4-1-1 ङि आप् प्रातिपदिकात् प्रत्ययः परः च आद्युदात्तः च
ङ्याप्प्रातिपदिकात्
इतः परम् पञ्चमाध्यायस्य समाप्तिपर्यन्तं ये केऽपि प्रत्ययाः वक्ष्यन्ते, ते सर्वे ङ्यन्तात् आबन्तात् प्रातिपदिकात् च भवन्ति ।
This is an अधिकार, and all the प्रत्ययाः told in this अधिकार are to be applied to ङ्यन्त, आबन्त and प्रातिपदिक words.
अधिकारोऽयम्। यदित ऊर्ध्वमनुक्रमिष्याम आ पञ्चमाध्यायपरिसमाप्तेर्ङ्याप्प्रातिपदिकादित्येवं तद् वेदितव्यम्। स्वादिषु कप्पर्यन्तेषु प्रकृतिरधिक्रियते। ङीब्ङीष्ङीनां सामान्येन ग्रहणं ङीति, टाप्डाप्चापामाबिति, प्रातिपदिकमुक्तम् <<अर्थवद्०>> १.२.४५ <<कृत्तद्धितसमासाश्च>> १.२.४६ इति। तेषां समाहारनिर्देशो ङ्याप्प्रातिपदिकादिति। यद्यपि च प्रत्ययपरत्वेन पारिशेष्यादियमेव प्रकृतिर्लभ्यते, तथापि वृद्धावृद्धावर्णस्वरद्व्यज् — लक्षणप्रत्ययविधौ तत्संप्रत्ययार्थं ङ्याप्प्रातिपदिकग्रहणं कर्तव्यम्। इतरथा हि समर्थविशेषणमेतत् स्यात्। अथ ङ्याब्ग्रहणं किम्, न <<प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति>> (परि० ७१) इत्येव सिद्धम्? नैदस्ति। स्वरूपविधिविषये परिभाषेयम् — प्रातिपदिकस्वरूपग्रहणे सति लिङ्गविशिष्टग्रहणं भवतीति। तथा च <<युवा खलतिपलितवलिनजरतीभिः>> २.१.६७ इति ज्ञापकमस्यास्तादृशमेव। किं च, तदन्तात् तद्धितविधानार्थं ङ्याब्ग्रहणम् — कालितरा, हरिणितरा, खट्वातरा, मालातरेति। विप्रतिषेधाद्धि तद्धितबलीय — स्त्वं स्यात् ॥
ङ्यन्तात् आबन्तात् प्रातिपदिकात् चेति आपञ्चमपरिसमाप्तेः अधिकारः । <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इत्येव सिद्धे ङ्याब्ग्रहणं ङ्याबन्तात् तद्धितोत्पत्तिः यथा स्यात् ङ्याब्भ्यां प्राक् मा भूत् इत्येवमर्थम् ॥
इदम् अधिकारसूत्रम् अस्ति । अस्य व्याप्तिः पञ्चमाध्यायस्य अन्तपर्यन्तम् विद्यते ।
<<ङ्याप्प्रातिपदिकात्>> - ङ्याप्प्रातिपदिकात् । चतुर्थाध्यायस्यादिमं सूत्रमिदम् । ङी च, आप् च, प्रातिपदिकं चेति समाहारद्वन्द्वः । ङी इति ङीप्ङीष्ङीनां सामान्येन ग्रहणम् । आबिति टाप्डाप्चापां ग्रहणम् । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । तदाह — ङ्यन्तादित्यादिना ।आ पञ्चमे॑त्य वधिनियमे तु व्याख्यानमेव शरणम् । ननु प्रातिपदिकादित्येव सूत्र्यताम् । ङ्याब्ग्रहणं मास्तु । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहण॑मिति परिभाषया ऊङप्रत्ययान्तात् आश्रूशब्दादिव दण्डिनी अजा खट्वेत्यादिभ्योऽपि ङ्याबन्तेभ्यः सुबादिप्रत्ययसम्भवादित्यत आह — प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापीति । स्त्रीलिङ्गबोधकङीबादिप्रत्ययविशिष्टस्येत्यर्थः । यथा स्यादिति । यथेति योग्यतायाम् । ङ्याबन्तादेव तद्धितः प्राप्तुं योग्यः । स च ङ्याब्ग्रहणे सत्येव स्यादित्यर्थः । व्यवच्छेद्यं दर्शयति-ङयाब्भ्यां प्राङ्भाभूदिति । ततश्च लोहनिका आर्यका च सिध्यति । तथाहि — लोहितशब्दस्तावत्वर्णाना तणतिनितान्तानाम् इति फिट्सूत्रेणाद्युदात्तः । ततश्च ओकार उदात्तः ।अनुदात्तं पदमेकवर्ज॑मिति परिशिष्टौ इकारा.ञकारावनुदात्तौ । तथाचवर्णादनुदात्तात्तोपधात्तो नः॑ इत#इ मणौ विद्यमानाल्लोहितशब्दात्स्त्रीत्वविवक्षायां ङीप्, तत्संनियोगेन तकारस्य नकारादेशश्च प्राप्तः । 