6-4-133 श्वयुवमघोनाम् अतद्धिते असिद्धवत् अत्र आभात् भस्य
श्व-युव-मघोनाम् भस्य अङ्गस्य अतद्धिते सम्प्रसारणम्
श्वन् , युवन्, मघवन् -एतेषाम् भसंज्ञकस्य अङ्गस्य तद्धितभिन्ने प्रत्यये परे सम्प्रसारणम् भवति ।
The भसंज्ञक अङ्ग of श्वन् , युवन् and मघवन् undergoes सम्प्रसारणम् when followed by a प्रत्यय which is not a तद्धितप्रत्यय.
श्वन् युवन् मघवन् इत्येतेषामङ्गानामतद्धिते प्रत्यये परतः संप्रसारणं भवति। शुनः। शुना। शुने। यूनः। यूना। यूने। मघोनः। मघोना। मघोने। अतद्धित इति किम्? शौवनं मांसम्। यौवनं वर्तते। माघवनः स्थालीपाकः। शुनो विकारे <<प्राणिरजतादिभ्योऽञ्>> ४.३.१५४, द्वारादित्वाद् ७.३.४ ऐजागमः। श्वादीनामेतत् संप्रसारणं नकारान्तानामिष्यते। इह न भवति — युवतीः पश्य। मघवतः। मघवता। मघवते। तदर्थमुत्तरत्र योगविभागं कुर्वन्ति। अल्लोपः। अनः। अन इत्युभयोः शेष इति॥
अन्नन्तानां भसंज्ञकानामेषामतद्धिते परे संप्रसारणं स्यात् । संप्रसारणाच्च <{SK330}> । आद्गुणः <{SK69}> । मघोनः । अन्नन्तानां किम् । मघवतः । मघवता । स्त्रियां मघवती । अतद्धिते किम् । माघवनम् । मघोना । मघवभ्यामित्यादि । शुनः । शुना । श्वभ्यामित्यादि । युवन् शब्दे वस्योत्वे कृते ॥
अन्नन्तानां भानामेषामतद्धिते संप्रसारणम्। मघोनः। मघवभ्याम्। एवं श्वन्, युवन्॥
किं नाम भसंज्ञकः? <<यचि भम्>> 1.4.18 इत्यनेन अजादि यकारादि वा प्रत्यये परे अङ्गस्य भसंज्ञा भवति । वर्तमानसूत्रेण श्वन् (=श्वानः), युवन् (= युवक), मघवन् (= इन्द्रः) एतेषाम् भसंज्ञकस्य अङ्गस्य सम्प्रसारणम् भवति । परन्तु अग्रे तद्धित-प्रत्ययः अस्ति चेत् न भवति । किम् नाम सम्प्रसारणम्? <<इग्यणः सम्प्रसारणम्>> 1.1.45 इत्यनेन उच्यते - यण्-वर्णस्य स्थाने इक्-वर्णस्य आदेशः सम्प्रसारणम् नाम्ना ज्ञायते । अतः एतेषां शब्दानाम् यण्-वर्णस्य स्थाने अनेन सूत्रेण सम्प्रसारणम् भवति । यथा - 1) श्वन् शब्दस्य तृतीया-एकवचनस्य रूपसिद्धौ - श्वन् + टा [तृतीयैकवचनस्य प्रत्ययः] → श् व् अ न् + टा [अत्र वकारः इति यण् वर्णः अस्ति । अतः - ] → श्उअन् + आ [<<श्वयुवमघोनामतद्धिते>> 6.4.133 इति श्वन्-इत्यस्य सम्प्रसारणम् । वकारस्य सम्प्रसारणमुकारः। ] → श्उन + आ [<<सम्प्रसारणाच्च>> 6.1.108 इति उकार-अकारयोः एकः पूर्वरूपः उकारः] → शुना । 