आवसथात् ष्ठल्

4-4-74 आवसथात् ष्ठल् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत्र वसति

Sampurna sutra

Up

index: 4.4.74 sutra: आवसथात् ष्ठल्


'तत्र वसति' इति आवसथात् ष्ठल्

Neelesh Sanskrit Brief

Up

index: 4.4.74 sutra: आवसथात् ष्ठल्


सप्तमीसमर्थात् 'आवसथ'शब्दात् 'वसति' इत्यस्मिन् अर्थे ष्ठल्-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.74 sutra: आवसथात् ष्ठल्


तत्र इत्येव। आवसथशब्दात् सप्तमीसमर्थात् वसति इत्येतस्मिन्नर्थे ष्ठल् प्रत्ययो भवति। लकारः स्वरार्थः। षकारो ङीषर्थः। आवसथे वसति आवसथिकः। आवसथिकी। ठकः पूर्णोऽवधिः, अतः परमन्यः प्रत्ययो विधीयते।

Siddhanta Kaumudi

Up

index: 4.4.74 sutra: आवसथात् ष्ठल्


आवसथे वसति आवसथिकः । षित्वान्ङीष् । आवसथिकी ॥<!आकर्षात्पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च !> (वार्तिकम्) ॥ आवसथात्किसरादेः षितः षडेते ठगधिकारे ॥ 1 ॥ षडिति सूत्रषट्केन विहिता इत्यर्थः । प्रत्ययास्तु सप्त ॥ ठकोऽवधिः समाप्तः ॥। इति तद्धिताधिकारे ठगधिकारप्रकरणम् ।

Neelesh Sanskrit Detailed

Up

index: 4.4.74 sutra: आवसथात् ष्ठल्


'आवसथ' इत्युक्ते निवासं कर्तुम् योग्यम् स्थलम् । अस्मात् शब्दात् सप्तमीसमर्थात् 'वसति' अस्मिन् अर्थे ष्ठल्-प्रत्ययः भवति ।

आवसथे वसति सः = आवसथ + ष्ठल् → आवसथिकः ।

'ष्ठल्' इत्यत्र षकारः इत्संज्ञकः अस्ति, तस्य प्रयोजनम् - 'स्त्रीत्वे विवक्षिते षिद्गौरादिभ्यश्च 4.1.41 इति ङीष्-प्रत्ययविधानम्' - इति अस्ति । यथा - आवसथे वसति सा = आवसथ + ष्ठल् + ङीष् → आवसथिकी ।

'ष्ठल्' इत्यत्र लकारः अपि इत्संज्ञकः अस्ति, तस्य प्रयोजनम् - 'लिति 6.1.193 इति प्रत्ययात् पूर्वस्य स्वरस्य उदात्तत्वम्' - इति अस्ति । तथा, 'आवसथिक' इत्यत्र 'इक' इति प्रत्ययः, तस्मात् पूर्वम् विद्यमानः सकारोत्तरः अकारः अनेन सूत्रेण उदात्तत्वं प्राप्नोति ।

स्मर्तव्यम् - तद्धिताधिकारे ये पञ्च महोत्सर्गाः पाठ्यन्ते, तेषु द्वितीयः महोत्सर्गः (ठगधिकारः) यस्य प्रारम्भः प्राग्वहतेष्ठक् 4.4.1 इत्यत्र भवति, सः अत्र समाप्यते ।

Balamanorama

Up

index: 4.4.74 sutra: आवसथात् ष्ठल्


आवसथात् ष्ठल् - आवसथाष्ठल् । तत्र वसतीत्यर्थे आवसतात्सप्तमय्न्तात्ष्ठलित्यर्थः । आवसथं — गृहम् । षित्त्वं ङीषर्थम् । तदाह — आवसथिकीति । आकर्षादित्यादि । श्लोकवार्तिकमिदम् — ॒प्राग्वहतेष्ठक् इत्यादौ ठगिति वा ष्ठगिति छेद इति संशयनिवृत्त्यर्थम्आकर्षात्ष्ठ॑लिति सूत्रभाष्ये पठितम् । तत्र आकर्षादित्यनेनआकर्षात्ष्ठ॑लिति सूत्रं विवक्षितम् । 'पर्पादिभ्यः' इत्यनेनपर्पादिभ्यः ष्ठ न्निति सूत्रं विपक्षितम् । 'भस्त्रादिभ्यः' इत्यनेनभस्त्रादिभ्यः ष्ठ॑न्निति सूत्रं विवक्षितम् । कुसीदसूत्रादित्यनेनकुसीददशैकादशात् ष्ठन्ष्ठचौ॑ इति सूत्रं विवक्षितम् । आवसथादित्यनेनआवसथात्ष्ठ॑लिति सूत्रं विवक्षितम् । किसरादेरित्यनेनकिसरादिभ्यः ष्ठ॑न्निति सूत्रं विवक्षितम् । 'प्राग्वहतेष्ठक्' इत्यधिकारे एतैः सूत्रैर्विहिताः षट् प्रत्ययाः षित इत्यर्थः । ननुकुसीदे॑ति सूत्रे प्रत्ययद्वयविधानादेतत्सूत्रषट्कविहिता सप्त प्रत्यया लभ्यन्त इति षट् षित इति कथमित्यत आह — षडितीति ।ष॑डित्यनेन सूत्राभिप्रायं षट्त्वं विवक्षितमिति भावः । *इति बालमनोरमायाम् प्राग्वहतीयाः ।***अथ ठञधिकारः । — — — — — —

Padamanjari

Up

index: 4.4.74 sutra: आवसथात् ष्ठल्


आवसत्येतमिति आवसथः, ठुपसर्गे वसेःऽ इतियथप्रत्ययः । ठकः पूर्णो विधिरिति । प्राग्वहतीयस्य ठको विधानं पूर्णामित्यर्थः, अवधिरिति पाठे पूर्णः प्राप्त इत्यर्थः ॥