयोः एकः पररूपम्
Neelesh Sanskrit Brief
Up
अवर्णान्तात् उपसर्गात् एकारादि/ओकारादि-धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति ।
Neelesh English Brief
Up
When an अवर्णान्त उपसर्ग is followed by a एकारादि or ओकारादि verb form, both the letters are replaced by a single पररूप.
Kashika
Up
आदित्येव, उपसर्गाद् धाताविति च। अवर्णान्तादुपसर्गादेङादौ धातौ पूर्वपरयोः पररूपमेकादेशो भवति। <<वृद्धिरेचि>>६.१.८८ इत्यस्यापवादः। उपेलयति। प्रेलयति। उपोषति। प्रोषति। केचिद् <<वा सुप्यापिशलेः>> ६.१.९२ इत्यनुवर्तयन्ति, तत् च वाक्यभेदेन सुब्धातौ विकल्पं करोति। उपेडकीयति, उपैडकीयति। उपोदनीयति, उपौदनीयति॥ शकन्ध्वादिषु पररूपं वक्तव्यम्॥ शक अन्धुः शकन्धुः। कुल अटा कुलटा ॥ सीमन्तः केशेषु॥ सीम्नोऽन्तः सीमन्तः। अन्यत्र सीमान्तः॥ एवे चानियोगे पररूपं वक्त व्यम्॥ इह एव इहेव । अद्य एव अद्येव । अनियोग इति किम् ? इहैव भव, मान्यत्र गाः ॥ ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम् ॥ स्थूल ओतुः स्थूलौतुः, स्थूलोतुः। बिम्बौष्ठी, बिम्बोष्ठी। समास इति किम् ? तिष्ठ देवदत्तौष्ठं पश्य॥ एमन्नादिषु छन्दसि पररूपं वक्त व्यम्॥ अपां त्वा एमन्, अपां॑ त्वेमन् (मै॰ सं॰ २.७.१८)। अपां त्वा ओद्मन्, अपां॑ त्वो॑द्म॒न् (मै॰ सं॰ २.७.१८)॥
Siddhanta Kaumudi
Up
आदुपसर्गादेङादौ धातौ परे पररूपमेकादेशः स्यात् । प्रेजते । उपोषति । इह वासुपीत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेन एङादौ सुब्धातौ वा । उपेडकीयति । उपैडकीयति । प्रोघीयति । प्रौघीयति ॥<!एवे चानियोगे !> (वार्तिकम्) ॥ नियोगोऽवधारणम् । क्वेव भोक्ष्यसे । अनवकॢप्तावेवशब्दः । अनियोगे किम् । तवैव ॥
Laghu Siddhanta Kaumudi
Up
आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात् । प्रेजते । उपोषति ॥
Neelesh Sanskrit Detailed
Up
उपसर्गस्य अन्ते विद्यमानात् अवर्णात् परः विद्यमानस्य धातुरूपस्य आदौ एकारः / ओकारः विद्यते चेत् पूर्वपरयोः <<वृद्धिरेचि>> 6.1.88 इत्यनेन प्राप्तां वृद्धिं बाधित्वा पररूप-एकादेशः भवति । इत्युक्ते, अवर्ण-एकारयोः मिलित्वा एकारादेशः भवति; अवर्ण-ओकारयोः च मिलित्वा ओकारादेशः भवति । यथा —
1. प्र + एजते → प्रेजते । 'एजते' इति एजृ (दीप्तौ, <{1.263}>) धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् । अत्र अकार-एकारयोः पररूपम् एकारः भवति ।
2. परा + एजते → परेजते ।
3. प्र + ओषति → प्रोषति । 'ओषति' इति उष् (दाहे, <{1.792}> धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् । अत्र अकार-ओकारयोः पररूपम् ओकारः भवति ।
