4-4-137 सोमम् अर्हति यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि
index: 4.4.137 sutra: सोममर्हति यः
'सोममर्हति' (इति) छन्दसि संज्ञायाम् यः
index: 4.4.137 sutra: सोममर्हति यः
द्वितीयासमर्थात् 'सोम'शब्दात् 'अर्हति' अस्मिन् अर्थे वेेदेषु संज्ञायाः विषये य-प्रत्ययः कृतः दृश्यते ।
index: 4.4.137 sutra: सोममर्हति यः
निर्देशादेव समर्थविभक्तिः। सोमशब्दात् द्वितीयासमर्थातर्हति इत्येतस्मिन्नर्थे यः प्रत्ययो भवति। सोममर्हन्ति सोम्या ब्राह्मणाः। यज्ञार्हाः इत्यर्थः। यति प्रकृते यग्रहणम्। स्वरे विशेषः।
index: 4.4.137 sutra: सोममर्हति यः
सोम्यो ब्राह्मणः । यज्ञार्ह इत्यर्थः ॥
index: 4.4.137 sutra: सोममर्हति यः
यः 'सोममर्हति', तस्य निर्देशार्थं द्वितीयासमर्थात् 'सोम'शब्दात् वेदेषु संज्ञायाः विषये य-प्रत्ययः कृतः दृश्यते । सोममर्हति सः सोम्यः ।
वेदेषु प्रयोगः - (ऋग्वेदः 1.14.10) - विश्वे॑भिः सो॒म्यं मध्वग्न॒ इन्द्रे॑ण वा॒युना॑ ।
ज्ञातव्यम् -
'सोमम्' इति सूत्रे प्रयुक्तः यः प्रथमः शब्दः, तेनैव द्वितीयासामर्थ्यं निर्दिश्यते ।
वस्तुतः अत्र 'यत्' इति औत्सर्गिकः प्रत्ययः अनुवर्तते । परन्तु तं बाधित्वा अस्मिन् सूत्रे 'य' प्रत्ययः उक्तः अस्ति । द्वयोः अपि प्रत्यययोः प्रयोगेण समानम् एव रूपम् जायते, परन्तु तयोर्मध्ये स्वरभेदः अस्ति । 'यत्'प्रत्ययान्तः 'सोम्य'शब्दः यतोऽनावः 6.1.213 इत्यनेन आद्युदात्तः जायते, परन्तु 'य'प्रत्ययान्तः 'सोम्य'शब्दः आद्युदात्तश्च 3.1.3 इत्यनेन अन्तोदात्तत्वं प्राप्नोति । (आद्युदात्तश्च 3.1.3 इत्यनेन प्रत्ययस्य आदिस्वरः उदात्तः जायते । अतः अत्र अनेन सूत्रेण यकारोत्तरः अकारः उदात्तः भवति । अयमकारः 'सोम्य' इति सम्पूर्णशब्दस्य अन्तिमस्थाने अस्ति, अतः अत्र 'सोम्य'शब्दः अन्तोदात्तत्वं प्राप्नोति) ।
index: 4.4.137 sutra: सोममर्हति यः
'च्छन्दसि' इत्यधिकाराद्भाषायां सोम्यशब्दस्य साधुत्वं चिन्त्यम् - ठायुष्मान्भव सोम्येति वाच्यो विप्रोऽभिवादनेऽ इति । केचित्सौम्येति वृद्धिं पठन्ति । सौम्यशब्दो दर्शनीयवचनः सुखादिवत् ॥