पूर्वपदात् संज्ञायामगः

8-4-3 पूर्वपदात् सञ्ज्ञायाम् अगः पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे

Sampurna sutra

Up

संज्ञायाम् पूर्वपदात् रषाभ्याम् नः णः, अगः ।

Neelesh Sanskrit Brief

Up

समस्तपदस्य पूर्वपदे स्थिताभ्याम् रेफषकाराभ्यामुत्तरपदस्थस्य नकारस्य 'संज्ञायाः विषये' णकारादेशः भवति । परन्तु उभयोः पदयोः मध्ये गकारस्य व्यवधानमस्ति तत्र णत्वं न दृश्यते ।

Neelesh English Brief

Up

For a समस्तपद which is defined as a संज्ञा, The र् and ष् present in the पूर्वपद causes the णत्वम् of नकार from the उत्तरपद, as long as there is no गकार in between.

Kashika

Up

पूर्वपदस्थाद् निमित्तादुत्तरस्य गकारवर्जिताद् नकारस्य णकार आदेशो भवति संज्ञायां विषये। द्रुणसः। वार्ध्रीणसः। खरणसः। शूर्पणखा। संज्ञायामिति किम्? चर्मनासिकः। अग इति किम्? ऋगयनम्। केचिदेतद् नियमार्थं वर्णयन्ति — पूर्वपदात् संज्ञायामेव णत्वं नान्यत्रेति। समासेऽपि हि समानपदे निमित्तनिमित्तिनोर्भावादस्ति पूर्वेण प्राप्तिरिति। स च नियमः पूर्वपदसंबन्धादुत्तरपदस्थस्यैव णत्वं निवर्तयति चर्मनासिक इति, न तद्धितपूर्वपदस्थस्य — खारपायणः, मातृभोगीणः, करणप्रिय इति। अग इति योगविभागेन णत्वप्रतिषेधः, न नियमप्रतिषेध इति। अपरे तु पूर्वसूत्रे समानमेव यद् नित्यं पदं तत् समानपदमित्याश्रयन्ति, समानग्रहणात्। तेषामप्राप्तमेव णत्वमनेन विधीयते। समासे हि पूर्वपदोत्तरपदविभागादसमानपदत्वमप्यस्तीति॥

Siddhanta Kaumudi

Up

पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने । द्रुरिव नासिकाऽस्य द्रुणसः । खरणसः । अगः किम् । ऋचामयनम् ऋगयनम् । अणृगयनादिभ्यः <{SK1452}>इति निपातनाण्णत्वाभावमाश्रित्य अग इति प्रत्याख्यातं भाष्ये । अस्थूलात् किम् । स्थूलनासिकः ।<!खुरखराभ्यां वा नस् !> (वार्तिकम्) ॥ खुरणाः । खरणाः । पक्षे अजपीष्यते ॥ खुरणसः । खरणसः ॥

Laghu Siddhanta Kaumudi

Up

पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात् संज्ञायां न तु गकारव्यवधाने। शूर्पणखा। गौरमुखा। संज्ञायां किम्? ताम्रमुखी कन्या॥

Neelesh Sanskrit Detailed

Up

'संज्ञा' इत्युक्ते नामकरणम् । येन शब्देन कस्यचित् व्यक्तेः पदार्थस्य वा नामकरणं भवति सः शब्दः संज्ञा उच्यते । यथा - राम, नारिकेल आदयः । यः शब्दः संज्ञावाची अस्ति, तस्य विषये अनेन सूत्रेण णत्वं विधीयते । यदि अयं संज्ञावाची शब्दः समस्तपदमस्ति, तर्हि तस्य समस्तपदस्य पूर्वपदे स्थितः रेफः षकारः वा उत्तरपदस्थस्य नकारस्यापि (अट्-कु-पु-आङ्-नुम्-एतेषां व्यवधाने अपि) णत्वं कारयति इत्यर्थः । परन्तु, रेफात् / षकारात् परः गकारः अस्ति चेत् एतत् णत्वं निषिध्यते । यथा - शूर्पाणि इव नखानि यस्या सा = शूर्पणखा । अयं बहुव्रीहिसमासः । अत्र पूर्वपदम् = शूर्पम् (किञ्चन परिमाणम्) । उत्तरपदम् = नखम् । अस्मिन् समासे पूर्वपदे रेफः अस्ति, उत्तरपदे नकारः अस्ति । उभयोः मध्ये स्वरस्य पकारस्य च व्यवधानमस्ति (येन णत्वनिषेधः न भवति) । तथा च, समस्तपदम् संज्ञानिर्माणं करोति - शूर्पणखा इयम् रावणस्य भगिन्याः नाम । अतः अनेन सूत्रेण नकारस्य णकारं भवति । तथैव - राम + अयन = रामायण । अयं ग्रन्थस्य नाम, अतः अत्रापि सूत्रेणानेन णत्वं भवति । परन्तु यदि नकारात् पूर्वम् गकारः आगच्छति, तर्हि अयं णत्वं मा भूत् इति स्पष्टीकर्तुमस्मिन् सूत्रे 'अगः' इति उक्तमस्ति । यथा - 'ऋगयनम्' इति कस्यचन ग्रन्थस्य नाम । ऋक् + अयनम् = ऋगयनम् इत्यत्र जश्त्वेन ककारस्य गकारे कृते गकारस्य उपस्थितौ नकारस्य णकारः न भवति ।

