Home
Prev 1.4.17
Next 1.4.19
यचि भम् 1-4-18 यचि भम् आ कडारात् एका सञ्ज्ञा स्वादिषु असर्वनामस्थाने
Sampurna sutra Up
असर्वनामस्थाने सुँ-आदिषु यचि भम्
Neelesh Sanskrit Brief Up
असर्वनामस्थानसंज्ञके यकारादौ अजादौ वा स्वादिप्रत्यये परे प्रकृतेः भसंज्ञा भवति । यथा - शशिन् + शस् ।
Neelesh English Brief Up
If a यकारादि or an अजादि प्रत्यय which is not a सर्वनामस्थान and which is specified in the fourth or fifth chapter gets attached to a प्रकृति , the प्रकृति gets the term भ.
Kashika Up
स्वादिष्वसर्वनामस्थान इति वर्तते। पूर्वेण पदसंज्ञायां प्राप्तायां तदपवादो भसंज्ञा विधीयते। यकारादावजादौ च स्वादौ सर्वनामस्थानवर्जिते प्रत्यये परतः पूर्वं भसंज्ञं भवति। यकारादौ — गार्ग्यः। वात्स्यः। अजादौ — दाक्षिः। प्लाक्षिः॥ नभोऽङ्गिरोमनुषां वत्युपसंख्यानम्॥ नभ इव नभस्वत्। अङ्गिरा इव अङ्गिरस्वत्। मनुरिव मनुष्वत्॥ वृषण्वस्वश्वयोः॥ वृषन्नित्येतत् वस्वश्वयोः परतो भसंज्ञं भवति छन्दसि विषये। वृष॑ण्वसुः (ऋ०१.१११.१)। वृ॒षणश्वस्य मेने (श०ब्रा० ३.३.४.१८)। भप्रदेशाः — <<भस्य>> ६.४.१२९ इत्येवमादयः॥
Siddhanta Kaumudi Up
यकारादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं भसंज्ञं स्यात् ॥
Laghu Siddhanta Kaumudi Up
यादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भसंज्ञं स्यात्॥
Neelesh Sanskrit Detailed Up
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति भ इति संज्ञा । <<यचि भम्>> 1.4.18 तथा च <<तसौ मत्वर्थे>> 1.4.19 इत्येताभ्याम् द्वाभ्याम् सूत्राभ्याम् इयं संज्ञा विधीयते । एताभ्याम् इदं प्रथमं सूत्रम् । यः स्वादिप्रत्ययः अजादिः उत यकारादिः अस्ति तथा च सर्वनामसंज्ञकः नास्ति, तस्मिन् परे प्रातिपदिकस्य भ इति संज्ञा भवति - इति अस्य सूत्रस्य आशयः ।
स्वादिप्रत्ययाः - अष्टाध्याय्यां चतुर्थे अध्याये, पञ्चमे अध्याये च प्रातिपदिकेभ्यः विहिताः प्रत्ययाः पाठिताः सन्ति । एतेषु प्रथमः प्रत्ययः <<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्>> 4.1.2 इत्यनेन विहितः सुँ इति अस्ति; तथा च अन्तिमः प्रत्ययः <<उरःप्रभृतिभ्यः कप्>> 5.4.151 इत्यनेन पाठितः क्विप् -प्रत्ययः अस्ति । एते सर्वेऽपि प्रत्ययाः स्वादिप्रत्ययाः इति नाम्ना ज्ञायन्ते ।
सर्वनामस्थानसंज्ञकप्रत्ययाः - <<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्>> 4.1.2 इत्यस्मिन् सूत्रे विद्यमानाः केचन प्रत्ययाः सर्वनामसंज्ञकप्रत्ययाः नाम्ना ज्ञायन्ते । तदित्थम् -
