1-1-47 मित् अचः अन्त्यात् परः
index: 1.1.47 sutra: मिदचोऽन्त्यात्परः
मित् अन्त्यात् अचः परः
index: 1.1.47 sutra: मिदचोऽन्त्यात्परः
मित्-आगमः आगमिनः अन्तिमस्वरात् अनन्तरम् विधीयते ।
index: 1.1.47 sutra: मिदचोऽन्त्यात्परः
A मित्-आगम is attached after the last स्वर of its substrate.
index: 1.1.47 sutra: मिदचोऽन्त्यात्परः
अचः इति निर्धारणे षष्ठी । जातौ च इदम् एकवचनम् । अचां संनिविष्टानामन्त्यादचः परो मित् भवति । स्थानेयोग प्रत्यय परत्वस्य अयमपवादः । विरुणद्धि, मुञ्चति, पयांसि । मित्प्रदेशाः रुधादिभ्यः श्नम् 3.1.78 इत्येवमादयः । <!मस्जेरन्त्यात् पूर्वं नुममिच्छन्त्यनुषङ्गसंयोगादिलोपार्थम्!> - मग्नः, मग्नवान्, मङ्क्ता, मङ्क्तुम् ॥
index: 1.1.47 sutra: मिदचोऽन्त्यात्परः
चेति निर्धारणे षष्ठी । अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात् ॥
index: 1.1.47 sutra: मिदचोऽन्त्यात्परः
अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात्। उपधादीर्घः। ज्ञानानि। पुनस्तद्वत्। शेषं पुंवत्॥ एवं धनवनफलादयः॥
index: 1.1.47 sutra: मिदचोऽन्त्यात्परः
संस्कृतव्याकरणे आगमानाम् प्रकारत्रयम् विद्यते — टित्-आगमाः, कित्-आगमाः, मित्-आगमाः इति । एतेभ्यः मित्-आगमस्य स्थानम् प्रकृतसूत्रेण निर्दिश्यते । मित्-आगमः यस्य शब्दस्य विधीयते तस्य शब्दस्य अन्तिमस्वरात् अनन्तरम् संस्थाप्यते— इति प्रकृतसूत्रस्य अर्थः । यदि शब्दे इत्संज्ञकस्वराः सन्ति, तर्हि तेषाम् लोपं कृत्वा एव अन्तिमस्वरस्य निर्णयः अत्र क्रियते । उदाहरणे एते —
कपिँ (चलने, भ्वादिः, <{1.435}>)
→ कप् [धातौ विद्यमानस्य इकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति इत्संज्ञक-इकारस्य लोपः]
→ क नुम् प् [इदितो नुम् धातोः 7.1.58 इति सूत्रेण इदित्-धातोः 'नुम्' इति आगमः भवति । अयम् आगमः मित्-अस्ति, अतः अयम् धातोः अन्तिमस्वरात् अनन्तरम् (इत्युक्ते, ककारोत्तरात् अकारात् अनन्तरम्) विधीयते ।]
→ क न् प् [मकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः । नकारोत्तरः उकारः उच्चारणार्थः ।अतः तस्य अपि लोपः भवति ।]
→ कन्प् + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति अनीयर्-प्रत्ययः]
→ कम्पनीय [नश्चापदान्तस्य झलि 8.3.24 इति नकारस्य अनुस्वारः । अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः मकारः]
अनडुह् + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ अनडु आम् ह् + स् [चतुरनडुहोरामुदात्तः 7.1.98 इति आम्-आगमः । अयम् आगमः मित्-अस्ति, अतः अयम् धातोः अन्तिमस्वरात् अनन्तरम् (इत्युक्ते, ककारोत्तरात् अकारात् अनन्तरम्) विधीयते ।]
→ अनडु आ ह् + स् [मकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः]
→ अनडु आ नुम् ह् + स् [ सुँ-प्रत्यये परे आगमः सावनडुहः 7.1.82 इत्यनेन अङ्गस्य नुम्-आगमः भवति । अयम् अपि मित्-आगमः, अतः अयम् अङ्गस्य अन्तिम-स्वरात् अनन्तरम् विधीयते । अत्र अङ्गस्य अन्तिमः स्वरः आकारः अस्ति (न हि उकारः), अतः अयम् आगमः आकारात् अनन्तरम् विधीयते ।]
→ अनडु आ न् ह् + स् [मकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा , तस्य लोपः 1.3.9 इति लोपः । नकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते]
→ अनडु आ न् ह् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँलोपः]
