पूर्वैः कृतमिनयौ च

4-4-133 पूर्वैः कृतम् इनयौ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि

Sampurna sutra

Up

index: 4.4.133 sutra: पूर्वैः कृतमिनयौ च


पूर्वैः 'कृतम्' (इति) छन्दसि संज्ञायाम् इन-यौ खः च

Neelesh Sanskrit Brief

Up

index: 4.4.133 sutra: पूर्वैः कृतमिनयौ च


तृतीयासमर्थात् 'पूर्व'शब्दात् 'कृतम्' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये 'इन', 'य' तथा 'ख' प्रत्ययाः कृताः दृश्यन्ते ।

Kashika

Up

index: 4.4.133 sutra: पूर्वैः कृतमिनयौ च


मत्वर्थे इति निवृत्तम्। निर्देशादेव समर्थविभक्तिः। पूर्वशब्दात् तृतीयासमर्थात् कृतम् इत्येतस्मिन्नर्थे इन य इत्येतौ प्रत्ययौ भवतः। चकारात् ख च। गम्भीरेभिः प्रथिभिः पूर्विणेभिः। पूर्व्यैः। पूर्वीणैः। पूर्वैः इति बहुवचनान् तेन पूर्वपुरुषाः उच्यन्ते। तत्कृताः पन्थानः प्रशस्ता इति पथां प्रशंसा।

Siddhanta Kaumudi

Up

index: 4.4.133 sutra: पूर्वैः कृतमिनयौ च


गम्भीरेभिः पथिभिः पूर्विणेभिः (ग॒म्भी॒रेभिः॑ प॒थिभिः॑ पूर्वि॒णेभिः) । ये ते पन्थाः सवितः पूर्व्यासः (ये ते॒ पन्थाः॑ सवितः पूर्व्यासः॑) ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.133 sutra: पूर्वैः कृतमिनयौ च


'पूर्वैः कृतम्' अस्मिन् अर्थे तृतीयासमर्थात् 'पूर्व'शब्दात् वेदेषु संज्ञायाः विषये 'इन', 'य 'तथा 'ख' - एते प्रत्ययाः कृताः दृश्यन्ते ।

  1. पूर्वैः कृतम् = पूर्व + इन → पूर्विण ।

  2. पूर्वैः कृतम् = पूर्व + य → पूर्व्य ।

  3. पूर्वैः कृतम् =

पूर्व + ख

→ पूर्व + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ईन्-आदेशः]

→ पूर्वीण ।

वेदेषु उदाहरणम् - (आश्वलायन-श्रौत्रसूत्रम् 2.7.9) अथैनान् प्रवाहयेत् परेतन पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्विणेभिः ।

(ज्ञातव्यम् - अत्र 'पूर्विण'शब्दात् तृतीया-बहुवचनस्य भिस्-प्रत्यये कृते अतो भिस ऐस् 7.1.9 इत्यनेन ऐस्-आदेशे प्राप्ते बहुलं छन्दसि 7.1.10 इत्यनेन अयमादेशः न कृतः अपि दृश्यते ।)

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे प्रथमः विद्यमानः शब्दः 'पूर्वैः' इत्यनेन तृतीयासामर्थ्यम् दर्श्यते, अतः सूत्रार्थे 'तृतीयासमर्थात्' इति निर्देशः कृतः अस्ति ।

  2. अस्मिन् सूत्रे 'पूर्वैः' इति बहुवचनान्तप्रयोगः कृतः अस्ति । अस्मिन् विषये काशिकाकारः वदति - ' पूर्वैः इति बहुवचनान्तेन पूर्वपुरुषाः उच्यन्ते' । इत्युक्ते, अस्य सूत्रस्य प्रयोगः तत्रैव कृतः दृश्यते यत्र 'पूर्व' शब्दस्य अर्थः 'पूर्वपुरुषः' इति वर्तते । यथा, उपरिनिर्दिष्टे उदाहरणे 'पूर्विण' इत्युक्ते 'पूर्वपुरूषैः कृतम् तत्' ।

Padamanjari

Up

index: 4.4.133 sutra: पूर्वैः कृतमिनयौ च


बहुवचनान्तेनेत्यादि । बहुवचनान्तात्प्रत्ययविध्यर्थो बहुवचननिर्देशः । बहुवचनान्तात्प्रत्ययोत्पतौ यथा प्रशंसा गम्यते - पूर्वैर्बहुभिः क्रियत इति प्रतीतेः, तेन पूर्वशब्दश्च वृद्धेषु पुरुषेषु प्रवर्तत इत्यर्थः ॥