समानतीर्थे वासी

4-4-107 समानतीर्थे वासी प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र

Sampurna sutra

Up

'वासी' (इति) संज्ञायाम् समानतीर्थे यत्

Neelesh Sanskrit Brief

Up

'वासी' (निवसति) अस्मिन् अर्थे सप्तमीसमर्थात् 'समानतीर्थ' शब्दात् संज्ञायाः विषये यत्-प्रत्ययः भवति ।

Kashika

Up

साधुरिति निवृत्तम्। वासीति प्रत्ययार्थः। समानतीर्थशब्दात् तत्रेति सप्तमीसमर्थाद् वासीत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। समाने तीर्थे वासीति सतीर्थ्यः। समानोपाध्याय इत्यर्थः। तीर्थशब्देनेह गुरुरुच्यते॥

Siddhanta Kaumudi

Up

साधुरीति निवृत्तम् । वसतीति वासी । समाने तीर्थे गुरौ वसतीति सतीर्थ्यः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'तीर्थम्' इत्युक्ते गुरुः (आचार्यः) । 'समाने तीर्थे निवसति' (= समानगुरोः समीपे अध्ययनम् करोति) अस्मिन् अर्थे 'समानतीर्थ' शब्दात् यत्-प्रत्ययः भवति । समानतीर्थे वासी = समानतीर्थ + यत् → सतीर्थ + यत् [<<तीर्थे ये>> 6.3.87 इति यत्-प्रत्यये परे तीर्थ-शब्दे उत्तरपदे 'समान' इत्यस्य 'स'आदेशः भवति ।] → सतीर्थ् + य [<<यस्येति च>> 6.4.148 इति अकारलोपः] → सतीर्थ्य ययोः गुरुः समानः अस्ति, तौ 'सतीर्थ्यौ' नाम्ना ज्ञायेते ।

Balamanorama

Up

<<समानतीर्थे वासी>> - समानतीर्थे वासी । समानतीर्थशब्दात्सप्तम्यन्ताद्वसतीत्यर्थे यत्स्यादित्यर्थः । वसतीति वासीति । ग्रह्रादेराकृतिगणत्वाण्णिनिः । तीर्थशब्दस्य विवरणं-गुराविति । सतीथ्र्य इति । समानतीर्थशब्दाद्यति 'तीर्थे ये' इति समानस्य सभावः ।

Padamanjari

Up

वसतीति वासी, निपातनाण्णिनिः, ग्रह्यादेराकृतिगणत्वाद्वा साधुरिति । निवृतमिति । तेन किं सिद्धं भवति ? इत्याह - वासीति प्रत्ययार्थ इति । साधुरित्यस्यानुवृतौ तु तस्यैव विशेषणं वासिग्रहणं स्यात् । तीर्थशब्देनेह गुरुरुच्यत इति । प्रयागादितीर्थसाधर्म्यात् । तरन्त्यनेनेति तीर्थम्, तरतेः क्थन् । मुख्यस्य तीर्थस्य ग्रहणं न भवति; संज्ञाधिकारात् ॥