→ अनड्वान् ह् [इको यणचि 6.1.77 इति यणादेशः]
→ अनड्वान् [संयोगान्तस्य लोपः 8.2.23 इति हकारलोपः]
रुधादिगणस्य धातुभ्यः सार्वधातुकप्रत्यये परे रुधादिभ्यः श्नम् 3.1.78 इत्यनेन
रुधिँर् (आवरणे, रुधादिः, <{7.1}>)
→ रुध् [<!इँर इत्संज्ञा वाच्या!> इति इँर्-इत्यस्य इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः]
→ रुध् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ रुध् + तिप् [तिप्तस्झि.. 3.1.78 इत्यनेन प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ रु श्नम् ध् + ति [रुधादिभ्यः श्नम् 3.1.78 इति श्नम्-प्रत्ययः । अयम् प्रत्ययः मित्त्वात् मिदचोऽन्त्यात्परः इत्यनेन अन्त्यात् अचः परः विधीयते ।]
→ रु न ध् + ति [शकारस्य लशक्वतद्धिते 1.3.8 इति इत्संज्ञा, मकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । द्वयोः अपि तस्य लोपः 1.3.9 इति लोपः ।]
→ रु न ध् + धि [झषस्तथोर्धोऽधः 8.2.40 इति धत्वम्]
→ रु ण ध् + धि [अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इति णत्वम्]
→ रुणद्धि [झलां जश् झशि 8.4.53 इति जश्त्वम्]
मस्ज्-धातोः झलादि प्रत्यये परे मस्जिनशोर्झलि 7.1.60 इत्यनेन नुमागमः विधीयते । अयम् नुमागमः अन्त्यात् स्वरात् अनन्तरम् न विधीयते परन्तु अन्तिम-वर्णात् पूर्वम् विधीयते । अस्मिन् विषये वार्त्तिककारः ब्रूते - <!मस्जेरन्त्यात् पूर्वं नुममिच्छन्त्यनुषङ्गसंयोगादिलोपार्थम्!> । इत्युक्ते, यदि प्रक्रियायाम् प्रकृतसूत्रम् उपयुज्य अन्तिम-स्वरात् अनन्तरम् नुमागमः विधीयते, तर्हि कित्/ङित्-प्रत्यये परे अस्य धातोःसाधुरूपं नैव सिद्ध्यति —
मस्ज् + क्त
→ म नुम् स् ज् + त [मस्जिनशोर्झलि 7.1.60 इति झलादिप्रत्यये परे नुमागमः । मिदचोऽन्त्यात्परः 1.1.47 इत्यनेन अन्त्यात् अचः परः अयं विधीयते]
→ म न् स् ज् + त [इत्संज्ञालोपः]
→ म न् ज् + त [स्कोः संयोगाद्योरन्ते च 8.2.29 इति सकारलोपः]
अत्र सकारलोपस्य असिद्धत्वात् अनिदितां हल उपधायाः क्ङिति 6.4.24 इति नकारलोपः नैव सम्भवति, येन 'मग्न' इति इष्टरूपम् अपि न सिद्ध्यति ।
अत्र साधुरूपसिद्ध्यर्थम् आदौ नकारलोपः (अनुषङ्गलोपः) ततश्च संयोगादौ विद्यमानस्य सकारस्य लोपः इष्यते । अतएव अत्र <!मस्जेरन्त्यात् पूर्वं नुममिच्छन्त्यनुषङ्गसंयोगादिलोपार्थम्!> इति वार्त्तिकं स्वीकृत्य मस्ज्-धातोः विहितः नुमागमः अन्तिम-वर्णात् पूर्वम् विधीयते । प्रक्रिया इयम् —
टुमस्जोँ (शुद्धौ, तुदादिः, <{6.151}>)
→ मस्ज् [इत्संज्ञालोपः]
→ मस्ज् + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययः]
→ मस् नुम् ज् + त [मस्जिनशोर्झलि 7.1.60 इति झलादिप्रत्यये परे नुमागमः । <!मस्जेरन्त्यात् पूर्वं नुममिच्छन्त्यनुषङ्गसंयोगादिलोपार्थम्!> इति वार्त्तिकेन अयम् अन्तिम-वर्णात् पूर्वम् विधीयते ।]
→ मस् न् ज् + त [इत्संज्ञालोपः]
→ मस् ज् + त [अनिदितां हल उपधायाः क्ङिति 6.4.24 इति नकारलोपः]
→ मज् + त [स्कोः संयोगाद्योरन्ते च 8.2.29 इति सकारलोपः]
→ मग् + त [चोः कुः 8.2.30 इति कुत्वम्]
→ मग् + न [ओदितश्च 8.2.45 इति निष्ठातकारस्य नकारः]
→ मग्न
अनेन प्रकारेण अत्र
index: 1.1.47 sutra: मिदचोऽन्त्यात्परः