1. पुंलिङ्गशब्दात्, स्त्रीलिङ्गशब्दात् विहिताः सुँ , औ , जस् , अम् , औट् - एते पञ्च प्रत्ययाः <<सुडनपुंसकस्य>> 1.1.43 इति सूत्रेण सर्वनामस्थानसंज्ञकप्रत्ययाः भवन्ति ।
2. नपुंसकलिङ्गशब्दात् विहितौ जस् तथा शस् एतौ प्रत्ययौ <<शि सर्वनामस्थानम्>> 1.1.42 इत्यनेन सर्वनामस्थानसंज्ञकौ भवतः ।
एतान् सर्वनामसंज्ञकप्रत्ययान् विहाय अन्ये सर्वेऽपि स्वादिप्रत्ययाः असर्वनामस्थानसंज्ञकाः स्वादिप्रत्ययाः सन्ति । एतेभ्यः ये प्रत्ययाः अजादयः सन्ति (यथा - अण् , छ , च्फञ् इत्यादयः), तथा च ये प्रत्ययाः यकारादयः सन्ति (यथा - यञ् , ण्य , ञ्यङ् इत्यादयः) - तेषु परेषु प्रातिपदिकस्य भ संज्ञा भवति ।
प्रत्ययस्य आदिवर्णस्य निर्णयात् पूर्वम् प्रत्यये विद्यमानानाम् इत्संज्ञकवर्णानां लोपं कृत्वा ततः प्रत्ययस्य यथायोग्यम् आदेशः करणीयः, तदनन्तरम् एव प्रथमवर्णः निर्णेतव्यः । यथा, ट्यु इति प्रत्ययस्य आदिवर्णः कः - इति प्रश्ने कृते, आदौ टकारस्य इत्संज्ञां लोपं कृत्वा, ततः यु इत्यस्य <<युवोरनाकौ>> 7.1.1 इत्यनेन अन आदेशः करणीयः । अनेन प्रकारेण ट्यु -प्रत्ययस्य दृश्यरूपम् अन इति अस्ति । अस्य दृश्यरूपस्य आदिवर्णः अकारः अस्ति; अतः ट्यु -प्रत्ययः अपि अजादिः एव स्वीक्रियते ।
भसंज्ञायाः प्रयोजनम् - भस्य इति अधिकारः
अष्टाध्याय्याम् <<भस्य>> 6.4.129 इति सूत्रेण भाधिकारः विधीयते । अस्य अधिकारस्य व्याप्तिः <<भस्य>> 6.4.129 इत्यतः षष्ठाध्यायस्य परिसमाप्तिं यावत् वर्तते । अस्मिन् अधिकारे पाठितानि कार्याणि केवलं भसंज्ञकस्य विषये एव भवन्ति । कानिचन उदाहरणानि एतानि -
1. राजन् इति प्रातिपदिकात् द्वितीयाबहुवचनस्य शस् प्रत्यये कृते राज्ञः इति रूपं सिद्ध्यति । अत्र विहितः शस् (= अ) प्रत्ययः अजादिः अस्ति, सर्वनामस्थानसंज्ञकः च नास्ति, अतः अस्मिन् प्रत्यये परे राजन् शब्दस्य भसंज्ञा भवति । भसंज्ञायां सत्यां भाधिकारे पाठितेन <<अल्लोपोऽनः>> 6.4.134 इति सूत्रेण राजन् शब्दस्य उपधा-अकारस्य लोपं कृत्वा अन्तिमं रूपं सिद्ध्यति —
राजन् + शस् [द्वितीयाबहुवचनस्य प्रत्ययः]
→ राजन् + अस् [इत्संज्ञालोपः । अत्र प्रत्ययस्य अजादित्वात् राजन्-शब्दस्य <<यचि भम्>> 1.4.18 इति भसंज्ञा भवति ।]
→ राज् न् + अस् [भसंज्ञायां सत्याम्, भाधिकारे पाठितेन <<अल्लोपोऽनः>> 6.4.134 इति सूत्रेण उपधा-अकारस्य लोपः । यदि अत्र पदसंज्ञा अभविष्यत्, तर्हि अत्र <<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इत्यनेन नकारलोपः अभविष्यत् ।]
→ राज्ञः [रुत्वविसर्गौ]
