4-4-98 तत्र साधुः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत्
'तत्र साधुः' (इति) संज्ञायाम् समर्थानाम् प्रथमात् परः यत्-प्रत्ययः
सप्तमीसमर्थात् साधुः (कुशलः / प्रवीणः / योग्यः) अस्मिन् अर्थे संज्ञायाः विषये यत्-प्रत्यय भवति ।
तत्रेति सप्तमीसमर्थात् साधुरित्येतस्मिन्नर्थे यत् प्रत्ययो भवति। सामसु साधुः सामन्यः। वेमन्यः। कर्मण्यः। शरण्यः। साधुरिह प्रवीणो योग्यो वा गृह्यते, नोपकारकः। तत्र हि परत्वात् <<तस्मै हितम्>> ५.१.५ इत्यनेन विधिना भवितव्यम्॥
अग्रे साधुः अग्र्यः । सामसु साधुः सामन्यः । येचाभावकर्मणोः <{SK1154}> इति प्रकृतिभावः । कर्मण्यः । शरण्यः ॥
अग्रे साधुः - अग्र्यः। सामसु साधुः सामन्यः। ये चाभावकर्मणोरिति प्रकृतिभावः। कर्मण्यः। शरण्यः॥
'साधुः' इत्युक्ते प्रवीणः, कुशलः, योग्यः । 'साधुः' अस्मिन् अर्थे सप्तमीसमर्थात् यत्-प्रत्ययः वर्तमानसूत्रेण विधीयते । यद्यपि अस्य सूत्रस्य प्रयोगः सर्वेभ्यः सप्तमीसमर्थेभ्यः भवितुमर्हति, तथापि 'संज्ञायाम्' इत्यस्य अनुवृत्तिः अत्र विद्यते, अतः केवलं विशिष्ट-प्रयोगेषु एव अस्य सूत्रस्य प्रसक्तिः अस्ति, न अन्यत्र । यथा - 1. सामसु साधुः = सामन् + यत् → सामन्य । [<<नस्तद्धिते>> 6.4.144 इत्यनेन टिलोपे प्राप्ते, तथा च <<अल्लोपोऽनः>> 6.4.134 इत्यनेन उपधा-अकारस्य लोपे प्राप्ते, <<ये चाभावकर्मणोः>> 6.4.168 इत्यनेन प्रकृतिभावः] सामकार्येषु प्रवीणः सः सामन्यः । एवमेव - 2. कर्मणि साधुः सः कर्मण्यः । 3. वेमनि (हत्यायाम्) साधुः सः वेमन्यः । 4. शरणे साधुः सः शरण्यः ।
<<तत्र साधुः>> - तत्र साधुः । सप्तम्यन्तात्साधुरित्यर्थे यत्स्यादित्यर्थः । अग्रय इति । अग्रे साधुरित्यर्थः । साधुरत्र प्रवीणो गृह्रते, नतु हितः, तत्रतस्मै हित॑मिति वक्ष्यमाणत्वात् ।
सामन्य इति ।'ये चाभावकर्मणोः' इति प्रकृतिभावः । प्रवीणः उ निपुणः, योग्यः उ समर्थः । तत्र हि परत्वादिति ।'तस्मै हितम्' इत्यनेन चतुर्थीसमर्थात्प्रत्ययो विधीयते, अनेन तु सप्तमीसमर्थातेन नात्र'विप्रतिषेधे परम्' इत्येतत्परत्वापरत्वं विवक्षितम्, कि तर्हि ? इष्टवाची परशब्दः, उपकारलक्षणे साधौ प्राक्क्रीतीयानामेवेष्टत्वात्'तस्मै हितम्' इत्यनेन विधिना भवितव्यमित्यर्थः । एतच्च संज्ञाधिकाराल्लभ्यते ॥