'लोहितान्मणौ' इति स्वार्थिकः कनपि प्राप्तः । तत्र स्वार्थिकत्वादन्तरङ्ग परश्च कन् नत्वसंनियोगशिष्टं ङीपं बाधित्वा प्रवर्तेत । ततश्च ङीपो न प्रसक्तिः । कोपधत्वेन तोपधत्वाऽभावात् । ततश्च लोहितकशब्दात् 'अजाद्यतः' इति टापिप्रत्ययस्था॑दित्यादिना इत्वे लोहितिकेत्येव स्यात्, न तु लोहिनिकेति । इष्यते तु रूपद्वयमपि ।ङ्याप्प्रातिपदिका॑दित्यत्र ङीब्ग्रहणे तु तत्सामर्थ्यादन्तरङ्गं परमपि कनं बाधित्वा नत्वसंनियोगशिष्टे ङीपि कृते, लोहिनीशब्दात्कनि, 'केऽणः' इति ह्रस्वे, लोहिनिकेति रूपम् ।वर्णादनुदात्ता॑दित्यस्य वैकल्पिकतया नत्वसंनियोगशिष्टङीबभावे तु लोहिताशब्दात्कनि, ह्रस्वे, पुनः कान्ताट्टापि, प्रत्ययस्थादितीत्वे लोहितिकेत्यपि सिध्यति । तथा आर्यशब्दात्स्वार्थिके कनि, समुदायोत्तरटापैव स्त्रीत्वबोधनसम्भवादेकाज्द्विर्वचनन्यायेन कनन्तादेव टापि, कनः पूर्वं टाबभावात्, आत्स्थानिकस्य अतोऽभावादुदीचामातःस्थाने इति इत्वविकल्पस्याऽप्रवृत्तौ, प्रत्ययस्थादिति नित्यमित्वे आर्यिकेत्येव स्यात्, आर्यकेति न स्य#आत् । इष्यते तूभयमपि ।ङ्याप्प्रातिपदिका॑दित्यत्र आब्ग्रहणे तु तत्सामर्थ्यात्स्वार्थिकं कनं बाधित्वा टापि, ततः कनि, 'केऽण' इति ह्रस्वे, पुनः कनन्ताट्टापि , 'उदीचामातः स्थाने' इतीत्वविकल्पे रूपद्वयं सिध्यति । वस्तुतस्तु ङ्यापोग्र्रहणं मास्तु, सुबन्तादेव तद्धितोत्पत्तिः । सुपः प्रागेव च ङ्यापौ प्रवर्तेते । स्वार्थद्रव्यलिङ्गसङ्ख्याकारककुत्सादिप्रयुक्तकार्याणां क्रमिकत्वात् । तथाहि-स्वार्थः=प्रवृत्तिनिमित्तं जात्यादि । तज्ज्ञानं पूर्वं भवति, विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात् । ततस्तदाश्रयज्ञानम्, धर्मित्वेन प्रधानत्वाल्लिङ्गादिभिराकाङ्क्षितत्वाच्च । ततः स्वमात्रापेक्षत्वाल्लिङ्गस्य ज्ञानम् । ततो विजातीयक्रियापेक्षकारकापेक्षया सजातीयपदार्थापेक्षसङ्ख्याज्ञानम् । ततः कारकरूपविभक्त्यर्थापेक्षा भवति । तन्निवृत्तौ कुत्सादिज्ञानमिति कुत्सित इति सूत्रभाष्ये स्थितम् । शब्दरत्ने च परिष्कृतमेतत् ।
अधिकारोऽयमिति । विधेयपरिभाष्ययोरनिर्देशाद्वक्ष्यमाणानां च स्वादीनां प्रकृत्यपेक्षत्स्वरितत्वाच्च । आ पञ्चमाध्यायपरिसमाप्तेरिति । अधिकारस्यावधिं दर्शयति । अधिकारोऽनेकप्रकारः - संज्ञाधिकारः, विशेषणाधिकारः, प्रकृत्यधिकारश्चेति, तत्र कीदृसोऽयमधिकारः ? इत्यत आह - स्वादिषु कप्पर्यन्तेषु प्रकृतिरधिक्रयते इति । टाब्डाप्चापामाव्रितीति । सामान्यहणमित्यनुषङ्गः । समाहारनिर्द्देश इति । समाहारद्वन्द्वेन तेषां ङ्यादीनामयं निर्देश इत्यर्थः । ततश्च समाहारस्यैकत्वादेकवचनमेव युक्तम्, न बहुवचनमिति भावः । किमर्थमिदमुच्यते ? ङ्याप्प्रातिपदिकात्परे स्वादयो यथा स्युरिति केवलानां प्रयोगो मा भूत् ।'परश्च' इति वचनात्केवलानां प्रयोगो न भविष्यति ? इदं तर्हि प्रयोजनम् - ङ्याप्प्रातिपदिकादेव यथा स्युरित प्रकृत्यन्तरान्मा भूवन् । असतिह्यस्मिन्नधिकारे धातुः, तिङ्न्तम्, वाक्यम्, सुबन्तं चेति ङ्याप्प्रातिपदिकव्यतिरिक्ताति चतुर्विधा प्रकृतिरस्ति, वक्ष्यमाणाश्च प्रत्ययाश्चतुर्विधाः - स्वादयः, टाबादयः, अणादयः, स्वार्थिकाश्चेति; तदिह चतुर्विधाभ्यः प्रकृतिभ्यश्चतुर्विधाः प्रत्यया मा भूवन्निति कर्तव्य एवायमधिकारः । न कर्तव्यः । ननु चासत्यस्मिन् धात्वधिकाराद्धातोरेव स्युः, कृदुपपदसंज्ञे च स्याताम्, वासरूपविधिश्चस्यात् ? न; निवृतत्वाद्धातुग्रहणस्य । यदि परं धातोरपि स्युः, तदपि न; कर्मादीनामभावात् । कर्मादिषु च कारकेष्वेकत्वादिकायां च संख्यायां स्वादयो विधीयन्ते, न च धात्वर्थस्य कर्मादिभिर्योगः सम्भवति । कथं