4-4-143 शिवशमरिष्टस्य करे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि तातिल्
index: 4.4.143 sutra: शिवशमरिष्टस्य करे
करे (इति) शिव-शम्-अरिष्टस्य छन्दसि संज्ञायाम् तातिल्
index: 4.4.143 sutra: शिवशमरिष्टस्य करे
'करोति' अस्मिन् अर्थे षष्ठीसमर्थात् 'शिव'शब्दात्, 'शम्'शब्दात्, 'अरिष्ट'शब्दात् च वेदेषु संज्ञायाः विषये तातिल्-प्रत्ययः कृतः दृश्यते ।
index: 4.4.143 sutra: शिवशमरिष्टस्य करे
करोतीति करः प्रत्ययार्थः। तत्सामर्थ्यलभ्या षष्ठी समर्थविभक्तिः। शिवादिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्यः करे इत्येतस्मिन्नर्थे तातिल् प्रत्ययो भवति। शिवं करोतीति शिवतातिः। शंतातिः। अरिष्टतातिः।
index: 4.4.143 sutra: शिवशमरिष्टस्य करे
करोतीति करः । पचाद्यच् । शिवं करोतीति शिवतातिः । याभिः शन्ताती भवथो ददादुषे (याभिः॒ शन्ता॑ती॒ भव॑थो द॒दा॒दुषे॑) । अथो अरिष्टतातये (अथो॑ अरि॒ष्टता॑तये ॥
index: 4.4.143 sutra: शिवशमरिष्टस्य करे
'करे' इति 'कर' इत्यस्य सप्तम्येकवचनम् । कृ-धातोः अच्-प्रत्ययं कृत्वा 'कर' इति प्रातिपदिकं सिद्ध्यति । करोति सः करः । अस्मिन्नेव अर्थे 'शिव', 'शम्' तथा 'अरिष्ट' - एतेभ्यः शब्देभ्यः वेदेषु संज्ञायाः विषये तातिल्-प्रत्ययः कृतः दृश्यते ।
शिवस्य करः = शिवम् करोति सः = शिव + तातिल् → शिवताति ।
शमः करः = शमं करोति सः = शम् + ताति → शन्ताति ।
अरिष्टस्य करः = अरिष्टं करोति सः = अरिष्ट + ताति = अरिष्टताति ।
वेदेषु प्रयोगः -
(शिवताति) - पैप्पलादसंहिता (अथर्ववेदः) 5.36.1 - ये भौमा भूम्या अधि संबभूवुस्ते त्वा न हिंसाञ्छिवतातिरस्तु ते ।
(शन्ताति) - ऋग्वेदः 8.18.7 - उ॒त स्या नो॒ दिवा॑ म॒तिरदि॑तिरू॒त्या ग॑मत् । सा शंता॑ति॒ मय॑स्कर॒दप॒ स्रिध॑: ॥
(अरिष्टताति) - ऋग्वेदः 10.60.8 - ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥
ज्ञातव्यम् -
सूत्रे विद्यमानः 'शिव-शम्-अरिष्टस्य' इति प्रथमः शब्दः षष्ठीसामर्थ्यम् निर्देशयति ।
'तातिल्' इत्यत्र लकारः इत्संज्ञकः अस्ति, तस्य लोपं कृत्वा 'ताति' इत्यवशिष्यते ।