2) युवन् शब्दस्य चतुर्थी-एकवचनस्य रूपसिद्धौ - युवन् + ङे [चतुर्थ्येकवचनस्य प्रत्ययः] → य् उ व् अ न् + ए [अत्र यकारः तथा वकारः द्वौ यण्-वर्णौ स्तः । एतयोः वकारः प्रत्ययस्य निकटतरः, अतः अग्रिमसूत्रेण तस्य सम्प्रसारणम् भवति ।] → य् उ उ अ न् + ए [<<श्वयुवमघोनामतद्धिते>> 6.4.133 इति सम्प्रसारणम् । वकारस्य सम्प्रसारणमुकारः। अग्रे पुनः यकारस्य सम्प्रसारणम् <<न सम्प्रसारणे सम्प्रसारणम्>> 6.1.37 इत्यनेन निषिध्यते ।] → य् उ उ न् ए [<<सम्प्रसारणाच्च>> 6.1.108 इति उकार-अकारयोः एकः पूर्वरूपः उकारः ] → यूने [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] 3) मघवन्-शब्दस्य षष्ठी-एकवचनस्य रूपसिद्धौ- → मघवन् + ङस् [षष्ठी-एकवचनस्य प्रत्ययः] → मघउअन् + अस् [<<श्वयुवमघोनामतद्धिते>> 6.4.133 इति सम्प्रसारणम् । वकारस्य सम्प्रसारणमुकारः। ] → मघउन् + अस् [<<सम्प्रसारणाच्च>> 6.1.108 इति उकार-अकारयोः एकः पूर्वरूपः उकारः ] → मघोनः [<<आद्गुणः>> 6.1.87 इति गुण-एकादेशः] इदम् सम्प्रसारणम् तद्धितप्रत्यये परे न भवतीति स्मर्तव्यम् । यथा - 1. 'अतिक्रान्तः श्वानम्' (surpasses a dog in certain quality, e.g. speed of running) अस्मिन् अर्थे <!अत्यादयः क्रान्ताद्यर्थे द्वितीयया!> इत्यनेन प्रादिसमासे कृते <<अतेः शुनः>> 5.4.96 इत्यनेन 'टच्' इति समासान्तप्रत्ययः भवति । अग्रे 'अति + श्वन् + टच्' इति स्थिते <<नस्तद्धिते>> 6.4.144 इत्यनेन टिलोपं कृत्वा 'अतिश्व' इति शब्दः सिद्ध्यति । अत्र 'टच्' इति प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अत्र वर्तमानसूत्रेण सम्प्रसारणं न भवति । 2. 'यूनः भावः' इत्यस्मिन् अर्थे <<हायनान्तयुवादिभ्योऽण्>> 5.1.130 इत्यनेन युवन्-शब्दस्य अण् प्रत्ययः भवति । युवन् + अण् इति स्थिते <<तद्धितेष्वचामादेः>> 7.2.117 इत्यनेन आदिवृद्धिं कृत्वा 'यौवन' इति रूपं सिद्ध्यति । अत्र सम्प्रसारणम् न भवति, यतः अण्-इति तद्धितप्रत्ययः अस्ति । 3. <<साऽस्य देवता>> 4.2.24 अस्मिन् अर्थे मघवन् शब्दस्य अण प्रत्ययः भवति । मघवन् + अण् इति स्थिते <<तद्धितेष्वचामादेः>> 7.2.117 इत्यनेन आदिवृद्धिं कृत्वा 'माघवन' इति रूपं सिद्ध्यति । अत्र सम्प्रसारणम् न भवति, यतः अण्-इति तद्धितप्रत्ययः अस्ति । ज्ञातव्यम् - अस्मिन् सूत्रे <<अल्लोपोऽनः>> 6.4.134 इति-अग्रिमसूत्रात् 'अनः' इत्यस्य अपकर्षः अपि क्रियते । 'अन्-येषामन्ते, तादृशानाम् श्वन् , युवन्, मधवन् एतेषाम् शब्दानाम् एव सम्प्रसारणम् भवति' इति तस्य अर्थः भवति । एतादृशम् सम्प्रसारणम् 'युवती, मघवती' एतादृशानाम् शब्दानाम् विषये मा भूत्, एतत् स्पष्टीकर्तुमयमपकर्षः स्थाप्यते ।