4. परा + ओषति → परोषति ।
अत्र निर्दिष्टः एकारः / ओकारः धातुरूपस्य आदौ भवेत् इति अत्र आवश्यकम् । धातोः आदौ तु कोऽपि वर्णः भवितुम् अर्हति । अतएव 'उष्' धातोः विषये अपि उपरि निर्दिष्टे उदाहरणे अस्य सूत्रस्य प्रयोगः कृतः दृश्यते ।
'वा सुपि' इत्यस्य अनुवृत्तिः
केषाञ्चन वैयाकरणानां मतेन, अस्मिन् सूत्रे <<वा सुप्यापिशलेः>>
6.1.92 इत्यतः 'वा सुपि' इति अपि अनुवर्तते । इत्युक्ते, प्रकृतसूत्रेण उक्तम् पररूपम् सुब्धातूनां विषये विकल्पेन प्रवर्तते इति अत्र आशयः । यथा —
1. 'एडकम् आत्मनः इच्छति' इत्यस्मिन् अर्थे 'एडक' शब्दात् <<सुप आत्मनः क्यच्>> 3.1.8 इत्यनेन क्यच्-प्रत्यये कृते 'एडकीय' इति आतिदेशिकधातुः सिद्ध्यति । अस्य धातोः रूपम् अवर्णान्त-उपसर्गात् परं विद्यते चेत् विकल्पेन पररूप-एकादेशः विधीयते; पक्षे च <<वृद्धिरेचि>> 6.1.88 इत्यनेन वृद्ध्येकादेशः अपि भवति । प्र + एडकीयति → प्रेडकीयति, प्रैडकीयति ।
2. 'ओदनम् आत्मनः इच्छति' इत्यस्मिन् अर्थे 'ओदन' शब्दात् <<सुप आत्मनः क्यच्>> 3.1.8 इत्यनेन क्यच्-प्रत्यये कृते 'ओदनीय' इति आतिदेशिकधातुः सिद्ध्यति । अस्य धातोः रूपम् अवर्णान्त-उपसर्गात् परं विद्यते चेत् विकल्पेन पररूप-एकादेशः विधीयते; पक्षे च <<वृद्धिरेचि>> 6.1.88 इत्यनेन वृद्ध्येकादेशः अपि भवति । उप + ओदनीयति → उपोदनीयति, उपौदनीयति ।
वा इत्यस्य अनुवृत्तिः केवलम् 'सुपि' इत्यस्य कृते (इत्युक्ते, आतिदेशिकधातूनां विषये) एव अस्ति । औपदेशिकधातूनां विषये तु इदं सूत्रम् नित्यमेव प्रवर्तते, न हि विकल्पेन ।
बाध्यबाधकभावः
इण्-धातोः एध्-धातोः च एकारादौ रूपस्य विषये प्रकृतसूत्रं बाधित्वा <<एत्येधत्यूठ्सु>>
6.1.89 इत्यनेन वृद्ध्येकादेशः विधीयते । यथा,
उप + एति → उपैति,
उप + एधते → उपैधते ।
वार्त्तिकानि
काशिकायां सिद्धान्तकौमुद्यां च अस्मिन् सूत्रे कानिचन वार्तिकानि पाठ्यन्ते । तानि एतादृशानि —
<! 1. शकन्ध्वादिषु पररूपं वाच्यम् ; तच्च टेः !>
'शकन्ध्वादिः' इत्यस्मिन् गणे विद्यमानानाम् शब्दानाम् सिद्धौ पूर्वपदस्य टि-संज्ञकस्य उत्तरपदस्य आदिस्वरेण सह पररूप-एकादेशः विधीयते — इति अस्य वार्त्तिकस्य अर्थः ।
शकन्ध्वादिगणे विद्यमानाः शब्दाः ससिद्धिम् अधः प्रदर्शिताः सन्ति —
1. शकन्धुः — अयं शब्दः 'शकस्य अन्धुः' इति षष्ठीसमासं कृत्वा सिद्ध्यति । 'शक' इति कस्यचन देशस्य नाम । अन्धुः इत्युक्ते कूपः । 'शक + अन्धुः' इत्यत्र पूर्वपदस्य टिसंज्ञकस्य (अकारस्य) उत्तरपदस्य आदिस्वरेण (अकारेण) सह पररूपैकादेशं कृत्वा अकारः सिद्ध्यति । शक + अन्धुः → शक् + (अ + अ) + न्धुः → शक् + अ + न्धुः → शकन्धुः ।
