प्राग्घिताद्यत्

4-4-75 प्राक् हितात् यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक्

Sampurna sutra

Up

प्राक् हितात् यत्

Neelesh Sanskrit Brief

Up

प्राक्-हितीय-अर्थेषु यत्-प्रत्ययः औत्सर्गिकरूपेण भवति ।

Neelesh English Brief

Up

The यत् प्रत्यय is used as a default for the प्राक्-हितीय meanings.

Kashika

Up

<<तस्मै हितम्>>५.१.५ इति वक्ष्यति। प्रागेतस्माद् हितसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामो यत्प्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति — <<तद्वहति रथयुगप्रासङ्गम्>> ४.४.७६ — रथ्यः। युग्यः। प्रासङ्ग्यः॥

Siddhanta Kaumudi

Up

तस्मै हितम् <{SK1665}> इत्यतः प्राक् यदधिक्रियते ॥

Laghu Siddhanta Kaumudi

Up

तस्मै हितमित्यतः प्राग् यदधिक्रियते ॥

Neelesh Sanskrit Detailed

Up

तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः तृतीयः महोत्सर्गः अस्मात् सूत्रात् आरभ्यते । वर्तमानसूत्रतः <<तस्मै हितम्>> 5.1.5 इति यावत्सु सूत्रेषु आहत्य द्वात्रिंशत् (32) अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः 'प्राग्घितीय-अर्थाः' नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण यत्-प्रत्ययः भवति । अस्य यत्-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते । यत्-प्रत्ययस्य कानिचन उदाहरणानि - अ) रथं वहति सः = रथ + यत् = रथ्य आ) छन्दसा (=इच्छया) निर्मितः = छन्दस् + यत् = छन्दस्य इ) सभायां साधुः = सभा + यत् = सभ्य । प्रक्रिया इयम् - रथ + यत् → रथ् + यत् [<<यस्येति च>> 6.4.148 इति अकारलोपः] → रथ्य 31 प्राग्घितीय-अर्थाः एते - 1. <<तद्वहति रथयुगप्रासङ्गम्>> 4.4.76 2. <<विध्यत्यधनुषा>> 4.4.83 3. <<धनगणं लब्धा>> 4.4.84 4. <<वशं गतः>> 4.4.86 5. <<पदमस्मिन् दृश्यम्>> 4.4.87 6. <<मूलमस्याबर्हि>> 4.4.88 7. <<गृहपतिना संयुक्ते ञ्यः>> 4.4.90 8. <<नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु>> 4.4.91 9. <<धर्मपथ्यर्थन्यायादनपेते>> 4.4.92 10. <<छन्दसो निर्मिते>> 4.4.93 11. <<हृदयस्य प्रियः>> 4.4.95 12. <<बन्धने चर्षौ>> 4.4.96 13. <<मतजनहलात् करणजल्पकर्षेषु>> 4.4.97 14. <<तत्र साधुः>> 4.4.98 15. <<समानतीर्थे वासी>> 4.4.107 16. <<समानोदरे शयित ओ चोदात्तः>> 4.4.108 17. <<भवे छन्दसि>> 4.4.110 18. <<बर्हिषि दत्तम्>> 4.4.119 19. <<दूतस्य भागकर्मणी>> 4.4.120 20. <<रक्षोयातूनां हननी>> 4.4.121 21. <<रेवतीजगतीहविष्याभ्यः प्रशस्ये>> 4.4.122 22. <<असुरस्य स्वम्>> 4.4.123 23. <<मायायामण्>> 4.4.124 24. <<तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः>> 4.4.125 25. <<मत्वर्थे मासतन्वोः>> 4.4.126 26. <<पूर्वैः कृतमिनियौ च>> 4.4.133 27. <<अद्भिः संस्कृतम्>> 4.4.134 28. <<सहस्रेण संमितौ घः>> 4.4.135 29. <<सोममर्हति यः>> 4.4.137 30. <<मये च>> 4.4.138 31. <<शिवशमरिष्टस्य करे>> 4.4.143 32. <<भावे च>> 4.4.144 एतेभ्यः अर्थेभ्यः <<भवे छन्दसि>> 4.4.110 एतस्मात् सप्तदशात् अर्थात् आरभ्य <<भावे च>> 4.4.144 इति अन्तिममर्थम् यावत् निर्दिष्टाः अर्थाः केवलं छन्दसि (वेदेषु) एव विधीयन्ते इति स्मर्तव्यम् ।

Balamanorama

Up

<<प्राग्घिताद्यत्>> - अथ प्राग्घितीयप्रकरणं निरूप्यते — प्राग्घिताद्यत् । हितशब्दस्तद्धटितसूत्रपरः तदाह — तस्यै हितमिति ।

Padamanjari

Up