मिदचोऽन्त्यात्परः - मिदचोऽन्त्यात्परः । मकार इत् यस्य स मित् अन्त्यादचः परो भवतीत्यर्थे 'शेमुचादीनाम्' इत्यादाविदं न प्रवर्तेत,तत्रान्त्यस्याचोऽभावादत आह — अचेति षष्ठन्तमिति ।यतश्च निर्धारणमित्यनेने॑ति शेषः । 'अच' इत्येकत्वमविवक्षितं, तदाह — अचां मध्य इत्यादिना । अन्तावयव इति । एतच्च आद्यान्तावित्यतोऽन्तग्रहणानुवृत्त्या लभ्यते, आद्यन्तशब्दैकदेशस्यान्तशब्दस्य तन्मात्रे स्वरितत्वप्रतिज्ञाबलेनाऽनुवृत्तिसंभवात् । आदिग्रहणमनुवत्र्य परादित्वाभ्युपगमे तु वारीणीति बहुवचने सर्वनामस्थाने चासंम्बुद्धौइति नान्ताङ्गस्य विहितो दीर्घो न सिध्येत् । अभक्तत्वे तु वहंलिह इत्यत्र 'वहाभ्रे लिहः' इति खशि,अरुर्द्विष॑दिति मुमि तस्य 'मोऽनुस्वारः' इति मान्तस्य पदस्य विहितोऽनुस्वारो न स्यात् । वस्तुतस्तु यस्य समुदायस्य मिद्विहितस्तस्याऽचां मध्ये योऽन्त्यस्तस्य समुदायस्याऽन्तावयवय इति व्याख्येयम् । अत एव 'समुदायभक्तो मित्' इति भाष्यं सङ्गच्छते । समासाश्रयविधौ मूकारश्च वक्ष्यति — ॒अङ्गस्य नुम्विधानात्तद्भक्तो हि नु॑मिति ।
index: 1.1.47 sutra: मिदचोऽन्त्यात्परः
'अचः' इति निर्धारणे षष्ठी, जातावेकवचनमित्याह - अचामित्यादि । अत्रापि जातौ बहुवचनम् । यदि पुनरन्त्यादित्यानया समानाधिकरणा पञ्चमी स्यात्, ततो हरन्तेष्वस्याः प्रवृत्तिर्न स्यात् । ततश्च ङुपंसकस्य झलचः' इति नुमिहैवान्त्यात्परः स्यात् कुण्डानीति, यशांसीत्यत्र त्वलोऽन्त्यस्य स्यात्; एवं 'शे मुचादीनाम्' इत्यादौ । ततश्च तेषु मित्वमनर्थकं स्यादिति भावः । समानजातीयस्यैव निर्द्धारणं भवतीत्यन्त्योऽप्यजेव विज्ञायत इत्याह-अन्त्यादचः पर इति । पुरस्तादपवादन्यायेन स्थानेयोगत्वस्यैवायमपवादो युक्त इत्या शङ्क्याह - रथानेयोगप्रत्ययपरत्वस्यापवाद इति । स्थानेयोगश्च प्रत्ययपरत्वं चेति समाहारे द्वन्द्वः । 'तृणहः 'इति निर्देशात् श्नमो मकारो न श्रवणार्थः, अतो मित्करणसामर्थ्यात् प्रत्ययपरत्वस्याप्ययमपवादौ युक्त इति भावः । मस्जेरित्यादि । 'मस्जिनशोर्झलि' तैति नुम् यद्यन्त्यादचः परः स्यात् ततो निष्ठायां मन्स्ज इति स्थिते श्कोस्संयोगाद्योरन्ते च ' इति सलोपो न स्यात् । वहूनां समुदाये समुदायस्यैका संयोगसंज्ञा न द्वयोर्द्वयोरित्यस्मिन् पक्षे सत्यपि वा सलोपे तस्यासिद्धत्वादनुपधानकार इति 'अनिदिताम्' इत्यनुषङ्गलोपए न स्यात् । नकारस्योपधायाः ' अनुषङ्गः' इति पूर्वाचार्याणां संज्ञा । तस्माज्जकारात्पूर्वो नुम् कर्तव्य इत्यर्थः । मग्न इति । 'ओदितश्च' इति निष्ठानत्वम्, तस्यासिद्धत्वात्कुत्वम् । अत्र 'आद्यन्तौ टकितौ' इत्यतः 'अन्त' इत्यनुवृतौ पूर्वस्य सङ्घातस्य मिदन्तावयवो भवति । 'आदि' इत्यनुवृतौ तत्र सन्निहितस्य परस्यादिर्भवति । अथोभयं निवृतं ततोऽभक्त इति त्रयः पक्षाः । तत्राभक्ते - ताता पिण्डानामिति नलोपो न स्यात् । तच्छब्दात् 'जश्शसोः शिः' तानि 'शेश्च्छन्दसि बहुलम्' इति शेर्लुक् । वहंलिहः, अर्भ्रलिहः-'वहाभ्रे लिहः' इति खशि 'अरुर्द्विषदजन्तस्य मुम' इति मुम् । अस्यापदान्तत्वादनुस्वारो न स्यात् । त्रपुणी इत्यत्र परत्वान्नित्यत्वाच्च नुमि कृते तेन व्यवधानादौङः शीभावो न स्यात् । अथ परादिः-त्रपुणे, 'घेर्ङिति' इति गुणः प्राप्नोति, अतिसखीनि-शख्युरसम्बुद्धौ' इति णिद्वद्भावे 'अचो ञ्णिति' इति वृद्धिः प्राप्नोति । त्रपुणि, 'अच्च घेः', शुचीनि, ङोपधायाः' इति दीर्घत्वं न प्राप्नोति । ताता पिण्डानामिति नलोपः वहंलिह इत्यनुस्वारः । तस्मात्पूर्वान्त एवायं मिदेषितव्यः ॥