4-4-87 पदम् अस्मिन् दृश्यम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत्
index: 4.4.87 sutra: पदमस्मिन् दृश्यम्
'पदम् दृश्यमस्मिन्' (इति) समर्थानाम् प्रथमात् परः यत् प्रत्ययः
index: 4.4.87 sutra: पदमस्मिन् दृश्यम्
'अस्मिन् पदम् दृश्यम्' अस्मिन् अर्थे प्रथमासमर्थात् पद-शब्दात् यत् प्रत्ययः भवति ।
index: 4.4.87 sutra: पदमस्मिन् दृश्यम्
निर्देशातेव प्रथमा समर्थविभक्तिः। पदशब्दात् प्रथमासमर्थाद् दृश्यार्थोपाधिकादस्मिन्निति सप्तम्यर्थे यत् प्रत्ययो भवति। पदं दृश्यमस्मिन् पद्यः कर्दमः। पद्याः पांसवः। शक्यार्थे कृत्यः। शक्यते यस्मिन् पदं मूल्याः, सुष्ठु द्रष्टुं प्रतिमुद्रोत्पादनेन स पद्यः कर्दमः। कर्दमस्य अवस्था उच्यते नातिद्रवो नातिशुष्क इति।
index: 4.4.87 sutra: पदमस्मिन् दृश्यम्
पद्यः कर्दमः । नातिशुष्क इत्यर्थः ॥
index: 4.4.87 sutra: पदमस्मिन् दृश्यम्
'दृश्यम्' इति दृश्-धातोः 'क्यप्' प्रत्ययान्तरूपम् । द्रष्टुम् अर्ह्यम् / शक्यम् तत् दृश्यम् । 'दृश्यम्' अस्मिन् अर्थे पदशब्दात् वर्तमानसूत्रेण यत् प्रत्यविधानम् भवति । यस्मिन् पदार्थे पदं स्थापयामश्चेत् पदस्य चिह्नम् द्रष्टुं शक्यते, तस्य पदार्थस्य निर्देशार्थमयम् प्रत्ययविधानम् कृतमस्ति । उदाहरणद्वयं पश्यामश्चेत् स्पष्टं भवेत् -
या मृत्तिका सम्पूर्णरूपेण शुष्का नास्ति, सम्पूर्णरूपेण आर्द्रा अपि नास्ति, तस्याः नाम 'कर्दम' इति दीयते (mud इत्यर्थः) । एतादृशि कर्दमे पदम् स्थापयामश्चेत् पदः चिह्नम् (foot-prints) मृत्तिकायां मुद्रितानि भवन्ति । एतादृशम् कर्दमम्, यस्मिन् पदचिह्नम् मुद्रितमस्ति, ज्ञापयितुम् पद-शब्दात् यत्-प्रत्ययः क्रियते । अस्मिन् कर्दमे पदम् दृश्यम् सः = पद + यत् → पद्यः कर्दमः ।
'पांसु' इति गोमयस्य (cow dung) अपरम् नाम । पांसौ पदम् स्थाप्यते चेत् तत्रापि पदचिह्नम् मुद्रितम् भवति । अतः अत्रापि वर्तमानसूत्रस्य प्रयोगः भवितुमर्हति - अस्मिन् पांसौ पदम् दृश्यम् सः = पद + यत् → पद्यः पांसुः ।
स्मर्तव्यम् - अस्मिन् सूत्रे पूर्वसूत्रात् 'तत्' इति न अनुवर्तते । अतः अत्र समर्थेषु प्रथमः शब्दः 'पदम्' इति प्रथमान्तः अस्ति । अतएव अत्र 'प्रथमासमर्थात्' इति अर्थविधानम् क्रियते ।
index: 4.4.87 sutra: पदमस्मिन् दृश्यम्
पदमस्मिन् दृश्यम् - पदमस्मिन्दृश्यं । प्रथमान्तात्पदशब्दाद्दृश्यत इत्यर्थे यदित्यर्थः । अत्र तदिति द्वितीयान्तमनुवृत्तं प्रथमया विपरिणम्यते ।
index: 4.4.87 sutra: पदमस्मिन् दृश्यम्
निर्देशादेव प्रथमा समर्थविभक्तिरिति । द्वितीया तु न भवति; दृश्यमिति क्यपा कर्मणोऽभिहितत्वात् । शक्यार्थे कृत्यप्रत्यय इति । तेन योग्यत्वे सति पदस्पर्शनाभावेऽपि पद्यः कर्दम इति प्रयोग उपपद्यत इति भावः । मुद्राउ सन्निवेशः, प्रतिरूपा मुद्रा प्रतिमुद्रा । नातिद्रवो नातिशुष्क इति । पांसवोऽति नात्यल्पा नातिबहुलाः पद्याः ॥