2. कर्कन्धुः — अयं शब्दः 'कर्कस्य अन्धुः' इति षष्ठीसमासं कृत्वा सिद्ध्यति । 'कर्क' इति कस्यचन देशस्य नाम । अन्धुः इत्युक्ते कूपः । 'कर्क + अन्धुः' इत्यत्र पूर्वपदस्य टिसंज्ञकस्य (अकारस्य) उत्तरपदस्य आदिस्वरेण (अकारेण) सह पररूपैकादेशं कृत्वा अकारः सिद्ध्यति । कर्क + अन्धुः → कर्क् + (अ + अ) + न्धुः → कर्क् + अ + न्धुः → कर्कन्धुः ।
3. कुलटा — अयं शब्दः 'कुलान् अटति' इत्यस्मिन् अर्थे कुल-उपपदात् अट्-धातोः अच्-प्रत्ययं कृत्वा सिद्ध्यति । वेश्या इति अस्य शब्दस्य अर्थः । प्रक्रियायाम् 'कुल + अटा' इति स्थिते, पूर्वपदस्य टिसंज्ञकस्य (अकारस्य) उत्तरपदस्य आदिस्वरेण (अकारेण) सह पररूपैकादेशं कृत्वा अकारः सिद्ध्यति । कुल + अटा → कुल् + (अ + अ) + टा → कुल् + अ + टा → कुलटा ।
4. सीमन्त: — अयं शब्दः 'सीम्नः अन्तः' इति षष्ठीसमासं कृत्वा सिद्ध्यति । 'सीमन्' इत्युक्ते केशवेषः (केशानां मध्ये उपस्थिता रेषा इत्यर्थः) । अत्याः अन्तः (end point) सीमन्तः इति नाम्ना ज्ञायते । प्रक्रियायाम् 'सीमन्' शब्दस्य टिसंज्ञकस्य (अन् इत्यस्य) 'अन्त'शब्दस्य अकारेण सह पररूपैकादेशं कृत्वा अकारः जायते । सीमन् + अन्तः → सीम् + (अन् + अ) + न्तः → सीम् + अ + न्तः → सीमन्तः ।
5. मनीषा — अयं शब्दः 'मनसः ईषा (गमनम्)' इति षष्ठीसमासं कृत्वा सिद्ध्यति । 'इच्छा / बुद्धिः / चिन्तनम्' इति अस्य शब्दस्य अर्थः । प्रक्रियायाम् 'मनस्' शब्दस्य टिसंज्ञकस्य (अस् इत्यस्य) 'ईषा'शब्दस्य ईकारेण सह पररूपैकादेशं कृत्वा ईकारः जायते । मनस् + ईषा → मन् + (अस् + ई) + षा → मन् + ई + षा → मनीषा ।
6. हलीषा — अयं शब्दः 'हलस्य ईषा (अग्रः)' इति षष्ठीसमासं कृत्वा सिद्ध्यति । 'हलस्य अग्रः (The handle of a plough)' इति अस्य शब्दस्य अर्थः । प्रक्रियायाम् 'हल' शब्दस्य टिसंज्ञकस्य (अकारस्य) 'ईषा'शब्दस्य ईकारेण सह पररूपैकादेशं कृत्वा ईकारः जायते । हल + ईषा → हल् + (अ + ई) + षा → हल् + ई + षा → हलीषा ।
7. लाङ्गलीषा — अयं शब्दः 'लाङ्गलस्य ईषा (अग्रः)' इति षष्ठीसमासं कृत्वा सिद्ध्यति । 'लाङ्गलस्य अग्रः (The handle of a plough)' इति अस्य शब्दस्य अर्थः । प्रक्रियायाम् 'लाङ्गल' शब्दस्य टिसंज्ञकस्य (अकारस्य) 'ईषा'शब्दस्य ईकारेण सह पररूपैकादेशं कृत्वा ईकारः जायते । लाङ्गल + ईषा → लाङ्गल् + (अ + ई) + षा → लाङ्गल् + ई + षा → लाङ्गलीषा ।
8. पतञ्जलिः — अयं शब्दः 'पतन् अञ्जलिः नमस्यतया यस्मिन्' इति बहुव्रीहिसमासं कृत्वा सिद्ध्यति । महाभाष्यस्य रचयितुः इदं नाम । प्रक्रियायाम् 'पतत्' शब्दस्य टिसंज्ञकस्य (अत् इत्यस्य) 'अञ्जलिः'शब्दस्य अकारेण सह पररूपैकादेशं कृत्वा अकारः जायते । पतत् + अञ्जलिः → पत् + (अत् + अ) + ञ्जलिः → पत् + अ + ञ्जलिः → पतञ्जलिः ।
