5-1-5 तस्मै हितम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छः
index: 5.1.5 sutra: तस्मै हितम्
'तस्मै हितम्' (इति) समर्थानाम् प्रथमात् परः छ-प्रत्ययः
index: 5.1.5 sutra: तस्मै हितम्
चतुर्थीसमर्थात् 'हितम्' अस्मिन् अर्थे यथाविहितं प्रत्ययः भवति ।
index: 5.1.5 sutra: तस्मै हितम्
तस्मै इति चतुर्थीसमर्थाद् ह्तम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। वत्सेभ्यो हितो गोधुक् वत्सीयः। अवत्सीयः। पटव्यम्। गव्यम्। हविष्यम्। अपूप्यम्। अपूपीयम्।
index: 5.1.5 sutra: तस्मै हितम्
वत्सेभ्यो हितो वत्सीयो गोधुक् । शङ्कवे हितं शङ्कव्यं दारु । गव्यम् । हविष्यम् ॥
index: 5.1.5 sutra: तस्मै हितम्
वत्सेभ्यो हितो वत्सीयो गोधुक्॥
index: 5.1.5 sutra: तस्मै हितम्
'हितम्' इत्युक्ते 'योग्यम् / आवश्यकम् / हितकारकम् / उपयोगी / उपयुक्तम् ' । 'हितम्' अस्मिन् अर्थे चतुर्थीसमर्थात् प्रातिपदिकात् औत्सर्गिकरूपेण छ-प्रत्ययः भवति । आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम् 7.1.2 इत्यनेन छ-प्रत्ययस्य ईय-आदेशः भवति ।
यथा -
= वत्स + छ
→ वत्स + ईय [आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम् 7.1.2 इत्यनेन छ-प्रत्ययस्य ईय-आदेशः ]
→ वत्स् + ईय [यस्येति च 6.4.148 इति अकारलोपः]
→ वत्सीय
वत्साय हितः वत्सीयः गोधुक् । धेनोः अपत्यार्थम् यावत् दुग्धमावश्यकम् तावत् अवशेषय्य परिशिष्टं दुग्धम् यः दोग्धि, सः गोधुक् 'वत्सीयः' नाम्ना ज्ञायते ।
2.पटाय हितम्
= पट + छ
→ पट + ईय
→ पट् + ईय
→ पटीय
पटाय हितः पटीयः तन्तुः ।
index: 5.1.5 sutra: तस्मै हितम्
तस्मै हितम् - तस्मै हितम् । असमिन्नर्थे चतुथ्र्यन्ताद्यथाविहितं प्रत्ययाः स्युः । वत्सीय इति । छे रूपम् । यो गोधुग्वत्सेभ्यः पयः शिष्ट्वा दोग्धि स एवमुच्यते । शङ्कव्यमिति । शङ्कवे हितमित्यर्थः । उवर्णान्तत्वाद्यत् । गव्यमिति । गोभ्यो हितं तृणादिकमित्यर्थः । गवादिलक्षणो यत् । हविष्यमिति । हविषे हितमित्यर्थः । हविःशब्दो गवादिः ।विभाषा हवि॑रित्यत्र तु हविर्विशेषवाचिनामेव ग्रहणं, व्याख्यानात् ।
index: 5.1.5 sutra: तस्मै हितम्
तस्मै इति।'हितयोगे चतुर्थी वक्तव्या' इति चतुर्थी। अपर आह-अयमेव निर्देशो ज्ञापको हितयोगे चतुर्थी भवतीत्यस्येति, तच्चिन्त्यम्;'चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः' इति अशिषि विषयविशेषे हितयोगे चतुर्थ्याः सम्भवात् ॥