3-1-145 शिल्पिनि ष्वुन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
index: 3.1.145 sutra: शिल्पिनि ष्वुन्
धातोः ष्वुन् प्रत्ययो भवति शिल्पिनि कर्तरि। नृतिखनिरञ्जिभ्यः परिगणनं कर्तव्यम्। नर्तकः। खनकः। रजकः। नर्तकी। खनकी। रजकी। रञ्जेरनुनासिकलोपश्च।
index: 3.1.145 sutra: शिल्पिनि ष्वुन्
क्रियाकौशलं शिल्पं तद्वति ष्वुन् स्यात् ।<!नृतिखनिरञ्जिभ्य एव !> (वार्तिकम्) ॥ नर्तकः । नर्तकी । खनकः । खनकी ।<!असि अकेऽने च रञ्जेर्नलोपो वाच्यः !> (वार्तिकम्) ॥ रजकः । रजकी । भाष्यमते तु नृतिखनिभ्यामेव ष्वुन् । रञ्जेस्तु क्वुन्शिल्पिसंज्ञयोः <{उ190}> इति क्वुन् । टाप् । रजिका । पुंयोगे तु रजकी ॥
index: 3.1.145 sutra: शिल्पिनि ष्वुन्
शिल्पिनि ष्वुन् - शिल्पिनि ष्वुन् । नृतिखनिरञ्जिभ्य एवेति । वार्तिकमिदम् । नर्तकीति । षित्त्वान्ङीषिति भावः ।दंशसञ्जस्वञ्जां शपी॑ति सूत्रेरजकरजनरजः सूपसङ्ख्यान॑मिति वार्तिकम् । तदर्थतः सङ्गृह्णाति — असि अके अने चेति । रजक इति । रञ्जेः शिल्पिनि ष्वुनि अकादेशे नलोपः । रजकीति । षित्त्वान्ङीष् ।नृतिखनिरञ्जिभ्य एवे॑ति परिगणनात्वेञ् तन्तुसन्ताने ॑ इत्यस्मात् कृतात्त्वात्श्याद्व्यधे॑ति णप्रत्यये आतो युकिवाय॑इति सिध्यति । भाष्यमते तु नृतिखनिभ्यामेवेति । इदं चदंशसञ्जस्वञ्जां शपीटति सूत्रे भाष्ये स्पष्टम् । ननु भाष्यमते क्वुनिरजकी॑ति कथमित्यत आह — पुंयोगे तु रजकीति ।
index: 3.1.145 sutra: शिल्पिनि ष्वुन्
शिल्पिनि ष्वुन्॥ पूर्वेण साहचर्यात् सिल्पिनीत्यपि प्रत्ययार्थस्य विशेषणम्, नोपपदमित्याह - शिल्पिनि कर्तरीति। क्रियासु कौशलं शिल्पं तद्यस्यास्तीति सिल्पो। नृतिखनीत्यादि। एतद्वचनमेव; तेनाह्वाता, आह्वायक इत्यादौ न भवति। रञ्जेनुनासिकलोपश्चेति। एततु ज्ञापकात्सिद्धम्, यदयम्'जनीजृष्क्नुसुरञ्जो' मन्ताश्चऽ इति मित्संज्ञां शास्ति, तज्ज्ञापयति - रञ्जेरकित्वेऽप्यनुनासिकलोपो भवतौति॥