9. सारङ्गः — अयं शब्दः 'साराणि (spotted) अङ्गानि (organs) यस्य सः' इति बहुव्रीहिसमासं कृत्वा सिद्ध्यति । कस्यचन पक्षिणः इदं नाम । प्रक्रियायाम् 'सार' शब्दस्य टिसंज्ञकस्य (अकारस्य) 'अङ्ग'शब्दस्य अकारेण सह पररूपैकादेशं कृत्वा अकारः जायते । सार + अङ्ग → सार् + (अ + अ) + ङ्गः → सार् + अ + ङ्गः → सारङ्गः ।
शकन्ध्वादिगणः आकृतिगणः अस्ति । अतः शिष्टप्रयोगैः अन्ये शब्दाः अपि अस्मिन् गणे भवितुम् अर्हन्ति । यथा - 'मृतम् अण्डम् यस्य सः' इत्यत्र बहुव्रीजहिसमासे कृते
मृत + अण्ड → मृत् + (अ + अ) + ण्डः → मृत् + अ + ण्डः → मृतण्डः इति साधितः
मृतण्डशब्दः अपि अस्मिन् गणे स्वीक्रियते ।
<! 2. एवे चानियोगे पररूपं वक्तव्यम् !>
'नियोगः' इत्युक्ते अवधारणम् (निश्चयः) । सामान्यरूपेण वाक्ये एवशब्दस्य प्रयोगः नियोगार्थे एव भवति । यथा, 'गणेशः मोदकम् एव खादति' इत्युक्ते 'मोदकं विना गणेशः किमपि न खादति, सः निश्चयेन (for sure) मोदकम् एव खादति' इति । परन्तु कुत्रचित् नियोगभिन्नार्थे अपि 'एव'शब्दस्य प्रयोगः कृतः दृश्यते । एतेषु स्थलेषु पूर्वपदस्य अन्तिमस्वरेण सह एवशब्दस्य एकारस्य पररूपैकादेशः एकारः भवति — इति अस्य वार्त्तिकस्य आशयः । यथा,
क्व + एव → क्वेव । कुत्र इत्याशयः ।
नियोगार्थे प्रयुक्तस्य एवशब्दस्य तु <<वृद्धिरेचि>>
6.1.88 इति वृद्ध्येकादेशः एव भवति । यथा,
तव + एव → तवैव।
<! 3. ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम् !>
यदि समस्तपदस्य उत्तरपदम् 'ओतु' (= मार्जारः) अथवा 'ओष्ठ' एताभ्याम् कश्चन शब्दः अस्ति, तर्हि तस्य समस्तपदस्य निर्माणं विकल्पेन पररूप-एकादेशं कृत्वा भवति । यथा —
1. स्थूलश्च असौ ओतुश्च (कर्मधारयसमासः) → स्थूल + ओतु → स्थूलोतु, स्थूलौतु । अत्र अनेन विकल्पेन पररूप-एकादेशः भवति । पक्षे <<वृद्धिरेचि>> 6.1.88 इत्यनेन वृद्धि-एकादेशः भवति ।
2. बिम्बः इव ओष्ठः यस्य सः (बहुव्रीहिसमासः) → बिम्ब + ओष्ठ → बिम्बोष्ठ, बिम्बौष्ठ ।
3. दन्ताश्च ओष्ठौ च एतयोः समाहारः (द्वन्द्वसमासः) → दन्त + ओष्ठ → दन्तोष्ठ , दन्तौष्ठ ।
4. कण्ठश्च ओष्ठौ च एतयोः समाहारः (द्वन्द्वसमासः) → कण्ठ + ओष्ठ → कण्ठोष्ठ, कण्ठौष्ठ ।
समस्तपदं न विद्यते चेत् एतत् वार्त्तिकम् नैव प्रवर्तते । यथा - तव + ओष्ठ = तवौष्ठ । अत्र <<वृद्धिरेचि>>
6.1.88 इति वृद्ध्येकादेशः एव भवति ।
<! 4. एमन्नादिषु छन्दसि पररूपं वक्तव्यम् !>
