4-4-126 अश्विमान् अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि तद्वान् आसाम् उपधानः मन्त्रः इति इष्टकासु लुक् च मतोः
'उपधानः मन्त्रः आसाम्' (इति) 'अश्विमान्' इति इष्टकासु अण् , मतोः च लुक्
'अश्विमान् उपधानमन्त्रः आसाम् इष्टकानाम्' अस्मिन् अर्थे अश्विमत्-शब्दात् प्रथमासमर्थात् वेदेषु संज्ञायाः विषये अण्-प्रत्ययः कृतः दृश्यते, तथा च प्रक्रियायाम् मतुप्-प्रत्ययस्य लुक् अपि कृतः दृश्यते ।
अश्विशब्दो यस्मिन् मन्त्रेऽस्ति सोऽश्विमान्। अश्विमच्छब्दादण् प्रत्ययो भवति। पूर्वस्य यतोऽपवादः। अश्विमानुपधानो मन्त्र आसामिष्टकानामिति विगृह्याण् विधीयते, तत्र मतुपो लुकि कृत <<इनण्यनपत्ये>> ६.४.१६४ इति प्रकृतिभावः। आश्विनी॒रुपद॒धाति (श०ब्रा०८.२.१.१)॥
आश्विनीरुप दधाति ॥
'तद्वान् उपधानमन्त्रः आसाम् इष्टकानाम्' अस्मिन् अर्थे मतुप्-प्रत्ययान्तशब्दात् वेदेषु संज्ञायाः विषये <<तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः>> 4.4.125 अनेन सूत्रेण यत्-प्रत्यये प्राप्ते 'अश्विमान्' शब्दस्य विषये तद् बाधित्वा अण्-प्रत्ययः विधीयते । 'अश्विमान्' अयम् शब्दः 'अश्विन्' शब्दात् मतुप्-प्रत्ययं कृत्वा सिद्ध्यति । 'अश्विन्' शब्दः विद्यते यस्मिन् उपधानमन्त्रे सः अश्विमान् उपधानमन्त्रः । एतादृशः अश्विमान् उपधानमन्त्रः आसाम् इष्टकानाम् ताः च आश्विन्यः इष्टकाः । प्रक्रिया इयम् - अश्विमान् उपधानमन्त्रः आसाम् इष्टकानाम् = अश्विमान् + अण् → अश्विन् + अण् [मतुप्-प्रत्ययस्य लुक्] → अाश्विन् + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → आश्विन [ <<नस्तद्धिते>> 6.4.144 इत्यनेन टिलोपे प्राप्ते <<इनण्यनपत्ये>> 6.4.164 इति प्रकृतिभावः] स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्-प्रत्ययं कृत्वा 'अश्विनी' इति सिद्ध्यति । अश्विमान् उपधानमन्त्रः अस्याः इष्टकायाः सा अश्विनी इष्टका । वेदेषु प्रयोगः - शतपथब्राह्मणम् 8.2.1.11 - 'यद्वेवैता आश्विनीरुपदधाति । प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तस्य यदूर्ध्वं प्रतिष्ठाया अवाचीनं मध्यात्तदस्याश्विनावादायोत्क्रम्यातिष्ठताम्' ।
सोऽश्विमानिति । यद्यपि बहवोऽश्विमन्तो मन्त्राः'ध्रुवक्षितिः' इत्यादिकाः, तथापि सामान्यापेक्षमेकवचनम् ॥