<<श्वयुवमघोनामतद्धिते>> - शसादावचि मघवन् अस् इत्यादि स्थिते 'अल्लोपोऽनः' इति प्राप्ते-आयुवमघोनाम् । आआ च, युवा च, मघवा चेति द्वन्द्वः ।वसोः संप्रसारण॑मित्यतः संप्रसारणमित्यनुवर्तते ।भस्ये॑त्यधिकृतम् । 'अल्लोपोऽनः' इत्यतोऽन इत्यपकृष्यते । तच्च आयुवमघोनां प्रत्येकं विशेषणं, तदन्तविधिः । फलितमाह — अन्नन्तानामित्यादि ।इग्यणः संप्रसारणम् इति वकारस्य संप्रसारणमुकारः । मथ उ अन् इति स्थिते पूर्वरूपमुक्तं स्मारयति — संप्रसारणाच्चेति । णघ उ न् इति स्थिते गुणं स्मारयति — आद्गुण इति । अन्नन्तानां किमिति । आयुवमघोनामन्नन्तत्वाऽव्यभिचारात्किमर्थमन्नन्तत्वविशेषणम् । मघवन्शब्दे नकारस्य त्रादेशपक्षेऽपि एकदेशविकृतस्यानन्यतयाऽन्नन्तत्वसत्त्वादिति प्रश्नः । मघवत इति । त्रादेशपक्षे मघवन्शब्दे संप्रसारणनिवृत्त्यर्थमन्नन्तत्वविशेषणम् । यद्यप्येकदेशविकृतस्यानन्यतया अन्नन्तत्वमस्त्येव, तथापि विशेषणसामर्थ्यात् श्रूयमाणनकारान्तस्यैव संप्रसारणमित्याहुः । स्त्रियां मघवतीति । मघवतः स्त्री मघवती, पुंयोगेन स्त्रियां वृत्तौउगितश्चे॑ति ङीप् । अत्राप्यन्नन्तत्वविशेषणान्न संप्रसारणमिति भावः । अत्रउगिदचा॑मिति नुम् तु न, ङ#ईपा व्यवधानेन तान्तस्य उगितः सर्वनामस्थानपरकत्वाऽभावात् । लिङ्गविशिष्टपरिभाषा तु नेह प्रवर्तते, विभक्तौ लिङ्गविशिष्टाऽग्रहणमित्युक्तेरिति भावः । माघवनमिति । 'साऽस्य देवता' इति मघवन्शब्दादणि आदिवृद्धिः । अत्राऽणस्तद्धितत्वात्तस्मिन् परे न संप्रसारणमिति भावः । मघवभ्यामिति । भ्यामादौ हलि नलोप इति भावः । इत्यादीति । मघोने । मघोनः २ । मघोनोः । मघोनाम् । मघोनि । आन्शब्दः प्रायेण राजवत् । शसादावचिआउयुवे॑ति संप्रसारणं वकारस्य उकारः । शु अन् इति स्थितेसंप्रसारणाच्चे॑ति पूर्वरूपमिति मत्वाह-शुनः शुनेति । इत्यादीति । शुने । शुनः २ । शुनोः । शुनाम् । शुनि । युवन्शब्दोऽपि प्रायेण राजवत् । शसादावचि विशेषमाह-युवन्शब्द इति । युवन् अस् इत्यादिस्थितेआयुवे॑ति वकारस्य संप्रसारणे उकारे यु उ अन् इति स्थितेसंप्रसारणांच्चे॑ति पूर्वरूपे यु उ न् इति स्थिते सवर्णदीर्घे यून इत्यादिरूपेषु सिद्धेषु यकारस्यापि संप्रसारणे प्राप्त इत्यर्थः । लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरित्यस्य तु नायं विषयः, कार्याश्रयवर्णभेदेन लक्ष्यभेदात् । अन्यथा संस्कर्तेत्यादौअनचि चे॑त्यादेरसकृत्प्रवृत्त्यनुपपत्तेरितिभावः ।
शौवमिति । नस्तद्धिते इति टिलोपः । यौवनमिति । यूनो भाव इति हायनान्तयुवादिभ्योऽण्, अन् इति प्रकृतिभावः । मघवा देवतास्य माघवनः । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणाद् युवतिशब्दस्यापि सम्प्रसारणप्रसङ्गः, तथा मघवत इत्यादौ मघवा बहुलम् इति त्रादेशो कृते थएकदेशविकृतस्यानन्यत्वात्प्रसङ्गः इत्याह - 'स्वादीनामित्यादि । कथमेतल्लभ्यते इत्याह - एतदथमिति । अन इत्युभयोः शेष इति । न त्वनन्तरस्यैव, योगविभागसामर्थ्यात् । न चैषमपि मघवतेत्यादावेकदेशविकृतस्यानन्यत्वात्प्रसङ्गः, सामान्यातिदेशे विशेषानतिदेशात् ॥