'एमन्' , 'ओद्वन्', 'इष्टि' — एतेषाम् शब्दानाम् विषये वेदेषु पररूपं दृश्यते । यथा —
1. त्वा + एमन् = त्वेमन् ।
2. त्वा + ओद्वन् = त्वोद्वन् ।
3. अभि + इष्टि = अभिष्टि ।
4. परि + इष्टि = परिष्टि । (ऋग्वेदस्य प्रथममण्डलस्य 65 तमे सूक्ते तृतीये मन्त्रे 'परिष्टि' इत्यस्य प्रयोगः दृश्यते ।)
Balamanorama
Up
<<एङि पररूपम्>> - एङि पररूपम् । उपसर्गादीति धाताविति चानुवर्तते । आदित्यनुवृत्तमुपसर्गादित्यस्य विशेषणमिति तदन्तविधिः ।यस्मिन्विधि॑रिति परिभाषया तदादिग्रहणम् ।एकः पूर्वपरयो॑रिति चाधिकृतम् । तदाह — अवर्णान्तादित्या दिना । एकादेश इति । पूर्वपरयो॑रिति शेषः । प्रेजत इति । एजृ दीर्तौ । प्र-एजते इति स्थिते वृद्धिरेचीति वृदिंध बाधित्वाऽनेन पररूपमेकारः । एजृ कम्पने इति तु परस्मैपदी । उपोषतीति । उष दाहे । लट् तिप् शप् । लघूपधगुणः । उष ओषतीति स्थिते वृदिंध बाधित्वाऽनेन ओकारः । ननु एकडो मेषः, तमात्मन इच्छति एडकीयति , उप एडकीयतीति स्थितेऽनेन नित्यमेव पररूपं स्यात्, इष्यते तु वृद्धिरपि — उपैडकीयति उपैडकीयतीति । तत्राह — इहेति ।एङि पररूप॑मित्यत्र वा सुपीत्यनुवर्तते । तच्च नैकवाक्यतया संबध्यते । तथा सति अवर्णान्तादुपसर्गादेङादौ सुब्धातौ परे पररूपमेकादेशो वा स्यादित्येवार्थः स्यात् । एवं सति प्रेजते उपोषतीत्यत्र नित्यं पररूपं न स्यात् । अतो वाक्यभेदेन व्याख्येयम् ।एङि पररूप॑मिति प्रथमं वाक्यम् । अवर्णान्तादुपसर्गादेङादौ धातौ परे पररूपमेकादेशः स्यादिति तदर्थः ।वा सुपी॑ति द्वितीयं वाक्यम् । तत्र एङि पररूपमित्यनुवर्तते । धातौ उपसर्गादित्यादि च । ततश्च उक्तपररूपविषये सुब्धातौ परे पररूपं वा स्यादिति लभ्यते । तदाह — तेनेति । उक्तरीत्या वाक्यभेदाश्रयणेन एङादौ सुब्धातौ पररूपं पाक्षिकं भवति, तदितरधातौ तु नित्यमित्यर्थः । एवे चानियोगे । नियोगशब्दं व्याचष्टे — नियोगोऽवधारणमिति । अवधारणम्न्ययोगव्यवच्छेदः । तदन्यस्मिन्नर्थे य एवशब्दस्तस्मिन्नकारात्परे पूर्वपरयोः पररूपमेकादेशः स्यादित्यर्थः । क्वेव भोक्ष्यस इति । अत्रेति न निश्चिनुम इत्यर्थः । क्व-एव इति स्थिते वृदिंध बाधित्वाऽनेन वार्तिकेन पररूपमेकारः । अनवकॢप्ताविति । अनवधारण इत्यर्थः । तवैवेति । नान्यस्येत्यर्थः । अत्रैवशब्दस्याऽवधारणार्थत्वान्न तस्मिन् परे पररूपम् । अथ क्वचिट्टेः पररूपं विधातुं टिसंज्ञामाह-अचोऽन्त्यादि टि । 