छन्दसो निर्मिते

4-4-93 छन्दसः निर्मिते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत्

Sampurna sutra

Up

index: 4.4.93 sutra: छन्दसो निर्मिते


'छन्दसः संज्ञायाम् निर्मिते' (इति) समर्थानाम् प्रथमात् परः यत् प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 4.4.93 sutra: छन्दसो निर्मिते


'छन्दसः (इच्छया) निर्मितः' अस्मिन् अर्थे संज्ञायाः विषये तृतीयासमर्थात् यत्-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.93 sutra: छन्दसो निर्मिते


प्रत्ययार्थसामर्थ्यलभ्या समर्थविभक्तिः। छन्दःशब्दात् तृतीयासमर्थान् निर्मिते इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। निर्मितः उत्पादितः। छन्दसा निर्मितः छन्दस्यः। छन्दसा इच्छया कृतः इत्यर्थः। इच्छापर्याय छन्दःशब्दः इह गृह्यते।

Siddhanta Kaumudi

Up

index: 4.4.93 sutra: छन्दसो निर्मिते


छन्दसा निर्मितं छन्दस्यम् । इच्छया कृतमित्यर्थः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.93 sutra: छन्दसो निर्मिते


'छन्दस्' इत्युक्ते इच्छा । 'इच्छया निर्मितः' अस्मिन् अर्थे तृतीयासमर्थात् संज्ञायाः विषये 'छन्दस्'शब्दात् यत्-प्रत्ययः भवति । छन्दसा निर्मितम् तत् छन्दस्यम् ।

ज्ञातव्यम् -

  1. प्रत्ययार्थमनुसृत्य अस्मिन् सूत्रे 'तृतीयासमर्थ'ग्रहणम् क्रियते । अतः काशिकाकारः वदति - 'प्रत्ययार्थसामर्थ्यलभ्या समर्थविभक्तिः' ।

  2. अत्र 'संज्ञायाम्' इति अनुवर्तते, अतः विशिष्ट-अर्थेषु एव 'छन्दस्य' शब्दस्य प्रयोगः भवति, सर्वत्र न । यथा, छन्दस्या वाक् ।

  3. यद्यपि 'छन्दस्' शब्दस्य सामान्यरूपेण 'वेदः' तथा 'गानवृत्तम्' एतौ द्वौ अर्थौ स्तः, तथापि अस्मिन् सूत्रे 'छन्दस्' शब्दस्य अर्थः 'इच्छा' इति गृह्यते ।

Balamanorama

Up

index: 4.4.93 sutra: छन्दसो निर्मिते


छन्दसो निर्मिते - छन्दसो निर्मिते । छन्दश्शब्दात्तृतीयान्तान्निर्मितेऽर्थे । यदित्यर्थः । इच्छयेति । छन्दःशब्द इच्छावाचीति भावः ।छन्दः पद्येऽभिलाषे चे॑त्यमरः ।

Padamanjari

Up

index: 4.4.93 sutra: छन्दसो निर्मिते


प्रत्ययार्थसामर्ध्यं लभ्यते इति । निर्माणे च्छन्दसः करणत्वात् । इष्टपर्यायश्चन्दः शब्दो गृह्यते इति न वेदवचनः, नापि त्रिष्टुअबादिवचनः । एतच्च संज्ञाधिकाराल्लभ्यते । यद्यपि स्वच्छन्दतो हि वचसांप्रवृत्तिः,'च्छन्दानुवृत्तिदुत्साध्या' इत्यादावकरान्तश्च्छन्दशब्द इच्छापर्यायः, तथापि तस्यैव धातोरसुन्नन्तस्येच्छावाचित्वमविरुद्धं चेति मन्यते ॥