गृहपतिना संयुक्ते ञ्यः

4-4-90 गृहपतिना संयुक्ते ञ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत्

Sampurna sutra

Up

index: 4.4.90 sutra: गृहपतिना संयुक्ते ञ्यः


गृहपतिना संयुक्ते संज्ञायाम् ञ्यः

Neelesh Sanskrit Brief

Up

index: 4.4.90 sutra: गृहपतिना संयुक्ते ञ्यः


तृतीयासमर्थात् 'गृहपति' शब्दात् 'संयुक्तम् (= सम्बन्धी)' अस्मिन् अर्थे संज्ञायाम् ञ्य-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.90 sutra: गृहपतिना संयुक्ते ञ्यः


निर्देशादेव तृतीया समर्थविभक्तिः। गृहपतिशब्दात् तृतीयासमर्थात् संयुक्ते इत्येतस्मिन्नर्थे ञ्यः प्रत्ययो भवति। गृहपतिना संयुक्तः गार्हपत्योऽग्निः। अन्यस्य अपि गृहपतिना संयोगोऽस्ति, तत्र संज्ञाधिकारादतिप्रसङ्गनिवृत्तिः।

Siddhanta Kaumudi

Up

index: 4.4.90 sutra: गृहपतिना संयुक्ते ञ्यः


गृहपतिर्यजमानस्तेन संयुक्तो गार्हपत्योऽग्निः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.90 sutra: गृहपतिना संयुक्ते ञ्यः


गृहपतिः इत्युक्ते गृहस्य पतिः (प्रमुखः) । 'संयुक्तम्' इत्युक्ते 'सम्बन्धी' । गृहपतिना सह यस्य सम्बन्धः, तस्य निर्देशं कर्तुम् संज्ञाविधानार्थम् गृहपति-शब्दात् ञ्य प्रत्ययः भवति । यथा - गृहपतिना संयुक्तः अग्निः = गृहपति + ञ्य → गार्हपत्य । 'गार्हपत्य' इति कश्चन अग्निविशेषः । वेदेषु अग्निनाम् भिन्नानि नामानि दत्तानि दृश्यन्ते, यथा गार्हपत्य-अग्निः, दक्षिण-अग्निः, आहवनीय-अग्निः आदयः । एतेषु 'गार्हपत्य' शब्दस्य व्युत्पत्यर्थम् रचितम् इदम् सूत्रम् ।

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे 'गृहपतिना' इत्येव समर्थेषु प्रथमः स्वीक्रियते, अत्र पूर्वसूत्राणि यावत् 'तत्' इति न अनुवर्तते । अतः अत्र 'तृतीयासमर्थः गृहपति-शब्दः' इत्यस्मात् एव प्रत्ययविधानम् भवति ।

  2. वस्तुतः अस्मिन् सूत्रे 'गृहपतिना संयुक्तम्' इत्यस्मिन् अर्थे ञ्य-प्रत्ययः पाठितः अस्ति, न हि 'गृहपतिना संयुक्तः अग्निः' अस्मिन् अर्थे । अतः गृहपतिना सम्बधितम् यत् किमपि वर्तते (यथा - गृहपतिना संयुक्तम् गृहम् / कार्यम् / मन्दिरमादयः), तस्य सर्वस्य विषये अनेन सूत्रेण ञ्य-प्रत्ययविधानस्य प्रसक्तिः वर्तते । परन्तु तादृशम् न भवति, यतः अत्र 'संज्ञायाम्' इत्यपि पूर्वसूत्रात् अनुवर्तते । 'संज्ञायाम्' इत्यनेन 'गार्हपत्य' शब्दस्य प्रयोगस्य संज्ञायाः विषये नियमनम् क्रियते, अतः अन्यत्र (यत्र 'गार्हपत्य' इति संज्ञारूपेण न प्रयुज्यते तत्र) अस्य सूत्रस्य प्रयोगः न भवति । अतः 'गृहपतिना संयुक्तम् गृहम् / कार्यम् / मन्दिरम्' एतेषु स्थलेषु अस्य सूत्रस्य प्रसक्तिः नास्ति ।

Balamanorama

Up

index: 4.4.90 sutra: गृहपतिना संयुक्ते ञ्यः


गृहपतिना संयुक्ते ञ्यः - गृहपतिना । अस्मिन्नर्थे गृहपतिशब्दात्तृतीयान्ताञ्ञ्यः स्यादित्यर्#H । गार्हपत्योऽग्निरिति । अग्निविशेष इत्यर्थः । तत्र पत्नीसंयोजेषु अग्निहोत्तरे च गृहपतिदेवताकहोमस्य क्रियमामत्वाद्गृहपतियोगः । यद्यपिदेवसूहविःषु अग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति॑ इति हविर्होम आहबनीये क्रियते, तथापि संज्ञाधिकारादाहरवनीये नास्य प्रयोगः ।

Padamanjari

Up

index: 4.4.90 sutra: गृहपतिना संयुक्ते ञ्यः


अन्यस्यापीत्यादि । गृहपतिर्हि यजमानः, स यथा गार्हपत्ये कार्याणि करोति तथा दक्षिणाग्नावाहवनीये च, भूयो वाऽऽहवनीये; तस्मादन्यस्यापि गृहपतिना योगोऽस्ति । यद्येवम्, तत्राप्यतिप्रसङ्गः ? इत्यत आह - तत्रेति । अपर आह - गृहपतिरग्निविशेषः, तेन संयोगो गार्हपत्यस्यैवाग्निहोत्रेऽपि गार्हपत्ये अग्नये गृहपतये प्रजापतये, पत्नीसंयाजेषु च तत्रैवेज्यते इति , तत्रापि गृहपतिरग्निर्गृह्यते न यजमान इत्यत्र संज्ञाधिकार एव शरणम् ॥