तर्हि कर्मणि तत्र्यदादयो भवन्ति ? नैव धात्वर्थस्य कर्मत्वे तव्यदादयो भवन्ति, किं तर्हि ? धात्वर्थं प्रति यत्कर्म तस्मिन्वाच्ये - कर्तव्यः कट इति । स्वादयस्तु प्रकृत्यर्थस्य कर्मत्वे चरितार्था नान्यस्य कर्मत्वे भवितुमर्हन्ति, तव्यदादिभिश्च बाधितत्वाद्धातोः स्वादीनामभावः । ननु च धात्वर्थस्यैव कर्मत्वं दृष्टम् - सन्प्रकृतौ चिकीर्षतीत्यादौ ? एवमपि संख्याभावः सिद्ध एव, अव्ययेभ्यस्तु ठव्ययादाप्सुपःऽ इति ज्ञापकात्स्वादयो भवन्ति । यत्पुनः'बहुषु बहुवचनम्' इत्यत्रोक्तम् - यत्र च संख्या सम्भवतीति, तदस्यां दशायां तथा नाश्रीयते । टाबादयस्तर्हि धातोर्मा भूवन्निति ? स्त्रियां टाबादयो विधीयन्ते, न च धात्वर्थस्य स्त्रीत्वेन योगोऽस्ति । कथं तर्हि स्त्रियां क्तिन्नादयो विधीयन्ते ? नैवात्र धात्वर्थस्य स्त्रीत्वे क्तिन्नादयः स्मर्यन्ते, कस्य तर्हि ? यस्तस्य सिद्धत्वं नाम धर्मस्तस्य । क्तिन्नादिभिश्च बाधितत्वाट्टाबादीनामभावः । अणादयस्तर्हि धातोर्मा भूवन्निति ? अपत्यादिष्वर्थेष्वणादयो विधीयन्ते, न च धात्वर्थस्यापत्यादिभिर्योगोऽस्ति, समर्थविभक्त्यभावाच्चाणादीनामनुत्पत्तिः,'तस्यापत्यम्' ,'तेन रक्तम्' ,'तत्र भवः' इत्येवमादिभिः षष्ठ।लदिविभक्त्यन्तादणादयो विधीयन्ते, न च धातोर्विभक्तिः सम्भवति । स्वाथिका अपि स्वार्थकैस्तुमुन्नादिभिर्बाधितत्वादेव धातोर्न भविष्यन्ति । तिङ्न्तातर्हि स्वादयो मा भूवन्निति ? तिङ्न्तेषु क्रिया प्रधानभूता, साधनं गुणभूतम्, तत्र प्रधानभूतायाः क्रियायाः कर्मादीनामभावात्स्वादयो न भविष्यन्ति । पचति भवति, भवति वै किञ्चिदाचार्याः क्रियमाणमपि चोदयन्तीत्यादौ कर्तृत्वं दृष्टमिति चेत्, एवमपि संख्याया अभावः सिद्ध एव । यस्तु गुणभूतः कर्ताऽभीधीयते; तत्र अभिहितत्वादेव विभक्त्यभावः सिद्धः । न च गुणभूतस्य कर्तुः क्रियान्तरावेशः सम्भवति; यतः पाचकं पश्येत्यादिवद् द्वितीयादयो भवेयुः । ननु पुत्रीयवदेतत्स्यात्, तद्यथा - पुत्रीयशब्दादन्तर्भूतक्रियाकर्मवाचिनः कर्तरि लकार उत्पद्यते - पुत्रीयतीति, तथेहापि पचतिशब्दात् कर्तृविशिष्टक्रियावाचिनः क्रमादिषु द्वितीयादयः स्युरेव ? नैष दोः ; उक्तमेतत् - प्रकृत्यर्थस्य कर्मत्वे चरितार्थाः स्वादयो नान्यस्य कर्मत्वे भवितुमर्हन्तीति । न चैकक्रियापेक्षयोर्भिन्नयोः साधनयोरेकस्मिन्पदे युगपदभिधानं सम्भवति । पुत्रीयशब्दस्तु जीवत्यादिधातुवद्विशिष्टक्रियावचन इति, ततः कर्तरि लकारोत्पतिरविरुद्धा । अवश्यं चैतदेवं विज्ञेयम् - अर्थाभावादेव तिङ्न्ताद् द्वितीयादयो न भवन्तीति । यो हि मन्यते - ङ्याप्प्रातिपदिकाधिकारान्न भवन्तीति; रूपबाद्यन्तातस्य द्वितीयादयः स्युरेव, पचतिरूपं पश्य, पचतिरूपेण कृतमित्यादि, भवति ह्यएतत्प्रातिपदिकम् । कथं तर्हि रूपबाद्यन्तात्प्रथमैकवचनमपि भवति ? उक्तत्वात्सङ्ख्यायाः, न हि तत्कर्तुः सङ्ख्यायामेकवचनम् । यदि तथा स्यात् पचतेरूपं पचन्तिरूपमिति द्विवचनबहुवचने स्याताम् ।'प्रातिपदिकार्थ' इत्यत्र तु प्रातिपदिकग्रहणात्प्रातिपदिकमात्रानुबन्धिनी प्रथमा भवति । तत्राप्येकवचनमेव; ठेकवचनमुत्सर्गः करिष्यतेऽ इति वचनात् । न चैवं तिङ्न्तेऽपि प्रसङ्गः तस्याप्रातिपदिकत्वात् । टाबादयस्तर्हि तिङ्न्तान्मा भूवन्निति ? स्त्रियां टाबादयो विधीयन्ते, न च तिङ्न्ते प्रधानस्यार्थस्य स्त्रीत्वेन योगोऽस्ति । यदि परं साधनस्य स्त्रीत्वे टाबादयः स्युः पचेद् ब्राह्मणः, पचेरन् ब्राह्मण्य इति ? तदपि न; स्वभावतो हि तिङ्न्तानि साधनाश्रयां सङ्ख्यामेवोपाददते, न लिङ्गम् । उक्तं च - एकत्वेऽपि क्रियाख्याते साधनाश्रयसंख्यया । भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रयः ॥ इति । शोभनं पचतीत्यादौ क्रियाविशेषणस्यैव लिङ्गेन योगः, न क्रियायाः, तत्रापि नपुंसकेन । पचति रूपमित्यादावपि रूपबाद्यन्तवाच्यायाः क्रियायाः स्वभावतो लिङ्गेन योगः, तत्रापि नपुंसकेन । विचित्रा हि शब्दानां शक्तयो यथादर्शनमभ्युपगन्तव्याः, न सामान्यतो दृष्टेनानुमानेन व्यवस्थापयितुं शक्यन्ते । अवश्यं चैतदेवं विज्ञेयम् - स्त्रीत्वाभावातिङ्न्ताट्टाबादयो न भवन्तीति, अन्यथा पचतिरूपं ब्राह्मणीत्यादौ रूपबाद्यन्ताट्टाप्स्यादेव । अणादयस्तरिहि तिङ्न्तान्मा भूवन्निति ? अपत्यादिष्वर्थेष्वणाअदयो विधीयन्ते, न च तिङ्न्ते प्रधानस्यापत्यादिभिर्योगोऽस्ति । अप्रधानस्य त्वप्रधानत्वादेवापत्यादिभिर्योगाभावः, समर्थविभक्त्यभावाच्चाणाद्यभावः सिद्धः । अवश्यं चैतदेवं विज्ञेयम्, अन्यथा यः पचतिरूपं तस्यापत्यमिति रूपबाद्यन्तादणादयः स्युरेव । स्वाथिका अपि ज्ञापकातिङ्न्तान्न भविष्यन्ति, यदयं क्वचितद्धितविधौ तिङ्ग्रहणं करोति - ठतिशायने तमबिष्ठनौऽ,'तिङ्श्च' इति । वाक्यादपि नैव स्वादयो भवितुमर्हन्ति; अर्मादीनामभावात् । न खलु क्रियारूपस्य संसर्गरूपस्य भेदरूपस्य वा वाक्यार्थस्य कर्मादिभि स्त्रीत्वेनापत्यादिभिर्वा योगः सम्भवति ।'पश्य मृगो धावति' इत्यादौ दृष्टमिति चेत् ? एवमपि संख्यायोगाभावः सिद्धः । स्वार्थिका अप्यभिधानाभावान्न वाक्याद्भविष्यन्ति । तथा हि -'देवदतारोहाश्वम्' इत्यस्माद्वाक्यात्प्रागिवीयेष्वर्थेषु के सुल्बुकि च कृते वाक्यार्थस्यासत्वभूतत्वाच्छक्तिलिङ्गसङ्ख्यायोगाभावात्स्वाद्यौत्पतेरभावाद् देवदतारोहाश्वकेति भवितव्यम्, न चैवम्भूतेन वाक्यार्थगताः कुत्सादयो गम्यन्त इति । सुबन्तादपि नैव स्वादयो भवितुमर्हन्ति । नहि स्वादिषु विधीयमानेषु तदन्ता प्रकृतिः सम्भवति, यथोक्तम् -'सनन्तान्न सनिष्यते' इति । किञ्च सुबन्तमपि सङ्ख्याप्रधानं कारकशक्तिप्रधानं वा, न चास्यापरैः कर्मादिभिर्योगः सम्भवति । टाबादयोऽपि स्त्रीत्वाभावान्न भविष्यन्ति । अणादिषु पुनर्नास्ति विशेषः, सुबन्ताद्वोत्पतौ सत्यां प्रातिपदिकाद्वा । यथा चैततथा'समर्थानां प्रथमाद्वा' इत्यत्र प्रतिपादयिष्यामः । सर्वथा रूपबाद्यन्तात्प्रातिपदिकादप्यनिष्टः प्रत्ययो यद्वात् तद्वद्धात्वादिकादपीति नार्थ एतेनेत्याक्षेप्ता शङ्कते तावत् - यद्यपीति । प्रत्ययपरत्वेन प्रकृतिर्लभ्यते । पारिशेष्याच्चेयमेव प्रकृतिर्लभ्यत इत्यर्थः । परिहरति - तथापीति । वृद्धादयो लक्षणं निमितं यस्य प्रत्ययविधेस्तत्र ङ्याप्प्रातिपदिकस्य विशेष्यत्वेन सम्प्रात्ययो यथा स्यादित्येवमर्थमित्यर्थः । इतरथा हीति । यदि ङ्याप्प्रातिपदिकग्रहणं न क्रियेतेत्यर्थः । समर्थविशेषणमेतत्स्यादिति ।'समर्थानां प्रथमाद्वा' इत्यधिकारात् । किं च समर्थम् ? सुबन्तम् । समर्थविशेषणे सति को दाषः ? ठुदीचां वृद्धादगोत्रात्ऽ इति फिन् । इह च प्रसज्येत - ज्ञानां ब्राह्मणानामपत्यमिति, एतद्धि समर्थंवृद्धम् । इह च न स्यात् - ज्ञानां ब्राह्मणानामपत्यमिति, न ह्यएतत्समर्थमवृद्धम् । यत्र ह्यादेशादिवशेन सङ्ख्याविशेषाभिव्यक्तिर्भवति न भवति तत्र द्विवचनबहुवचनान्तानामपि वृत्तिः - तावकः, मामक इति । यथा इह च फिञुत्पद्यमानो बहुत्वमन्तरेण वृद्धत्वानुपपतेर्बहुत्वं गमयेत्, एवं फिन्नपि द्वित्वमिति स्यादेवायं प्रसङ्गः । अवर्ण - ठत इञ्ऽ इहैव स्यात् दक्षस्यापत्यमिति, दक्षयोः दक्षाणामित्यत्र तु न स्यात् । स्वर - ठनुदातादेरञ्ऽ, इह च प्रसज्येत - वाचो विकारः, त्वचो विकारः, एतद्धि समर्थमनुदातादि,'सावेकाचः' इति विभक्तेरुदातत्वात् । नन्वत्रैकाचो नित्यं मयटमिच्छन्तीति मयटा भाव्यम् ? इदं तर्हि पञ्चानां विकार इति'षट्त्रिचतुर्भ्यो हलादिः' इति विभक्तेरुदातत्वे सति समर्थमनुदातादि, प्रातिपदिकं तु'न्रः सङ्ख्यायाः' इत्याद्यौदातम् । इह च न स्यात् - सर्वेषां विकार इति,'सर्वस्य सुपि' इत्याद्यौदातं पदम्, प्रातिपादिकं त्वन्तोदातं निपातितम् । द्व्यच् -'नौद्व्यचष्ठन्' , इह च प्रसज्येत - वाचा तरति, त्वचा तरति,एतद्धि समर्थं द्व्यच् । नौग्रहणं तु नियमार्थं स्यात् - औकारान्ताद्यदि भवति नौशब्दादेवेति । इह च न स्यात् - घटेन तरतीति । साम्ना तरतीत्यादौ पुनरुभयथापि सिद्धम् । ङ्याप्प्रातिपदिकग्रहणे तु सति तत्सामर्थ्यातस्यैव विशेषणं वृद्धादि भवति, समर्थाधिकाराच्च समर्थात्प्रत्ययः । तत्रैवमभिसम्बन्धः - वृद्धादि यद् ङ्याप्प्रातिपदिकं तस्मात् समर्थात् प्रत्ययः इति ।'यस्मात्प्रत्ययविधिः' इति प्रत्ययविधौ पञ्चमीनिर्दिष्टस्य विधीयमाना अङ्गभपदसंज्ञा ङ्याप्प्रातिपदिकस्य यथा स्युरित्येततु प्रयोजनंन भवति, कथम् ? दैवेन हि जानता यतः प्रत्ययो विहितस्तस्यैताः संज्ञाः पञ्चम्या निर्द्दिश्यतां मा वा निर्देशि । इह च'कंसीयपरशव्ययोर्यञञौ लुक्च' इति प्रातिपदिकात्परयोश्च्छयतोर्लुग्यथा स्यादौणादिकयोरुकारसशब्दयोर्मा भूदित्येतदपि न प्रयोजनम्, कथम् ? ठुणादयोऽव्युत्पन्नानि प्रातिपदिकानिऽ, उणाअदिषु नावश्यं व्युत्पत्तिकार्यं भवतीत्यर्थः । एतच्च ठतः कृकमिकंसऽ इत्यत्र कमिग्रहणेनैव सिद्धे पुनः कंसग्रहणाद्विज्ञायते, तस्माद् वृद्धाद्येव प्रयोजनमधिकारस्य । ङ्याब्ग्रहणं क्रियते; प्रत्ययान्तत्वेनाप्रातिपदिकत्वात् ।'यूनस्तिः' युवतिरित्यस्य तु तद्धितान्तत्वात्प्रातिपदिकत्वम् । ठूणुतःऽ इत्युवर्णान्तादूङ् विधीयते, तत्रैकादेशस्यान्तवद्भावात्प्रातिपदिकत्वम् ।'श्वशुरस्योकाराकारलोपश्च' इति श्वश्रूरित्यत्र'श्वशुरः श्वश्र्वश्च' इति निपातनाद्विभक्त्यादिसिद्धिः, एवं स्थिते चोद्यम् - अथेति । न प्रातिपदिकग्रहण इति । नञः काक्वा प्रयोगात्सिद्धमेवेत्यथः । अनेकार्थत्वाद्वा निपातानाम् । ननुशब्दस्यार्थे नशब्दो द्रष्टव्यः । लिङ्गविशिष्टस्येति । लिङ्गनिमितप्रत्ययेनाधिकस्येत्यर्थः । अस्याश्च परिभाषायाः प्रयोजनम् - सर्वनामस्वरसमासोपचारेष्ठवद्भावाः । सर्वनाम - भवच्छब्दस्य विधीयमाना सर्वनामसंज्ञा भवतीशब्दस्यापि भवति,'सर्वनाम्नास्तृतीया च' , भवता हेतुना, भवतो हेतोः, भवत्या हेतुना, भवत्या हेतोरिति । स्वर -'कुशूलकूपवुम्भशालं बिले' , कुशूलबिलं कुशूलीबिलम् । समास -'पूर्वसदृश' , मातृसदशः, मातृसदृशी;'सदृशप्रतिरूपयोः' इति स्वरोऽप्यत्र भवति । तथा'कुमारः श्रमणादिभिः' । कुमारीश्रमणा, कुमारश्रमणा, एवं युवतिर्वलिना, युववलिना । उपचार - ठतः कृकमिकंसकुम्भऽ, अयस्कुम्भः, अयस्कुम्भी । इष्ठवद्भाव -'णाविष्ठवत्प्रातिपदिकस्य' , कुमारीमाचष्टे कुमारयति । इह तु ठचितहस्तिधेनोष्ठक्ऽ, हस्तिनीनां समूहो हास्तिकरमिति,'भस्याढेअ तद्धिते' इति पुंवद्भावेन ङीपि निवृते हस्तिशब्द एवायमिति ठक्सिद्धिः ।'