6-3-63 ङ्यापोः सञ्ज्ञाछन्दसः बहुलम् उत्तरपदे ह्रस्वः
ङ्यन्तस्याबन्तस्य च संज्ञाछन्दसोर्बहुलं ह्रस्वो भवति। ङ्यन्तस्य संज्ञायाम् — रेवतिपुत्रः। रोहिणिपुत्रः। भरणिपुत्रः। न च भवति — नान्दीकरः। नान्दीघोषः। नान्दीविशालः। ङ्यन्तस्य छन्दसि — कुमारिदा। उर्विदा। न च भवति — फाल्गुनीपौर्णमासी। जगतीछन्दः। आबन्तस्य संज्ञायाम् — शिलवहम्। शिलप्रस्थम्। न च भवति — लोमकागृहम्। लोमकाषण्डम्। आबन्तस्य छन्दसि — अजक्षीरेण जुहोति। ऊर्ण॑म्रदाः पृथि॒वी दक्षि॑णावत (शौ० सं० १८.३.४९)। न च भवति — ऊर्णासू॒त्रेण॑ क॒वयो॑ वयन्ति (मा० सं० १९.८०)॥
रेवतिपुत्रः । अजक्षीरम् ॥
<<ङ्यापोः संज्ञाछन्दसोर्बहुलम्>> - ङ्यापोः ।उत्तरपदे ह्रस्वः स्या॑दिति शेषः । रेवतिपुत्र इति । कस्यचित्संज्ञेयम् । अथ छन्दस्युदाहरति — अजक्षीरमिति । अजायाः क्षीरमिति विग्रहः ।परमं वा एतत्पयो यदजक्षीर॑मिति तैत्तिरीये ।
बहुलग्रहणात्कवचिटुअतरपदेऽपि भवति - अनुगायन्ति नयो गभिणय इति । एवं कृत्वा फाल्गुनीपौर्णमासीति प्रत्युदादाहरणोपपतिः, कर्मधारये पुंवद्भावः प्राप्नोति । ऊर्णम्रदा इति । ऊर्णावन् म्रदीयसीति यावत्, छान्दस ईयसीशब्दस्यारारः । तैतिरीयास्तु दीर्घमधीयते - ऊर्णाम्रदसं चास्तृणामीति ॥