पथः ष्कन्

5-1-75 पथः ष्कन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत् गच्छति

Sampurna sutra

Up

'तत् गच्छति' (इति) पथः ष्कन्

Neelesh Sanskrit Brief

Up

'गच्छति' अस्मिन् अर्थे द्वितीयासमर्थात् 'पथिन्' शब्दात् ष्कन्-प्रत्ययः भवति ।

Kashika

Up

पथिन्शब्दाद् द्वितीयासमर्थाद् गच्छतीत्यस्मिन्नर्थे ष्कन् प्रत्ययो भवति। नकारः स्वरार्थः। षकारो ङीषर्थः। पन्थानं गच्छति पथिकः। पथिकी॥

Siddhanta Kaumudi

Up

षो ङीषर्थः । पन्थानं गच्छति पथिकः पथिकी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'पथः' इति 'पथिन्' शब्दस्य पञ्चम्येकवचनम् । 'पथिन्' इत्युक्ते मार्गः । 'पन्थानम् गच्छति' अस्मिन् अर्थे गन्तुः निर्देशं कर्तुम् 'पथिन्' शब्दात् ष्कन् प्रत्ययः भवति । पन्थानम् गच्छति सः पथिकः । प्रक्रिया इयम् - पथिन् + ष्कन् → पथिन् + क [षकारनकारयोः इत्संज्ञा, लोपः] → पथि + क [<<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इति अङ्गस्य पदसंज्ञा । <<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः] → पथिक । स्मर्तव्यम् - 1. प्रत्यये इत्संज्ञकः षकारः ङीष्-प्रत्ययविधानार्थमुक्तः अस्ति । स्त्रीत्वे विवक्षिते <<षिद्गौरादिभ्यश्च>> 4.1.41 इत्यनेन अत्र ङीष्-प्रत्ययः विधीयते । पन्थानम् गच्छति सा पथिकी । 2. प्रत्यये विद्यमानः इत्संज्ञकः नकारः स्वरनिर्देशार्थमुक्तः अस्ति । <<ञ्नित्यादिर्नित्यम्>> 6.1.197 इत्यनेन 'पथिक' शब्दस्य पकारोत्तरः अकारः अनेन उदात्तः जायते ।

Balamanorama

Up

<<पथः ष्कन्>> - पथः ष्कन् । पथः ष्कन्नितिच्छेदः । द्वितीयान्तात्पथिन्शब्दाद्गच्छतीत्यर्थे ष्कन् स्यादित्यर्थः ।

Padamanjari

Up