4-4-92 धर्मपथ्यर्थन्यायात् अनपेते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत्
index: 4.4.92 sutra: धर्मपथ्यर्थन्यायादनपेते
धर्म-पथि-अर्थ-न्यायात् संज्ञायामनपेते (इति) समर्थानाम् प्रथमात् परः यत् प्रत्ययः
index: 4.4.92 sutra: धर्मपथ्यर्थन्यायादनपेते
धर्म, पथिन् अर्थ, न्याय - एतेभ्यः पञ्चमीसमर्थेभ्यः संज्ञायाः विषये 'अनपेतम्' (अच्युतम् / युक्तम्) अस्मिन् अर्थे यत्-प्रत्ययः भवति ।
index: 4.4.92 sutra: धर्मपथ्यर्थन्यायादनपेते
निर्देशादेव पञ्चमी समर्थविभक्तिः। धर्मादिभ्यः पञ्चमीसमर्थेभ्योऽनपेतः इत्यर्थे यत् प्रत्ययो भवति। धर्मातनपेतं धर्म्यम्। पथ्यम्। अर्थ्यम्। न्याय्यम्। संज्ञाधिकारादभिधेयनियमः।
index: 4.4.92 sutra: धर्मपथ्यर्थन्यायादनपेते
धर्मादनपेतं धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् ॥
index: 4.4.92 sutra: धर्मपथ्यर्थन्यायादनपेते
'अनपेतम्' इत्युक्ते 'न अपेतम्' (न च्युतम्) । अस्मिन् अर्थे पञ्चमीसमर्थात् 'धर्म', 'पथिन्', 'अर्थ' तथा 'न्याय' शब्दात् यत्-प्रत्ययः भवति ।
धर्म + यत्
→ धर्म् + य [यस्येति च 6.4.148 इति अकारलोपः]
→ धर्म्य
पथिन् + यत्
→ पथ् + य [नस्तद्धिते 6.4.144 इति टिलोपः]
→ पथ्य
अर्थ + यत्
→ अर्थ् + य [यस्येति च 6.4.148 इति अकारलोपः]
→ अर्थ्य ।
न्याय + यत्
→ न्याय् + य [यस्येति च 6.4.148 इति अकारलोपः]
→ न्याय्य
स्मर्तव्यम् - अस्मिन् सूत्रे 'संज्ञायाम्' इति अनुवर्तते, अतः एतेषां शब्दानां प्रयोगः विशिष्ट-अर्थे एव भवति, सामान्यरूपेण न । यथा, शास्त्रीय-मार्गात् यत् अनपेतं वर्तते, तस्यैव नाम 'पथ्यम्' इति दीयते, न हि प्रत्यक्ष-मार्गात् यत् अनपेतम् तस्य।
index: 4.4.92 sutra: धर्मपथ्यर्थन्यायादनपेते
धर्मपथ्यर्थन्यायादनपेते - धर्मपथ्यर्थ । धर्म, पथिन्, अर्थ, न्याय एभ्योऽनपेतमित्यर्थे यदित्यर्थः । औचित्यात्पञ्चम्यन्तेभ्य इति लभ्यते । धर्मादनपेतमिति । अप्रच्युतमित्यर्थः । पथ्यमिति । पथोऽनपेतमित्यर्थः । न्याय्यमिति । न्यायदनपेतमित्यर्थः ।
index: 4.4.92 sutra: धर्मपथ्यर्थन्यायादनपेते
निर्देशादेवेति । सत्यर्थसम्भवेऽर्थान्तरस्य वा सम्भवे सति निर्देशादिति द्रष्टव्यम्,'धुरो यड्ढको' इत्यत्रातिप्रसङ्गो नोद्भावनीयः । संज्ञाधिकारादभिधेयस्य नियत इति । शास्त्रीयात् पथो यदनपेतं तत् पथ्यम्, न तु तस्मादनपेतश्चोरः ॥