2. मधोः गोत्रापत्यम् अस्मिन् अर्थे ब्राह्मणस्य निर्देशं कर्तुम् मधु शब्दात् <<मधुबभ्र्वोर्ब्राह्मणकौशिकयोः>> 4.1.106 इति सूत्रेण यञ् प्रत्ययः विधीयते । अयं प्रत्ययः यकारादिः अस्ति, सर्वनामस्थानसंज्ञकः च नास्ति, अतः अस्मिन् प्रत्यये परे <<यचि भम्>> 1.4.18 इत्यनेन मधु -शब्दस्य भसंज्ञा भवति । भसंज्ञायां सत्याम् भाधिकारे पाठितेन <<ओर्गुणः>> 6.4.146 इति सूत्रेण गुणं कृत्वा अन्तिमं रूपं सिद्ध्यति —
मधोः गोत्रापत्यम् (ब्राह्मणः)
→ मधु + यञ् [<<मधुबभ्र्वोर्ब्राह्मणकौशिकयोः>> 4.1.106 इति यञ् ।]
→ माधु + य [तद्धितसंज्ञके ञित्-प्रत्यये परे <<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः ।]
→ माधो + य [यकारादौ प्रत्यये परे प्रकृतेः भसंज्ञायां सत्याम् भाधिकारे पाठितेन <<ओर्गुणः>> 6.4.146 इति सूत्रेण भस्य अङ्गस्य गुणः भवति ।]
→ माधव् + य [<<वान्तो यि प्रत्यये>> 6.1.79 इति यकारादौ प्रत्यये परे अवादेशः ।]
→ माधव्य
3. देव इति शब्दात् स्त्रीत्वं द्योतयितुम् ङीप् इति प्रत्यये कृते, प्रत्ययस्य अजादित्वात्, असर्वनामस्थानत्वात् च प्रकृतेः भसंज्ञा भवति, अतएव <<यस्येति च>> 6.4.148 इत्यनेन अकारलोपं कृत्वा देवी इति अन्तिमं रूपं सिद्ध्यति —
देव + ङीप् [<<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> 3.1.134 इत्यत्र पचादिगणे देवट् इति निर्देशात् देवशब्दः टित् स्वीक्रियते, अतश्च स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति सूत्रेण ङीप् -प्रत्यय: विधीयते ।]
→ देव् + ई [अजादौ असर्वनामस्थानसंज्ञके प्रत्यये परे प्रकृतेः <<यचि भम्>> 1.4.18 इति भसंज्ञा भवति, अतएव भाधिकारे पाठितेन <<यस्येति च>> 6.4.148 इति सूत्रेण अत्र देव शब्दस्य अन्तिम-अकारस्य लोपः विधीयते ।]
→ देवी
4. सुपाद् इति शब्दात् तृतीयैकवचनस्य टा इति प्रत्यये कृते, प्रत्ययस्य अजादित्वात् प्रकृतेः भसंज्ञायां लब्धायाम्, भाधिकारे विद्यमानेन <<पादः पत्>> 6.4.130 इति सूत्रेण (तथा च <<पदाङ्गाधिकारे तस्य च तदन्तस्य च >> इति परिभाषया) सुपाद् इति भसंज्ञके विद्यमानस्य पाद् इति अंशस्य पद् इति आदेशः भवति -
सुपाद् + टा [तृतीयैकवचनस्य प्रत्ययः]
→ सुपद् + टा [<<पादः पत्>> 6.4.130 इति सूत्रेण भसंज्ञकस्य पाद् शब्दस्य पद् इति आदेशः । <<निर्दिश्यमानस्य आदेशाः भवन्ति>> इति परिभाषया अयम् आदेशः केवलम् पाद् इत्यस्य अंशस्य स्थाने एव विधीयते ।]
→ सुपदा
बाध्यबाधकभावः - भसंज्ञया पदसंज्ञायाः बाधः
