4-4-83 विध्यति अधनुषा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्
index: 4.4.83 sutra: विध्यत्यधनुषा
'तत् अधनुषा विध्यति' (इति) समर्थानाम् प्रथमात् परः यत् प्रत्ययः
index: 4.4.83 sutra: विध्यत्यधनुषा
'विध्यति' अस्मिन् अर्थे द्वितीयासमर्थात् यत्-प्रत्ययः भवति, परन्तु 'धनुष्' इति करणमस्ति चेत् यत्-प्रत्ययः न भवति ।
index: 4.4.83 sutra: विध्यत्यधनुषा
ततिति द्वितीयासमर्थाद् विध्यति इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति, न चेद् धनुष्करणं भवति। पादौ विध्यन्ति पद्याः शर्कराः। ऊरव्याः कण्टकाः। अधनुषा इति किम्? पादौ विध्यति धनुषा। ननु असमर्थत्वादनभिधानाच् च प्रत्ययो न भवति, न हि धनुषा पद्य इति विवक्षितोऽर्थः प्रतीयते? एवं तर्हि धनुष्प्रतिषेधेन व्यधनक्रिया विशेष्यते, यस्यां धनुष्करणम् न सम्भाव्यते इति। तेन इह न भवति, चौरं विध्यति, शत्रुं विध्यति देवदत्तः इति।
index: 4.4.83 sutra: विध्यत्यधनुषा
द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यान्न चेत्तत्र धनुः करणम् । पादौ विध्यन्ति पद्याः शर्कराः ॥
index: 4.4.83 sutra: विध्यत्यधनुषा
'विध्यति' इति 'व्यध् (ताडने)' इत्यस्य दिवादिगणस्य धातोः लट्लकारस्य प्रथमपुरुषैकवचनम् । 'ताडयति / वेदनां करोति' अस्मिन् अर्थे अस्य धातोः प्रयोगः भवति । यत्र केनचन पदार्थेन वेदना क्रियते, तत्र 'यम् वेदना भवति' तस्य निर्देशार्थम् वर्तमानसूत्रस्य प्रयोगः भवति । उदाहरणम् पश्यामश्चेत् स्पष्टम् स्यात् -
पाद + यत्
→ पद् + यत् [पद् यत्यतदर्थे 6.3.53 इति पद्-आदेशः]
→ पद्य
पादौ विध्यन्ति ते पद्याः वालुकाकणाः ।
ऊरु + यत्
→ ऊरो + य [ओर्गुणः 6.4.146 इति गुणादेशः]
→ ऊरव् + य [वान्तो यि प्रत्यये 6.1.79 इति अवादेशः]
→ ऊरव्य
यदि व्यधनक्रियायाः करणम् 'धनुः' इति अस्ति (इत्युक्ते, धनुषा ताडनम् / पीडनम् क्रियते), तर्हि वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - 'धनुषा पादान् विध्यन्ति ते शराः' अस्मिन् वाक्ये पाद-शब्दात् यत्-प्रत्ययविधानम् न भवति, यतः अत्र व्यधनक्रियायाः करणम् 'धनुः' इति अस्ति । तथा च, यत्र व्यधनक्रियायाः करणम् धनुः इति 'भवितुमर्हति', तत्रापि वर्तमानसूत्रस्य प्रसक्तिः न भवति । यथा - 'देवदत्तः शत्रुं विध्यति' इत्यत्र 'प्रायः धनुषा विध्यति / धनुषा व्यद्धुमर्हति' इति अर्थः जायते, अतः अत्रापि असय सूत्रस्य प्रसक्तिः न वर्तते ।
index: 4.4.83 sutra: विध्यत्यधनुषा
विध्यत्यधनुषा - विध्यत्यधनुषा । तदिति द्वितीयान्तमनुवर्तते । अधनुषेति सप्तम्यर्थे तृतीया । धनुषोऽभावः-अधनुः, तस्मिन्सतीत्यर्थः । अर्थाऽभावे नञ्तत्पुरुषः,अर्थाभावे अव्ययीभावे अयं विकल्प्यते॑ इत्युक्तत्वात् । द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्याद्धनुष करणस्याऽभावे सतीत्यर्थः । न चेत्तत्रेति । तत्र=वेधने धनुः करणं न चेदित्यर्थः । पद्या इति । पादशब्दाद्यति 'पद्यत्यतदर्थे' इति पद्भावः । अधनुषेति किम् । धनुषा चोरं विध्यति देवदत्तः । अत्र चोराद्यन्न भवति । न चाऽसामर्थ्यादेवात्र यन्नेति वाच्यं, विध्यतीत्यस्य प्रत्ययार्थत्वेन प्रधानतया तस्य सापेक्षत्वेऽपि सामर्थ्याऽविधातात् । अन्यथाऔपगवो देवदत्त उपगुनप्तृत्वा॑ दित्यादौ अणादिकं न स्यात्, प्रत्ययार्थैकदेशस्य व्यधनस्य करणविशेषणित्यसापेक्षत्वाच्चेति शब्देन्दुशेखरे विस्तरः ।
index: 4.4.83 sutra: विध्यत्यधनुषा
पादौ विध्यन्ति पद्या इति । तदन्तीत्यर्थः ।'पद्यत्यतदर्थे इति पद्भावः । ऊरव्या इति । ठोर्गुणः' ,'वान्तो यि प्रत्यये' । नन्वसमर्थत्वादिति । सापक्षमसमर्थं भवतीत्यसामर्थ्यम्, प्रत्ययार्थो ह्यत्र बाह्यम्, करणं धनुरपेक्षते । ननु व्यधनमत्र सापेक्षम्, करणक्रिययोः सम्बन्धात्, व्यधनं च प्रधानम्, क्रियाप्रधानत्वादाख्यातस्य, भवति च प्रधानस्यं सापेक्षस्यापि वृत्तिः, यथा - राजपुरुषः शोभन इति ? भवतु क्रियाप्रधानमाख्यातम्, तद्धितस्तु स्वभावात्साधनप्रधानः । क्रिया तु गुणभूतेत्युक्तम् सा च धनुरपेक्षत इत्यसामर्थ्यम् । अनभिधानच्चेति । अत्रैकोपपत्यन्तरमनभिधानमेव दर्शयति । न हीति ।'धनुषा पद्यः' इत्युक्ते इत्थम्भूतलक्षणा सहयोगलक्षणा वा तृतीया गम्यते, न तु पादौ धनुषा विध्यतीत्ययं विवक्षितोऽर्थः । अवश्यं चैतदेवं विज्ञेयम् - असमर्थत्वादनभिधाअनाच्चात्र प्रत्ययो न भवतीति । यो हि मन्यते - ठधनुषेति प्रतिषेधात्प्रत्ययो न भवतिऽ इति, तस्य शर्कराभिः पादौ विद्ध्यति कण्टकैरूरू विद्ध्यतीत्यत्र प्रत्ययः स्यादेव ? एवं तर्हि विशेषोपलक्षणपरोऽत्र धनुषेति निर्देशः, न तु धनुषः करणत्वप्रतिषेधपर इत्यर्थः । धनुष्प्रतिषेधेनेति ।'नित्यं समासे' नुतरपदस्थस्यऽ इति षत्वमुपलक्षणत्वमेव प्रतिपादयति । यस्यामिति । तेनेह न भवति - चौरं विद्ध्यतीति । सम्भाव्यते हि प्रच्यवच्छेदनादिकायां चोरस्य व्यधनक्रियायां धनुषः करणत्वम् ॥