बर्हिषि दत्तम्

4-4-119 बर्हिषि दत्तम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र छन्दसि

Sampurna sutra

Up

'तत्र दत्तम्' इति बर्हिषि छन्दसि संज्ञायात् यत्

Neelesh Sanskrit Brief

Up

'दत्तम्' अस्मिन् अर्थे सप्तमीसमर्थात् 'बर्हिस्' शब्दात् वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते ।

Kashika

Up

भव इति निवृत्तम्। बर्हिःशब्दात् सप्तमीसमर्थाद् दत्तमित्येतस्मिन्नर्थे यत् प्रत्ययो भवति। बर्हि॒ष्ये॑षु नि॒धिषु॑ पि्॒रयेषु॑ (ऋ०१०.१५.५)॥

Siddhanta Kaumudi

Up

प्राग्घिताद्यत् <{SK1626}> इत्येव । बर्हिष्येषु निधिषु प्रियेषु (ब॒र्हि॒ष्येषु॑ नि॒धिषु॑ प्रि॒येषु॑) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'बर्हिस्' (अग्निः) अस्मात् शब्दात् सप्तमीसमर्थात् दत्तमस्मिन् अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते । बर्हिषि दत्तम् = बर्हिस् + यत् → बर्हिष्य [<<आदेशप्रत्यययोः>> 8.3.59 इति षत्वम्] यथा - ऋग्वेदः 10.15.5 - उप॑हूताः पि॒तर॑: सो॒म्यासो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ ।

Balamanorama

Up

Padamanjari

Up

'बृहेर्नलोपश्च' इतीसिप्रत्ययः, बर्हिः ॥