Balamanorama

Up

<<पूर्वपदात् संज्ञायामगः>> - पूर्वपदात् ।रषाभ्या॑मित्यनेन लभ्दो रेफः प्रत्येकमन्वेति । तदाह — पूर्वपदस्थान्निमित्तादिति । रेफषकारात्मकादित्यर्थः । 'अग' इति फञ्चम्यन्तम् । गकारभिन्नात्परस्येत्यर्थः । गकारात्परस्य नेति यावत् । तदाह — नतु गकारव्यवधाने इति । अनेनअट्कुप्वाङ्नुम्व्यवायेऽपि॑इत्यनुवृत्तिः । सूचिता । अन्यथाअग; इत्यस्य वैयथ्र्यं स्यात् ।खण्डपदत्वादप्राप्तौ वचनमिदम् । द्रुरिवेति । वृक्ष इवेत्यर्थः । द्रुणस इति । बहुव्रीहेरच् । नासिकाशब्दस्य नसादेशः । णत्वम् । ऋगयनमिति ।ऋवर्णा॑दिति वार्तिकस्याप्यत्रानुवृत्त्या णत्वं प्राप्तं गकारेम व्यवधानान्न भवतीति भावः । अत्रऋचामयन॑मिति विग्रहप्रदर्शनं चिन्त्यं, वाक्येन संज्ञानवगमात् । नच 'रघुनाथ' इत्यादौ संज्ञायां णत्वं शङ्क्यम्, णत्वेन चेत्संज्ञा गम्यत इत्यर्थात् । इह तु कृते णत्वे संज्ञात्वभङ्गापत्तेर्न णत्वम् । अत एवभृञोऽसंज्ञायां॑मिति सूत्रभाष्येय एते संज्ञायामिति विधीयन्ते, तेषु नैवं विज्ञायते संज्ञायामभिधेयायामिति । किंतर्हि । प्रत्ययान्तेन चेत्संज्ञा गम्यते॑ इत्युक्तम् । खुरेति । खुरखराभ्यां परस्य नासिकाशब्दस्य बहगुव्रीहौ संज्ञायां नसादेशो वेति वक्तव्यमित्यर्थः । प्रकृतत्वादेव सिद्धे नसादेशवचनमच्प्रत्ययानुवृत्तिनिवृत्त्यर्थम् । खुरणा इति । खररूपा नासिका यस्येति विग्रहः । पक्षे 'खुरनासिक' इति 'खरनासिक' इति च न भवतीत्याह — पक्षेऽजपीष्यते इति । अच्प्रत्ययसहितो नसादेश इत्यर्थः । भाष्ये त्विदं न दृश्यते ।