तद्धिते' इत्येषा हि विषयसप्तमी । अवश्यं च पुंवद्भाव एवाश्रयणीयः, अन्यथा हस्तिनीशब्दाट्ठकि यस्येतिलोपग्य स्थानिवद्भावात्'नस्तद्धिते' इति टिलोपो न स्यात् । इह च'नेन्त्सिद्धबध्नातिषु च स्थण्डिलशायिनि' इति'गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पतेः' इति वचनादनुत्पन्न एव ङीपि समासे सतीन्नन्तमेवोतरपदमित्यलुक्प्रतिषेधः सिद्धः । एवं'शयवासवासिष्वकालात्' ग्रामेवासिनीत्यलुक् । तथा'क्यङ्मानिनोश्च' 'स्वाङ्गाच्चेतोमानिनि' दर्शनीयमानिनी, दीर्घमुखमानिनी - मानिन्शब्द एवोतरपदमिति पुंवद्भावः सिद्धः । इह च'तृजकाभ्यां कर्तरि' 'कर्तरि च' इति कर्तरि यौ तृजकौ ताभ्यां योगे या षष्ठी तस्या येन सह समासः प्राप्तः स सर्वो न भवतीति विज्ञानादपां स्रष्ट्रीत्यत्रापि समासनिषेदः सिद्धः । यदि'प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' भवति, अतिप्रसङ्गो भवति -'द्विषत्परयोस्तापे' द्विषतीतप इत्यत्रापि स्यात्, उक्तमत्र -'द्विषत्परयोरिति द्वितकारको' यं निर्देशः तकारान्तो द्विषच्छब्दःऽ इति । इह च गार्ग्या अपत्यम्, दाक्ष्या अपत्यमिति'यञिञोश्च' इति फकं परत्वात् स्त्रीभ्यो ढग्बाधते । इह च'ञ्नित्यादिनित्यम्' दाक्षिः, ग्लुचुकायनिरित्यस्यामवस्थायामाद्यौदातत्वे कृते पश्चात् ठितो मनुष्यजातेःऽ इति ङीषि सति शिष्टः प्रत्ययस्वर एव भवति - दाक्षी, ग्लुचुकायनी । न चास्यामवस्थायामाद्यौदातत्वं पुनः प्रवर्तते; पूर्वमेव प्रवृतत्वात् । तथा बहवो गोमन्तोऽस्यां बहुगोमतीति प्रागेव बहुस्वरे प्रवृते पश्चान्ङीप्, पित्वादनुदातो भवति । न च पुनरपि'बहोर्नञ्वद्' इत्यम्य प्रवृत्तिः पूर्वमेव प्रवृतत्वात्समासाच्चात्र ङीबुत्पन्न इत्युतरपदं न लिङ्गविशिष्टम् । इह तर्हि राजाहः सखिभ्यष्टच्ऽ मद्राणां राज्ञीति टच् स्यात्, ततश्च'भस्याढेअ तद्धिते' इति पुंवद्भावेन ईकारे निवृते टिलोपे च टित्वान्ङीपि मद्रराजीति स्यात्, मद्रराज्ञीति चेष्यते । तथा महती प्रिया यस्य महतीप्रिय इति पुंवद्भावप्रतिषेधविषये ठान्महतःऽ इत्यात्वं स्यात् । तथाऽऽर्ययोर्ब्राह्मणकुमारयोः, राजा च राजब्राह्मणीत्यत्रापि स्यात् । तथा विभक्त्याश्रयं यत्कार्यं विभक्तौ परतो विभक्तेर्वा तत्रापि दोषः, यथा -'न गोश्वन्साववर्ण' इति शुना, शुन इत्यत्र'सावेकाचः' इति प्राप्तं विभक्तेरुदातत्वं न भवति । तथा गौरादिङीषन्तात् शुन्या, शुन्यै इत्यादावपि ठुदातयणो हलपूर्वात्ऽ इत्यस्यापि निषेधः स्यात् । ठुगिदचाम्ऽ इति नुम् गोमतीत्यादावपि स्यात् ।'चतुरनडुहोराम्' अनडुहीत्यत्रेकारात्परः स्याद् ।'पथिमथ्यृभुक्षामात्' शोभनः पन्था अस्यामिति'न पूजनात्' इति समासान्ते निषिद्धे ऋन्नेभ्यो ङीपि भस्य टेर्लोपे सुपथीत्यत्रापि स्यात् । अङ्गाधिकारे तदन्तस्यापि ग्रहणात्सुपन्था इतिवत्'पुंसो' सुङ्ऽ सुपंसीत्यत्रापि स्यात् । शोभनाः पुमांसोऽस्यामिति, उरः प्रभृतिषु पुमानिति विभक्त्यन्तस्य पाठादेकवचनान्तादेव नित्यं कप् भवति, बहुवचनान्तस्य तु'शेषाद्विभाषा' इति विकल्पित एवेति कबभावपक्षे पूङे ह्रस्वः, मसुश्च प्रत्ययः, आकार उच्चारणार्थः, तत्र प्रत्ययस्योगित्वात् ठुगितश्चऽ इति ङीप् ।'सख्युरसम्बुद्धौ' ठनङ् सौऽ इति णित्वानङै सखौ सख्यावित्यादावपि स्याताम् ।'सख्यशिश्वीति भाषायाम्' इति ङीष्विधानं तु सखीभ्यामित्याद्यर्थं स्यात् ।'विभाषा भवद्भगवदघवताम्' इत्यत्र त्ववशब्दः सम्बुद्धाविति विश्ष्यते, तत्र'येन नाव्यवधानम्' इत्येकेन वर्णेन व्यवाये ओत्वं प्रवर्तमानमिह न भवति - हे भगवति, हे अघवतीति, तदभावातत्सन्नियोगशिष्टस्य रुत्वस्याप्यभावः ।'