दूतस्य भागकर्मणी

4-4-120 दूतस्य भागकर्मणी प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि

Sampurna sutra

Up

दूतस्य भागकर्मणी वेदेषु संज्ञायां यत्

Neelesh Sanskrit Brief

Up

षष्ठीसमर्थात् 'दूत'शब्दात् 'भाग' अस्मिन् अर्थे तथा च 'कर्म' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते ।

Kashika

Up

निर्देशादेव समर्थविभक्तिः। दूतशब्दात् षष्ठीसमर्थाद् भागे कर्मणि चाभिधेये यत् प्रत्ययो भवति। भागोंऽशः। कर्म क्रिया। यद॑ग्ने॒ यासि॑ दू॒त्य॑म् (ऋ०१.१२.४)। दूतभागः, दूतकर्म वा॥

Siddhanta Kaumudi

Up

भार्गोऽशः । दूत्यम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'दूत' अस्मात् षष्ठीसमर्थात् 'भागः' (अंशः) अस्मिन् अर्थे, तथा च 'कर्म' (क्रिया) अस्मिन् अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते । दूतस्य भागः कर्म वा = दूत + यत् → दूत्य । यथा - ऋग्वेदे 1.12.4 - ताँ उ॑श॒तो वि बो॑धय॒ यद॑ग्ने॒ यासि॑ दू॒त्य॑म् । दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥ ज्ञातव्यम् - अस्मिन् सूत्रे पूर्वस्मात् सूत्रात् 'तत्र' इति न अनुवर्तते । अतः अत्र 'दूतस्य' इति समर्थेषु प्रथमः अस्ति, अतः च अत्र षष्ठीसामर्थ्यम् स्वीक्रियते ।

Balamanorama

Up

Padamanjari

Up

दूताद्भागे'तस्येदम्' इत्यणि प्राप्ते वचनम्, कर्मणि तु दूतवणिग्भ्यां चेत्यौपसंख्यानिके ये ॥