4-4-108 समानोदरे शयितः ओ च उदात्तः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र
'शयितः' (इति) संज्ञायाम् समानोदरे यत्, ओ च उदात्तः
'शयितः' अस्मिन् अर्थे सप्तमीसमर्थात् 'समानोदर'शब्दात् संज्ञायाः विषये यत्-प्रत्ययः भवति, तथा च निर्मितस्य शब्दस्य ओकारः उदात्तः जायते ।
समानोदरशब्दात् सप्तमीसमर्थात् शयित इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति, ओकारश्चोदात्तः। शयितः स्थित इत्यर्थः। समानोदरे शयितः समानोदर्यो भ्राता॥
समाने उदरे शयितः स्थितः समानोदर्यो भ्राता ॥
'शयितः' इति 'शी' धातो' क्त-प्रत्ययान्तरूपम् । 'शयनम् कृतः / स्थितः' इत्यर्थः । सप्तमीसमर्थात् 'समानोदर'शब्दात् संज्ञायाः विषये यत्-प्रत्ययः भवति । यथा - समानोदरे शयितः = समानोदर + यत् → समानोदर् + य [<<यस्येति च>> 6.4.148 इति अकारलोपः] → समानोदर्यः । समाने उदरे शयितः सः समानोदर्यः भ्राता । समाने उदरे शयिता सा समानोदर्या स्वसा । अनेन सूत्रेण 'समानोदर्य' शब्दस्य ओकारस्य उदात्तत्वमपि विधीयते । वस्तुतः तु यत्-प्रत्ययः 'तित्' अस्ति, अतः <<तित्स्वरितम्>> 6.1.185 इत्यनेन तित्-प्रत्ययस्य आदिस्वरस्य उदात्तत्वम् विधीयते, येन अन्ये स्वराः <<अनुदात्तं पदमेकवर्ज्यम्>> 6.1.158 इत्यनेन अनुदात्तस्वरं प्राप्नुवन्ति । परन्तु तत् बाधित्वा अनेन सूत्रेण 'समानोदर्य' शब्दस्य ओकारः उदात्तः क्रियते ।
<<समानोदरे शयित ओ चोदात्तः>> - समानोदरे । समानोदरशब्दात्सप्तम्यन्ताच्छयित इत्यर्थे यत्स्यादोकाराश्च उदात्त इत्यर्थः । शयित इत्यस्य विवरणं स्थित इति । कुशेशयं जलेशयमित्यादौ तथा दर्शनादिति भावः । समानोदर्य इति । समानमुदरमिति । विग्रहेपूर्वापरप्रथमे॑त्यादिना समासाद्यति कृते तित्स्वरापवाद ओकारस्योदात्तः । 'विभाषोदरे' इति सभावेऽसति रूपम् ।
ओकारश्चोदात इति । तित्स्वरितस्यापवादः । शयितः स्थित इति । शेतेः स्थितावपि वृतेः, आमाशयः, जलाशय इति यथा । समानोदर्य इति । उद्दीर्यत इत्युदरम्, उदि दृणातेरलचौ पूर्वपदान्तलोपश्चेत्यलचोरन्यतरः । समानं च तदुदरं च समानोदरम्,'पूर्वापरप्रथम्' इत्यादिना समासःष ततः प्रत्ययः ॥