श्वयुवमघोनामतद्धिते' इत्यत्रापि ठल्लोपोऽनःऽ इत्यतः ठनःऽ इत्यपकर्षाद्यौवतीः पश्येति सम्प्रसारणाभावः । तदेवं लिङ्गविशिष्टपरिभाषायाः सन्ति प्रयोजनानि, सन्ति च दोषाः । यानि प्रयोजनानि तदर्थमेषा कर्तव्या, प्रतिविधेयं दोषेषु । प्रतिविधानं च'शक्तिलाङ्गल' इत्यत्र घटग्रहणेनैव सिद्धे घटीग्रहणमस्याः परिभाषाया अनित्यत्वज्ञापनार्थमिति । तदेवं स्थितमेतत् - ङ्याब्ग्रहणमनर्थकं प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणादिति । परहरति - नैतदस्तोति । स्वरूपविधिविषय इति । स्वरूपाश्रयो विधिः स्वरूपविधिः, स चासौ विषयश्च तत्रेत्यर्थः । किमुक्तं भवतीत्याह - प्रातिपदिकस्वरूप ग्रहणे सतोति । कुत एतदित्यत आह - तथा चेति । यथा च युवञ्च्छब्दस्य जरतीशब्देन समासवचनमत्रार्थे ज्ञापकं तथा तत्रैव प्रतिपादिकम् । तादृशमेवेति ।'प्रातिपदिकस्वरूपग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति' इति यदुक्तं तदनुगुणमेवेत्यर्थः । यदि स्वरूपविधिविषये परिभाषेयम्, कथमिष्ठवद्भावः - कुमारीमाचष्टे कुमारयतीति ? बाहुलकात्सिद्धिं मन्यते, चुरादौ हीदं पठ।ल्ते -'प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च' इति । भाष्ये तु यथाकथंचित्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति स्थितम् । तथा च'सर्वप्रातिपदिकेभ्य इत्येके' इति क्विप् ङ्यन्तादपि भवति - यामिनयन्त्यहानीति । किञ्चेत्यादिना प्रयोजनान्तरं समुच्चिनोति । कालितरेति । कालशब्दात् जानपदादिसूत्रेण ङीषि तरपि'घरूपकल्प' इत्यादिना ह्रस्वः । किं पुनः कराणं तदन्तातद्धितविधिर्न सिध्यतीत्याह - विप्रतिषेधाद्धीति । स्त्रीप्रत्ययस्यावकाशः - प्रकर्षाविवक्षायां कालीति, प्रकर्षप्रत्ययस्यावकाशः - स्त्रीत्वाविवक्षायां कालतर इति ; उभयविवक्षायामुभयप्रसङ्गे परत्वातद्धितः स्यात् । ङ्याब्ग्रहणे तु सति तरब्विधौ प्रकृतित्रयाधिकारसामर्थ्यात्पूर्वं ङ्यापौ भवतः, पश्चातरबिति सिद्धमिष्टम् । ननु च स्त्रीत्वस्यान्तरङ्गत्वातन्निमितः प्रत्ययोऽन्तरङ्गः, प्रकर्षस्तु बाह्यप्रतियोग्यपेक्षत्वाद्बहिरङ्गः, ततस्तन्निमितस्य प्रत्ययस्यापि बहिरङ्गत्वम् । योऽप्यज्ञातादिष्वर्थेषु'प्रागिवात्कः' विधीयते सोऽप्यज्ञाताद्यर्थापेक्षत्वाद्बहिरङ्ग एव, विभक्त्यन्तस्य हि सतः पश्चादज्ञातादियोगो भवति, विभक्तयश्च संख्याकर्माद्यपेक्षाः । प्रागेव संख्याकर्मादियोगाल्लिङ्गेन प्रातिपदिकं युज्यते । उक्तं च -'स्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम्, समवेतस्य तु वचने लिङ्गं संख्यां विभक्तिं चाभिधाय तान्विशेषानवेक्षमाणश्च पूर्णमात्मानमप्रियकुत्सनादिषु ततः विशेष्ये बुद्धिरिति पूर्वं विशेषणभूतः स्वार्थो' भिधातव्यः, पश्चातद्विशिष्ट्ंअ द्रव्यम्; तस्य धर्मित्वेन प्रधानत्वात्, ततो लिङ्गमन्तरङ्गत्वात् । संख्या हि भेदापेक्षत्वाद्बहिरङ्गा, सापि तु सजातीयापेक्षा विजातीयकर्मादिकारकशक्त्यपेक्षेभ्यः कारकेभ्योऽन्तरङ्गेति ततस्तस्या अभिधानम्, ततः कारकाणाम्, एवं परिपूर्णार्थस्य पश्चात्कुत्सनादिभिर्योगः । स्वार्थादयो हि कुत्सनादिहेतवः, द्रव्यस्य पण्डितक इत्यादौ तथावसायात् । तदेवमन्तरङ्गः स्त्रीप्रत्ययः, बहिरङ्गास्तद्धिताः, अन्तरङ्गबहिरङ्गयोश्चायुक्तो विप्रतिषेधः ? इह तहि'वर्णे चानित्ये' , रक्तेऽ'कालाच्च' इत्यस्यावकाशः स्त्रीत्वाविवक्षायां कालक इति, स्त्रीप्रत्ययस्य कालीत्यवकाशः; कालिकेत्यत्रोभयप्रसङ्गे परत्वान्कन् स्यात् । तस्य चात्यन्तस्वाथिकत्वान्न तदपेक्षं स्त्रीप्रत्ययस्यान्तरङ्गत्वमस्ति । नास्त्यत्र