4-4-88 मूलम् अस्य आबर्हि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत्
index: 4.4.88 sutra: मूलमस्याबर्हि
'मूलमस्य आबर्हि' (इति) समर्थानाम् प्रथमात् परः यत् प्रत्ययः
index: 4.4.88 sutra: मूलमस्याबर्हि
'अस्य मूलमाबर्हि (= निष्कासनयोग्यम्)' अस्मिन् अर्थे प्रथमासमर्थात् 'मूल'शब्दात् मूलस्य वृक्षम् निर्देशयितुम् यत्-प्रत्ययः भवति ।
index: 4.4.88 sutra: मूलमस्याबर्हि
मुलशब्दात् प्रथमासमर्थादावर्हि इत्येवमुपाधिकादस्य इति षष्ठ्यर्थे यत् प्रत्ययो भवति। मूलम् एषामावर्हि मूल्या माषाः। मूल्या मुद्गाः। वृहू उद्यमने। येषां मूलमावृह्यते उत्पाट्यते ते मूल्याः, सुष्ठु निष्पन्नाः। मूलोत्पाटनेन विना सङ्ग्रहीतुं न शक्यन्ते इत्यर्थः।
index: 4.4.88 sutra: मूलमस्याबर्हि
आबर्हणमाबर्ह उत्पाटनं तदस्यास्तीत्याबर्हि । मूलमाबर्हि येषां ते मूल्या मुद्गाः ॥
index: 4.4.88 sutra: मूलमस्याबर्हि
आदौ 'आबर्हि' इति किम् तत् पश्यामः - 'बृहूँ (उद्यमने)' इति तुदादिगणस्य धातुः । 'आङ्'-उपसर्गेण सह अस्य प्रयोगः क्रियते चेत् 'आ + बृह्' इत्यस्य अर्थः 'उत्पाटनम् / निर्मूलनम् (uprooting) । 'आ + बृह्' धातोः भावे घञ्-प्रत्ययं कृत्वा अग्रे मतुबर्थे इनि-प्रत्यये कृते 'आबर्हिन्' इति प्रातिपदिकम् सिद्ध्यति । 'यस्य निर्मूलनम् (भूमेः निष्कासनम्) क्रियते', तत् 'आबर्हि' अनेन विशेषणेन सम्बुद्ध्यते । ('आबर्हि' इति आबर्हिन्-इत्यस्य नपुंसकलिङ्गस्य प्रथमैकवचनम्)।
अतः अस्य सूत्रस्य अर्थः अयम् - 'अस्य वृक्षस्य मूलमाबर्हणम् कर्तुम् योग्यमस्ति' अस्मिन् अर्थे 'अस्य वृक्षस्य मूलमाबर्हि अस्ति' इति वाक्यं प्रयुज्यते । अस्यां स्थितौ तस्य वृक्षस्य निर्देशार्थम् 'मूल'शब्दात् यत्-प्रत्ययः भवति । उदाहरणद्वयम् पश्यामश्चेत् स्पष्टं भवेत् ।
'एते माषाः पक्वाः, एतेषाम् मूलस्य आबर्हणम् कर्तव्यम्' अस्मिन् अर्थे 'माषानाम् मूलमाबर्हि अस्ति' इति प्रयोगः क्रियते । अस्यां स्थितौ मूल-शब्दात् यत्-प्रत्ययविधानम् वर्तमानसूत्रेण भवति । मूल + यत् → मूल । येषाम् मूलमाबर्हि ते मूल्याः माषाः ।
तथैव, 'एते मुद्गाः मूलम् गृहीत्वा उत्पाटितव्याः' अस्मिन् अर्थे मूल-शब्दात् यत्-प्रत्ययविधानम् क्रियते । येषम् मूलमाबर्हि ते मुद्गाः मूल्याः मुद्गाः ।
ज्ञातव्यम् - काशिकायामस्य सूत्रस्य निर्देशः 'मूलमस्य आवर्हि' इति कृतः अस्ति । 'बृहूँ' धातुम् यावत् एव 'वृहूँ (उद्यमने)' इत्यपि धातुः धातुपाठे दृश्यते, तस्य अयम् निर्देशः । द्वयोः अपि अर्थः समानः एव ।
index: 4.4.88 sutra: मूलमस्याबर्हि
मूलमस्याबर्हि - मूलमस्याबर्हि । आबर्हणमिति । उत्पाटनमित्यर्थः । उपसर्गवशात् 'बृहूउद्यमने' इति धातोरुत्पाठने वृत्तिः । मूल्या मुद्गा इति । मूलत उत्पाटनीया इत्यर्थः ।
index: 4.4.88 sutra: मूलमस्याबर्हि
प्रथमासमर्थादिति । द्वितीयाया निमिताभावान्निर्देशादेव प्रथमैव भवतीति भावः ।'वृहू उद्यमने' , वादिरयं न बादिः । दृश्यते हि ठुद्वृह रक्षः सहमूलमिन्द्र ह्यस्मुष्मिक् प्रवृहाणऽ,'तद्ववर्हात्मनोदेवा' इति च आवर्हणमावर्हःऊत्पाटनम्, आवर्होऽस्यास्तीत्यावर्हि, सुष्ठुअ पक्वा न शक्यन्ते संग्रहीतुम् । मध्यतो लूयमाने कोशस्था अपि यस्यामवस्थायां पतेयुस्तामवस्थां प्राप्ता इत्यर्थः ॥