असुरस्य स्वम्

4-4-123 असुरस्य स्वम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि

Sampurna sutra

Up

असुरस्य 'स्वम्' (इति) छन्दसि संज्ञायाम् यत्

Neelesh Sanskrit Brief

Up

षष्ठीसमर्थात् असुर-शब्दात् 'स्वम्' (आत्मीयम्) अस्मिन् अर्थे वेेदेषु संज्ञायाम् यत्-प्रत्ययः भवति ।

Kashika

Up

असुरशब्दात् षष्ठीसमर्थात् स्वमित्येतस्मिन्नर्थे यत् प्रत्ययो भवति। अणोऽपवादः। असु॒३र्यं॒ वा॑ ए॒त॑त्पा॑त्रं॒ य॑त् कु॑ला॒लकृतम् च॒क्॑रवृ॒त्तम् (मै०सं०१.८.३)॥

Siddhanta Kaumudi

Up

असुर्यं देवोभिर्धायि विश्वम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

षष्ठीसमर्थात् 'असुर' शब्दात् 'स्वम्' (स्वीयम् / आत्मीयम्) अस्मिन् अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते । असुरस्य स्वम् = असुर + यत् → असूर्य । असूरस्य स्वकीयः / आत्मीयः इत्यर्थः । यथा - (ऋग्वेदः 10.105.11) श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ॑द्दुर्मि॒त्र इ॒त्थास्तौ॑त् ।

Balamanorama

Up

Padamanjari

Up

न सुरोऽसुरः उ सुरप्रतिपक्षः । अथ वा ठसेरुरन्ऽ, अस्यत्यस्यते वेत्यसुरः ॥