विशेषः, कालशब्दादप्युत्पतौ'प्रत्ययस्थात्' इतीत्वे कालिकेति सिद्धम् ? यदा तहिं हरितशब्दात्'न सामिवचने' इति ङीब्नकारौ बाधित्वा परत्वात्कन् स्यात्, ततश्च हरिणिकेति न स्यात् । हरितशब्देन समानार्थो हरिणशब्दोऽस्ति, ततः कर्मत्वे च भविष्यति, हरितशब्दातु हरितिकेति ? अयं तहि -'लोहितान्मणो' इत्यत्यन्तस्वर्थिकः कन्'वर्णादनुदातात्' इति ङीब्नकारौ परत्वाद्बाधेत, ततश्च लोहितिकेत्येव स्यात्, न लोहिनिकेति;उभयमपीष्यते, तदर्थं ङ्याब्ग्रहणम् । ननु च'लोहिताल्लिङ्गबाधनं च' इत्यनेनैवैतत्सिद्धम्, तन्न वक्तव्यं भवति, कथम् ?'वर्णादनुदातात्' इत्यत्र वेति वर्तते, तत्र ङ्याबन्ताभ्यां लोहिनीलोहिताशब्दाभ्यां कनि विहिते यतायोगं ह्रस्वत्वेत्वयोः कृतयोर्लोहिनिका लोहितिकेति सिद्धमिष्टम् । तदेवं सति ङ्याब्ग्रहणे लिङ्गनिमितेन प्रत्ययेन विकल्पेन बाधा यथा स्यान्नित्यं मा भूदित्येवमर्थं तावन्न वक्तव्यम् - लोहिताल्लिङ्गबाधनं वेति । नापि प्रतिपदविहितत्वेन कना लिङ्गनिमितस्य प्रत्ययस्य नित्ये बाधे प्राप्ते । विकल्पेन बाधा यथा स्यादित्येवमर्थमपि वक्तव्यम्; ङ्याब्ग्रहणस्यानन्यार्थत्वात् । यदि ह्यएतश्वेतशब्दाभ्यामत्यन्तस्वार्थिकः कन्निष्यते, तदा तत्र ङ्याब्ग्रहणस्य चरितार्थत्वाल्लोहितशब्दात्प्रतिपदविहितेन कना ङीपो नित्ये बाधे प्राप्ते तद्वक्तव्यम् ? तदापि वा न वक्तव्यम्,'लोहितान्मणौ' इत्यस्यापि पुनन्नपुंसकयोश्चरितार्थत्वात् । तदेवमत्यन्तस्वार्थिकोऽपि कन् ङ्यन्ताद्यथा स्यादिति ङीब्ग्रहणं तावत्कर्तव्यम् । आब्ग्रहणं तु विस्पष्टार्थम् । तत्र समासान्तेषु दोषः - बहवो गोमन्तोऽस्यां नगर्यामिति बहुव्रीहौ कृते स्त्रिया अन्यपदार्थत्वान्ङीप् च प्राप्नोति कप् च, ङ्याब्ग्रहणान् ङीपि कृते कप् स्यात्, ततश्च बहुगोमतीकेति रूपं स्यात्, बहुगोमत्केति चेष्यते ? नैष दोषः समासार्थादुतरपदादकृत एव समासे समासान्ता भवन्ति पश्चातदन्तेन समासः, एवं हि समासं प्रत्यन्तावयवत्वमुपपद्यते समासान्तानाम्, तथा च'न कपि' इत्यत्र वक्ष्यति । तत्र चोतरपदे समासार्थाया विभक्तेः पुरस्तात्समासान्ता इति केचित् । परस्तात्समासान्तेषु सुब्लुकि तद्धितान्तत्वेन ततः सुपि सुबन्तस्य समास इत्यन्ये । सर्वथा बहुचर्मिकेतीत्वं प्राप्नोति, ठसुपःऽ इति प्रतिषेधात्, यथा बहुपरिव्राजका मदुरेति ? कर्तव्योऽत्र यत्नः ।'नञस्तत्पुरुषात्' इत्यादौ तु ग्रन्थविरोधं तत्र तत्र परिहरिष्यामः । तदेवं स्थितमेतत् - तदन्तातद्धितविधानार्थं ङ्याब्ग्रहणं विप्रतिषेधाद्धि तद्धितबलीयस्त्वमिति । यद्येवम्,'यूनस्तिः' ठूणुतःऽ इति त्यूङेरपि ग्रहणं कर्तव्यं तदन्तातद्धितविधानार्थम् - युवतितरा । भाष्यकारप्रयोगात्'तसिलादिष्वाकृत्वसुचः' इति पुंवद्भावो न भवति, खिद्धादिषु पुंवद्भावाद् ह्रस्वत्वं विप्रतिषेधेनेति वा पर्जन्यवल्लक्षणप्रवृत्या ह्रस्वेन बाधितत्वात् । ब्रह्मबन्धूतरा'नद्याः शेषस्यान्यतरस्याम्' इति ह्रस्वाभावपक्षे'जातेश्च' इति पुंवद्भावप्रतिषेधः । पूर्वत्र त्वनेन प्रतिषेधो न लभ्यते; यौवनस्याजातित्वात् । यावद्द्रव्यभाविनी हि जातिः, तथा च युवजानिरित्युदाहृतम् । नन्वत्रान्तरङ्गत्वादेव त्यूङै भविष्यतः, अत्यन्तस्वार्थिके तु कनि ब्रह्मबन्धुकेत्यत्र'के' णःऽ इति ह्रस्वे सति नास्ति विशेषः - ऊङ्न्ताद्वोत्पतौ सत्याम्, उकारान्ताद्वा, युवतिशब्दादपि कनि पुंवद्भावेन भ्वायमिति नास्त्येव विशेषः । न चास्मात्कन्निष्यत इत्यत्रापि प्रमाणमस्ति । तस्मान्नार्थस्त्यूङेर्ग्रहणेन ॥