भवे छन्दसि

4-4-110 भवे छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र

Sampurna sutra

Up

index: 4.4.110 sutra: भवे छन्दसि


'तत्र भवे' (इति) छन्दसि संज्ञायाम् यत्

Neelesh Sanskrit Brief

Up

index: 4.4.110 sutra: भवे छन्दसि


'भवः' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये सप्तमीसमर्थेभ्यः यत्-प्रत्ययः कृतः दृश्यते ।

Kashika

Up

index: 4.4.110 sutra: भवे छन्दसि


तत्र इत्येव। स्प्तमीसमर्थात् भव इत्येतस्मिन्नर्थे छन्दसि विषये यत् प्रत्ययो भवति। अणादीनां घादीनां चापवादः। सति दर्शने तेऽपि भवन्ति, सर्वविधीनाम् छन्दसि व्यभिचारात्। नमो मेध्याय च विद्युत्याय च नमः। आपादपरिसमाप्तेः छन्दोऽधिकारः। भवाधिकारश्च समुद्राभ्राद् धः 4.4.118 इति यावत्।

Siddhanta Kaumudi

Up

index: 4.4.110 sutra: भवे छन्दसि


सप्तम्यन्ताद्भवार्थे यत् । मेघ्याय च विद्युत्याय च (मे॒घ्या॑य च विद्यु॒त्या॑य च) । यथायथं शैषिकाणामणादीनां घादीनां चापवादोऽयं यत् । पक्षे तेऽपि भवन्ति । सर्वविधीनां छन्दसि वैकल्पिकत्वात् । तद्यथा । मुञ्जवान्नाम पर्वतः । तत्र भवो मौञ्जवतः । सोमस्येव मौजवतस्य भक्षः (सोम॑स्येव मौजव॒तस्य॑ भ॒क्षः) । आ चतुर्थसमाप्तेश्छन्दोऽधिकारः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.110 sutra: भवे छन्दसि


भिन्नानां शब्दानां विषये सप्तमीसमर्थात् 'भवः' (= तत्र वर्तते) अस्मिन् अर्थे यत्-प्रत्ययः भवति।

तत्र भवः 4.3.53 इति प्राग्दीव्यतीय-अधिकारे पाठितम् किञ्चन सूत्रम् विद्यते । अस्मिन् सूत्रे 'भवः' इति अर्थः उक्तः अस्ति । अस्यैव निर्देशः वर्तमानसूत्रे अपि क्रियते । अस्मिन् अर्थे भिन्नेभ्यः शब्देभ्यः प्राग्दीव्यतीय-अधिकारस्य औत्सर्गिकः अण्-प्रत्ययः (उत तस्य अपवादाः) विधीयन्ते । परन्तु वेदेषु अस्मिन्नेव अर्थे केभ्यश्चन शब्देभ्यः 'यत्' प्रत्ययः प्रयुक्तः दृश्यते । यथा - 'नमो मेघ्याय च विद्युत्याय च' इति रूद्रनमके दृश्यते । अस्य सिद्ध्यर्थम् वर्तमानसूत्रस्य निर्माणं कृतमस्ति । प्रक्रिया एतादृशी

मेघे भवः

= मेघ + यत्

→ मेघ् + य [यस्येति च 6.4.148 इति आकारलोपः]

→ मेघ्य

ज्ञातव्यम् -

  1. 'सर्वे विधयः छन्दसि विकल्प्यन्ते' इति कश्चन सिद्धान्तः अस्ति । 'वेदेषु सर्वे विधयः वैकल्पिकरूपेण भवितुमर्हन्ति' इति अस्य आशयः । अतः 'तत्र भवः' अस्मिन् अर्थे वेदेषु वर्तमानसूत्रेण उक्तः यत्-प्रत्ययः तु दृश्यते एव, परन्तु तत्र भवः 4.3.53 इत्यत्र प्राग्दीव्यतीय-अधिकारे पाठितः उचितः प्रत्ययः अपि प्रयुक्तः दृश्यते । यथा, ऋग्वेदे 10.34.1 इत्यत्र 'सोमस्येव मौजवतस्य भक्षः' इति दृश्यते । अत्र प्रयुक्तः 'मौजवत'शब्दः मुजवत्-शब्दात् अण्-प्रत्ययं कृत्वा सिद्ध्यति । मुजवति भवः = मुञ्जवत् + अण् → मौजवत । 'मुजवान्' नाम कश्चन पर्वतः, अस्मिन् पर्वति विद्यमानः 'मौजवतः' सोमः - इति अत्र प्रयोगः दृश्यते ।

  2. अस्मात् सूत्रात् आरभ्य आपादपरिसमाप्तेः 'छन्दसि' इति अनुवर्तते । इत्युक्ते, अग्रे प्राग्घितीय-अधिकारे पाठिताः सर्वे अर्थाः प्रत्ययाः च वेदानाम् विषये एव विधानं कुर्वन्तीति स्मर्तव्यम् ।

Padamanjari

Up

index: 4.4.110 sutra: भवे छन्दसि


अणादीनां घादीनां चापवाद इति ।'तत्र भवः' इति प्राप्तानाम् । सति दर्शनेतेऽपि भवन्तीति । तद्यथा - मुञ्जवान्नाम पर्वतस्तत्र भवो मौञ्जवतस्तस्येति भक्षः । मेध्यायेति । अत्र'यतो' नावःऽ इत्याद्यौदातत्वं प्राप्नोति, अन्तस्वरितं चाधीयत इति ॥