3-2-182 दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने ष्ट्रन्
<<दाप् लवने>> <<णीञ् प्रापणे>> <<शसु हिंसायाम्>> <<यु मिश्रणे>> <<युजिर् योगे>> <<ष्टुञ् स्तुतौ>> <<तुद व्यथने>> <<षिञ् बन्धने>> <<षिच क्षरणे>> <<मिह सेचने>> <<पत्ऌ गतौ>> <<दंश दशने>> <<णह बन्धने>> एतेभ्यो धातुभ्यःकरणे कारके ष्ट्रन् प्रत्ययो भवति। दान्त्यनेनेति दात्रम्। नेत्रम्। शस्त्रम्। योत्रम्। योक्त्रम्। स्तोत्रम्। तोत्त्रम्। सेत्रम्। सेक्त्रम्। मेड्ढ्रम्। पत्त्रम्। दंष्ट्रा। अजादित्वात् टाप्, न ङीष्। दंशेरनुनासिकलोपेन निर्देशो ज्ञापनार्थः — क्ङितोऽन्यस्मिन्नपि प्रत्यये नलोपः क्वचिद् भवतीति। तेन ल्युट्यपि भवति। दशनम्। नद्ध्री॥
दावादेः ष्ट्रन् स्यात्करणेऽर्थे । दान्त्यनेन दात्रम् । नेत्रम् ॥
दाबादेः ष्ट्रन् स्यात्करणेर्थे । दात्यनेन दात्रम्। नेत्रम्॥
<<दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे>> - दाम्नी । दाप्, नी, शस, यु , युज, स्तु, तुद, सि, सिच, मिह, पत, दश , नह एषां त्रयोदशानां द्वन्द्वः । 'दाप् लवने' इत्यस्य पकारस्य स्थाने 'यरोऽनु' इति कृतमकारस्य निर्देशः । अत्र शसेः पतेश्च त्रप्रत्यये इटमाशङ्क्याऽऽह —
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे॥ दाप् लवन इति।'दैप् शोधने' इत्यस्य त्वग्रहणम्, अनभिधानात्। युजिर्योग इति।'युज समाधौ' इत्यस्य तु पूर्ववदेवाग्रहणम्, अनभिधानात्। युजिर्योग इति।'युज समाधौ' इत्यस्य तु पूर्ववदेवाग्रहणम्। करणे कारके इति। उपपदं तु करणं न भवति, अजादिषु दंष्ट्राशब्दस्य पाठात्। अत एव च पाठात्सूत्रेऽनुनासिकलोपेन निर्द्देशेऽपि ष्ट्रनि न भवति ल्युट।लेव तु भवति। योऽत्र सेट् ततः'तितुत्र' इत्यादिनेट्प्रतिषेधः॥