अद्भिः संस्कृतम्

4-4-134 अद्भिः संस्कृतम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि

Sampurna sutra

Up

index: 4.4.134 sutra: अद्भिः संस्कृतम्


'अद्भिः संस्कृतम्' (इति) छन्दसि संज्ञायाम् यत्

Neelesh Sanskrit Brief

Up

index: 4.4.134 sutra: अद्भिः संस्कृतम्


तृतीयासमर्थात् 'अप्' शब्दात् 'संस्कृतम्' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते ।

Kashika

Up

index: 4.4.134 sutra: अद्भिः संस्कृतम्


निर्देशादेव समर्थविभक्तिः। अप्शब्दात् तृतीयासमर्थात् संस्कृतम् इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। यस्य इदमप्यं हविः। अद्भिः संस्कृतम् इति।

Siddhanta Kaumudi

Up

index: 4.4.134 sutra: अद्भिः संस्कृतम्


यस्येदमप्यं हविः (यस्ये॒दमप्यं॑ ह॒विः) ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.134 sutra: अद्भिः संस्कृतम्


'संस्कतम्' इत्युक्ते संस्करणम् कृतम् । तृतीयासमर्थात् 'अप्' (= जलम्) शब्दात् 'अनेन संस्करणम् कृतम्' अस्मिन् अर्थे वेदेषु यत्-प्रत्ययः कृतः दृश्यते । अद्भिः संस्कतृम् = अप् + यत् → अप्य । यथा - अप्यम् हविः ।

वेदेषु प्रयोगः - ऋग्वेदे 10.86.11 - यस्ये॒दं अप्यं॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।

ज्ञातव्यम् - 'अद्भिः' इति सूत्रे विद्यमानः यः प्रथमः शब्दः, तेनैव तृतीयासामर्थ्यम् निर्दिश्यते ।