Padamanjari

Up

रषाभ्याम्ऽ इति वर्तते, न च तयोः पूर्वपदत्वं सम्भवतीति सामर्थ्यात्पूर्वपदस्थान्निमितादुतरस्येत्येषोऽर्थो विज्ञायत इत्याह - पूर्वपदस्थादिति । रेफषकारान्तापूर्वपदादित्ययं त्वर्थो न भवति; व्याख्यानात् । द्रणस इति । द्रुरिव नासिका यस्येति बहुव्रीहिः, ठञ्नासिकायाःऽ इत्यञ्प्रत्ययो नशादेशश्च । वार्ध्रीणस इति । वध्रर्था विकारो वार्ध्री रज्जुः, वार्ध्रीव नासिका यस्य स वार्ध्रीणसःउमृगविशेषः । तत्र पूर्वपदस्योपमाननिष्ठत्वाद्व्यधिकरणत्वात् पुंवद्भावाभावः, नस्शब्दः प्रियादिषु वा द्रष्टव्यः । शूर्पणखेति ।'नखमुखात्संज्ञायाम्' इति प्रतिषेधः । यदा तु योगो विवक्ष्यते, न संज्ञा - शूर्पाकाराणि नखानि यस्या इति; तदा ङीष् भवति, णत्वं तु न भवति - शूर्पनखी । एवं च णत्वङीषौ न समवेतः -'ततः शूर्पनखीवाक्यात्' इति । ठगःऽ इति शक्यमवक्तुम् । कस्मान्न भवति - ऋचामयनमृगयनमिति ? निपातनादेतत्सिद्धम् - ठणृगयनादिभ्यःऽ इति । यथान्यत्रोक्तम् -सर्वनाम संज्ञायां निपातनाण्णत्वाभाव इति । पूर्वपदात्संज्ञायामेवेति । विपरीतस्तु नियमो न भवति - पूर्वपदादेव संज्ञायामिति, शिवादिषु सुषेणशब्दस्य पाठात् । सिद्धे सत्यारम्भो नियमाय भवति, कथमत्र सिद्धिः ? इत्याह - समानपदेऽपि हीति । यद्यपि पूर्वपदस्थं निमितमुतरपदस्थो निमितीति भिन्नपदस्थत्वमप्यस्ति, तथापि समासे कृते ततो वा विभक्तिरुत्पद्यते, तया समुदायस्य पदसंज्ञायां सत्यां तस्मिन्समानेऽपि पदे भावादस्त्येव पूर्वेण प्राप्तिः, समानपदत्वं हि तत्राश्रितम्, न भिन्नपदत्वं प्रतिषिद्धम् । तस्मादुपपन्नं नियमार्थत्वम् । यद्येवम्, यथोतरपदस्थस्य नकारस्य णत्वं नियमेन व्यावर्त्यते - चर्मनासिक इति; तथा तद्धितपूर्वपदस्थस्यापि व्यावर्त्येत - खरपस्यापत्यम्'नडादिभ्यः फक्' - खारपायणः, मातृभोगाय हितः'भोगोतरपदात्खः' - मातृभोगीणः, करणं प्रियमस्य करणप्रियः ? इत्याह - स चेति । सम्बन्धिशब्दो नियतमेव प्रतियोगिनमुपस्थापयति, तद्यथा - मातरि वर्तितव्यं पितरि शुश्रूषितव्यमिति, न चोच्यते - स्वस्यां मातरि स्वस्मिन्पितरीति, अथ च सम्बन्धादेतद् गम्यते - यस्य या माता तस्यामिति, यो यस्य पिता तस्मिन्निति । पूर्वपदम्, उतरपदमिति च सम्बन्धिशब्दावेतौ - पूर्वपदमपेक्ष्योतरपदं भवति, उतरपदं चापेक्ष्य पूर्वपदम् । तत्र सम्बन्धादेतदवगन्तव्यम् - यत्प्रति पूर्वपदमित्येतद्भवति तत्स्थस्य नियम इति । किञ्च प्रत्येतद्भवति ? उतरपदम् । अयं तर्हि दोषः - ठगःऽ इति नियमस्यैव प्रतिषेधः प्राप्नोति, तेनैकवाक्यत्वात्, न णत्वस्य, ततश्च संज्ञायाञ्च गान्तरे णत्वं प्राप्नोति ? अत आह - अग इति । ठगःऽ इति योऽयं प्रतिषेधः स णत्वस्य, न नियमस्य । अत्र हेतुः -योगविभागेनेति ।'पूर्वपदात्संज्ञायाम्' इत्येको योगः, ठगःऽ इति द्वितीयः; अनेन च या च यावती च णत्वप्राप्तिः सा सर्वा प्रतिषिध्यते, योगविभागसामर्थ्यात् । अपरे त्वित्यादि । कथ पुनः समानमेवेत्यवधारणं लभ्यते ? अत आह - समानग्रहणादिति ।'पदे' इत्येव वक्तव्यम्, तत्रापदस्थयोर्निर्मितिनिमितनोर सम्भवात् पदग्रहणमेकत्वविवक्षार्थं विज्ञायते । एवं सिद्धे यत्समानग्रहणं क्रियते, तस्यैतत्प्रयोजनं यथैवं विज्ञायेत - समानमेव यत्पदमिति । तेषामेवं ब्रुवतां विध्यर्थमेतद्विज्ञायत इत्याह - तेषामिति । विध्यर्थत्वमेवोपपादयति - समासे हीति । अथास्मिन्पक्षे खारपायण इत्यत्र कथं णत्वम्, यावता खरपशब्दे खरशब्दस्यापि पदत्वमस्ति, तत्स्थत्वाद्रेफस्य समानपदस्थत्वमेव न भवति ? नैष दोषः; यत्र द्वावपि निमितनिमितिनौ समानपदस्थत्वं व्यभिचरतः, तत्र णत्वाभावः; इह रेफस्य व्यभिचारेऽपि नकारस्य समानपदस्थत्वाव्यभिचाराण्णत्वं प्रवर्तते ॥