'अच' इति निर्धारणे षष्ठी । जातावकवचनम् । अन्ते भवेऽन्त्यः, अन्त्य आदिर्यस्य तत्-अन्त्यादीति विग्रहः । फलितमाह-अचां मध्य इति । शकन्ध्वादिष्विति । शकन्ध्वादिषु विषये तत्सिद्ध्यर्थं पूर्वपरयोः पररूपं वक्तव्यमित्यर्थः । ततश्च शकादिशब्दानां टेरचि परे टेश्च परस्याचश्च स्थाने पररूपमेकादेश इत्यर्थाल्लभ्यते । आदित्यनुवृत्त#औ शकन्ध्वादिगणे सीमन्त इत्यादिकतिपयरूपाणामसिद्धेः । तदाह-तच्च टेरिति । शकन्ध्वादिगणं पठति — शकन्धुरित्यादिना । शकानां-देशविशेषाणाम्, अन्धुः=कूप इति विग्रहः । कर्क-अन्धुरिति स्थिते पररूपम् । कुलटेति । अट गतौ । पचाद्यच् । टाप् कुलानामटेति विग्रहः । भिक्षार्थं व्यभिचारार्थं वा या गृहानटति सा कुलटा । कुलान्यटतीति विग्रहे तु कर्मण्यणि टिड्ढाणञिति ङीप्स्यात् । कुल-अटेति स्थिते पररूपम् । सीमन्तः केशवेशे इति । गणान्तर्गतवार्तिकमेतत् । केशानां वेशः=सन्निवेशविशेषः । तस्मिन् गम्येसीमन्शब्दस्य टेः-॒अ॑नित्यस्य अन्तशब्दस्थावर्णस्य च स्थाने पररूपमित्यर्थः । आदित्यनुवृत्तौ तु इदं न सिध्येत् ।सीमान्तोऽन्य इति । ग्रामान्तप्रदेश इत्यर्थः । मनीषेति । मनस-ईषेति विग्रहः, । अत्रअ॑सिति टेरीकारस्य च स्थाने पररूपमीकारः । ईष गतौ । 'गुरोश्च हलः' इत्यप्रत्ययः । टाप् । बुद्धिर्मनीषा॑इत्यमरः । हलीषेति ।ईषा लाङ्गलदण्डः स्यादि॑त्यमरः । हलस्य ईषेति विग्रहः । 'करिकलभ' इतिवत्पुनरुक्तिः समाधेया । अत्र गुणे प्राप्ते पररूपम् । एवं लाङ्गलीषेत्यत्रापि । पतञ्जलिरिति । पतन् अञ्जलिर्यस्मिन्नमस्कार्यत्वादिति विग्रहः । अत्रअ॑दिति टेरकारस्य च स्थाने पररूपमकारः । केचित्तु गोनर्दाख्यदेशे कस्यचिदृषेः सन्ध्योपालनसमयेऽञ्जलेर्निर्गत इत्यैतिह्रा दञ्जलेः पतन्निति विगृह्णन्तिव । मयूरव्यंसकादित्वात्समासः । सारङ्गः पशुपक्षिणोरिति । इदमपि गणान्तर्गतं वार्तिकम् । भाष्ये तु न दृश्यते ।सार॑शब्द उत्कृष्टे ।सारो बले स्थिरांशे च न्याय्ये क्लीबेऽम्बरे त्रिषु॑ इत्यमरः । साराणि अङ्गानि यस्येति विग्रहः । सार-अङ्ग इति स्थिते सवर्णदीर्घे प्राप्तेऽनेन पररूपम् ।चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॑ इत्यनरः । आकृतिगणोऽयमिति । आकृत्या= एवञ्जातीयकतया निर्णेतव्योऽयं गण इत्यर्थः । लोकप्रयोगानुसारेणैवंजातीयकाः शब्द#आ अस्मिन् गणे निवेशनीय इति यावत् । तत्फलमाह — मार्तण्ड इति । मृतमण्डं यस्य स मृतण्डः कश्चिदृषिः । मृत-अण्ड इति स्थिते सवर्णदीर्घं बाधित्वाऽनेन पररूपम् । ततेऽपत्येऽणि मार्तण्डः ।परामार्ताण्डमास्थ॑दिति सवर्णदीर्घस्तु च्छान्दसः । ओत्वोष्ठयोः । अवर्णादोतुशब्दे ओष्ठशब्दे च परे पूर्वपरयो रचोः स्थाने पररूपं वक्तव्यमित्यर्थः । स्थूलोतुरिति ।ओतुर्बिडालो मार्जारः॑ इत्यमरः । स्थूल — ओतुरिति स्थिते वृदिंध बाधित्वा पाक्षिकं पररूपम् । बिम्बोष्ठ इति । बिम्बफलवद्रक्तवर्णावोष्ठौ यस्येति विग्रहः ।
Padamanjari
Up