वशं गतः

4-4-86 वशं गतः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्

Sampurna sutra

Up

'तत् वशं गतः' (इति) समर्थानाम् प्रथमात् परः यत् प्रत्ययः

Neelesh Sanskrit Brief

Up

'वशम् गतः' अस्मिन् अर्थे कर्तारम् निर्देशयितुम् द्वितीयासमर्थात् 'वश'शब्दात् यत्-प्रत्ययः भवति ।

Kashika

Up

वशशब्दात् तदिति द्वितीयासमर्थात् गत इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। वशं गतो वश्यः। कामप्राप्तो विधेय इत्यर्थः॥

Siddhanta Kaumudi

Up

वश्यः परेच्छानुचारी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'वश' इति 'वश् (कान्तौ)' इत्यस्य अच्-प्रत्ययान्तरूपम् । परेच्छानुसारम् यः कार्यं करोति / यः संमोहितः अस्ति सः 'वशं गतः' अस्ति इत्युच्यते । एतादृशस्य निर्देशार्थम् वश-शब्दात् यत्-प्रत्ययः भवति । वशं गतः वश्यः राजपुत्रः ।

Balamanorama

Up

<<वशं गतः>> - वशंगतः । वशशब्दाद्द्वितीयान्ताद्गत इत्यर्थे यदित्यर्थः । वश्य इति । वशं गत इति विग्रहः ।वश कान्तौ॑ । कान्तिरिच्छा । वशनं वशः ।वशिरण्योरुपसङ्ख्यान॑मित्यप् । वशम्िच्छां, गतः=प्राप्तः । इच्छाधीन इत्यर्थः । वशाधातुश्छान्दस इति लुग्विकरणे वक्ष्यते, तत्प्रायिकमिति भावः । सर्वस्यापि स्वेच्छानुसारित्वादाह — परेच्छानुसारीति ।

Padamanjari

Up

'वश कान्तौ' , वशनं वशः,'वशिरण्योरुपसङ्ख्यानम्' इत्यच् । कामःउइच्छा, तां प्राप्त इति । परेच्छानुगामीत्यर्थः ॥