हृदयस्य प्रियः

4-4-95 हृदयस्य प्रियः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत्

Sampurna sutra

Up

'हृदयस्य प्रियः' (इति) संज्ञायाम् समर्थानाम् प्रथमात् परः यत् प्रत्ययः

Neelesh Sanskrit Brief

Up

षष्ठीसमर्थात् 'हृदय' शब्दात् 'प्रियः' अस्मिन् अर्थे संज्ञायां विषये यत्-प्रत्ययः भवति ।

Kashika

Up

निर्देशादेव समर्थविभक्तिः। हृदयशब्दात् षष्ठीसमर्थात् प्रिय इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। हृदयस्य प्रियो हृद्यो देशः। हृद्यं वनम्। संज्ञाधिकारादभिधेयनियमः। इह न भवति — हृदयस्य प्रियः पुत्र इति॥

Siddhanta Kaumudi

Up

हृद्यो देशः । हृदस्य हृल्लेख-<{SK988}> इति हृदादेशः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

षष्ठीसमर्थात् 'हृदय'शब्दात् 'प्रियः' अस्मिन् अर्थे यत्-प्रत्ययः विधीयते । हृदयस्य प्रियः = हृदय + यत् → हृद् + य [<<हृदयस्य हृल्लेखयदण्लासेषु>> 6.3.50 इत्यनेन भसंज्ञकस्य 'हृदय'शब्दस्य यत्-प्रत्यये परे हृद्-आदेशः] → हृद्य अत्र 'संज्ञायाम्' इति अनुवर्तते, अतः 'हृदस्य प्रियः हृद्यः देशः / हृदस्य प्रियम् हृद्यम् वनम्' एतेषु एव अर्थेषु 'हृद्य' शब्दः प्रयुज्यते, न हि 'हृदस्य प्रियः पुत्रः / हृद्स्य प्रियः हृद्यः सखा' एतेषु अर्थेषु ।

Balamanorama

Up

<<हृदयस्य प्रियः>> - ह्मदयस्य प्रियः । षष्ठन्ताद्धृदयशब्दात्प्रिय इत्यर्थे यत्स्यादित्यर्थः ।

Padamanjari

Up

हृदयमु अन्तः करणम्, प्रियमु प्रीतिकरम् । हृद्यमिति ।'हृदयस्य हृल्लेखयदण्लासेषु' इति हृदादेशः ॥