असर्वनामस्थानसंज्ञकेषु स्वादिप्रत्ययेषु परतः प्रकृतेः <<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इति सूत्रेण प्रातिपदिकस्य पदसंज्ञायां प्राप्तायाम्, यदि सः प्रत्ययः अजादिः उत यकारादिः अस्ति तर्हि प्रकृतसूत्रेण प्रातिपदिकस्य भसंज्ञा विधीयते । इयं भसंज्ञा एकसंज्ञाधिकारात् पदसंज्ञायाः बाधं करोति । यदि भसंज्ञया पदसंज्ञायाः बाधः नैव अभविष्यत्, तर्हि राजन् + शस् इत्यवस्थायाम् राजन् -शब्दस्य पदत्वात् <<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति अनिष्टः नकारलोपः अभविष्यत् । एतादृशी अनिष्टा प्रक्रिया मा भूत्, अतः भसंज्ञया पदसंज्ञायाः बाधः आवश्यकः वर्तते ।
बाध्यबाधकभावः - पदसंज्ञया भसंज्ञायाः बाधः
यस्मिन् असर्वनामस्थानसंज्ञके यकारादौ अजादौ वा स्वादिप्रत्यये सकारः इत्संज्ञकः अस्ति , तस्मिन् प्रत्यये परे प्रातिपदिकस्य प्रकृतसूत्रेण प्राप्तां भसंज्ञां बाधित्वा <<सिति च>> 1.4.16 इति पूर्वसूत्रेण पदसंज्ञा एव विधीयते । यथा, ऊर्णा + युस् इत्यत्र यकारादौ सित्-प्रत्यये परे ऊर्णा -शब्दस्य <<सिति च>> 1.4.16 इत्यनेन पदसंज्ञा भवति । इयं पदसंज्ञा प्रकृतसूत्रदत्तां भसंज्ञां बाधते । यदि अत्र ऊर्णा -शब्दस्य भसंज्ञा अभविष्यत्, तर्हि <<यस्येति च>> 6.4.148 इत्यनेन ऊर्णा -शब्दस्य अन्तिम-आकारस्य अनिष्टः लोपः अपि अभविष्यत् ।
##Balamanorama
<<यचि भम्>> - भसंज्ञया पदसंज्ञाबाधान्न जश्त्वमिति समाधातुं भसंज्ञासूत्रमाह — यचि भं । य्च अश्चेति समाहाद्वन्द्वः ।स्वादिष्वसर्वनामस्थाने॑ इत्यनुवृत्तंयची॑त्यनेन विशेष्यते ।यस्मिन्विधि॑रिति तदादिविधिः । तदाह — यकारादिष्वित्यादिना । एवंच दत्-असित्यत्र 'दत्' इत्यस्य भसंज्ञया पदसंज्ञाबाधान्न जश्त्वमिति भावः । ननु पदभसंज्ञयोरिह समावेशः कुतो न स्यात् । नच॒विप्रतिषेधे परं कार्य॑मिति परैव भसंज्ञा भवतीति वाच्यं, विरोध हि विप्रतिषेधः ।
##Padamanjari
यकारादावित्यादि।'यस्मिन्विधिस्तदादावल्प्रहणे' इति तदादिविधिः। गार्ग्य इत्यादौ भत्वाद्यस्येति लोपः। नभोऽङ्गिरोमनुषां वत्युपसंख्यानमिति। द्वे अप्येते उपसंख्याने छन्दोविषये इत्याहुः। नभ इवेति। तृतीयासमर्थाद्वतेर्विधानात् तुल्यार्थापदर्शनमेतत्, नभसा तुल्यं वर्तत इति विग्रहः। पदनिबन्धनकार्यनिवॄत्यथमेव चैषां भसञ्ज्ञा विधीयते, न तु भत्वनिमितं कार्यं यथा स्यादिति; असम्भवात्। नभस्वद्, अङ्गिरस्वदिति। अत्रापदत्वाद्रुत्वाभावो मनुष्वदित्यत्र पदत्वे रुत्वं स्याद् न तु षत्वम्; अपदान्तस्येति वचनात्। वृषण्वसुः वृषणाश्व इति। पदत्वे सति'पदान्तस्य' इति प्रतिषेधाण्णत्वं न स्यात्, नलोपश्च स्याद्। भत्वेऽप्यल्लोपो न भवति; अनङ्गत्वात्॥