4-4-96 बन्धने च ऋषौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् हृदयस्य
index: 4.4.96 sutra: बन्धने चर्षौ
'हृदयस्य बन्धने' (इति) संज्ञायाम् ऋषौ यत् च
index: 4.4.96 sutra: बन्धने चर्षौ
षष्ठीसमर्थात् 'हृदय' शब्दात् 'बन्धने' अस्मिन् अर्थे ऋषौ (वेदे) अभिधेये संज्ञायाम् यत्-प्रत्ययः भवति ।
index: 4.4.96 sutra: बन्धने चर्षौ
हृदयस्य इत्येव। बन्धने इति प्रत्ययार्थः। तद्विशेषणम् ऋषिग्रहनम्। वध्यते येन तद् बन्धनम्। हृदयशब्दात् षष्ठीसमर्थाद् बन्धने ऋषावभिधेये यत् प्रत्ययो भवति। ऋषिर्वेदो गृह्यते। हृदयस्य बन्धनम् ऋषिः हृद्यः। परहृदयं येन बध्यते वशीक्रियते स वशीकरणमन्त्रो हृद्यः इत्युच्यते।
index: 4.4.96 sutra: बन्धने चर्षौ
हृदयशब्दात् षठ्यन्ताद्बन्धने यत्स्याद्वेदेऽभिधेये । हृदयस्य बन्धनं हृद्यो वशीकरणमन्त्रः ॥
index: 4.4.96 sutra: बन्धने चर्षौ
आदौ सूत्रे प्रयुक्तानां शब्दानामर्थं पश्यामः -
बन्धनम् = बद्ध्यते (बाधनम् क्रियते) येन, तत् बन्धनम् ।
ऋषिः = वेदमन्त्रः ।
अतः अस्य सूत्रस्य अर्थः अयम् - येन वेदमन्त्रेण हृदयस्य बन्धनम् क्रियते (इत्युक्ते, मनः वशीक्रियते), तस्य निर्देशार्थम् 'हृदय' शब्दात् यत्-प्रत्ययः भवति ।
हृदयस्य बन्धनम् करोति सः
= हृदय + यत्
→ हृद् + य [हृदयस्य हृल्लेखयदण्लासेषु 6.3.50 इत्यनेन भसंज्ञकस्य 'हृदय'शब्दस्य यत्-प्रत्यये परे हृद्-आदेशः]
→ हृद्यः ऋषिः (वेदमन्त्रः)
ज्ञातव्यम् - अत्र 'संज्ञायाम्' इति अनुवर्तते, अतः अत्र 'ऋषि' इत्यस्य अर्थः केवलं 'वेदः' इत्येव स्वीक्रियते, न हि 'मुनिः' इति ।
index: 4.4.96 sutra: बन्धने चर्षौ
बन्धने चर्षौ - बन्धने चर्षौ ।
index: 4.4.96 sutra: बन्धने चर्षौ
षष्ठीसमर्थादिति । बन्धनयोगे कृद्योगलक्षणा कर्मणि षष्ठी । ऋषिर्वेदो गृह्यते इति ।'तदुक्तमृषिणा' इत्यादौ दर्शनात् । यत्स्वाध्यानसम्पन्ने वसिष्ठादवृषिशब्दः, तस्य ग्रहणं न भवति; संज्ञाधिकारात् ॥