6-4-149 सूर्यतिष्यागस्त्यमत्स्यानां यः उपधायाः असिद्धवत् अत्र आभात् भस्य तद्धिते लोपः ईति
सूर्य तिष्य अगस्त्य मत्स्य इत्येतेषां यकारस्य उपधाया भस्य लोपो भवतीति परतस्तद्धिते च। सूर्येणैकदिक् सौरी बलाका। अणि यो यस्येति लोपस्तस्यासिद्धत्वं नास्ति, व्याश्रयत्वात्। ईकारे तु यस्तस्यासिद्धत्वाद् उपधायकारो भस्याणन्तस्य सूर्यस्य संबन्धीति लुप्यते। तिष्य — तैषमहः। तैषी रात्रिः। अगस्त्यस्यापत्यं स्त्री, ऋषित्वाद् ४.१.११४ अणि कृत आगस्ती। आगस्तीयः। मत्स्य — गौरादित्वाद् ४.१.४१ ङीषु, मत्सी। उपधाया इति किम्? मत्स्यचरी। यग्रहणमुत्तरार्थम्। विषयपरिगणनमत्र कर्तव्यम्॥ मत्स्यस्य ङ्यामिति वक्तव्यम्॥ इह मा भूत् — मत्स्यस्येदं मांसं मात्स्यम्॥ सूर्यागस्त्ययोश्छे च ङ्यां च॥ सौरीयः। सौरी। आगस्तीयः। आगस्ती। इह मा भूत् — सौर्यं चरुं निर्वपेत्। आगस्त्यः॥ तिष्यपुष्ययोर्नक्षत्राणि॥ तिष्येण नक्षत्रेण युक्त ः कालः तैषः। पौषः॥ अन्तिकस्य तसि कादिलोप आद्युदात्तं च॥ अन्तिकशब्दस्य तसिप्रत्यये परतः ककारादेः शब्दस्य लोपो वक्तव्यः, आद्युदात्तत्वं च। अन्ति॑तो न दू॒राद् (ऋ० २.२७.१३)॥ तमे तादेश्च॥ तमप्रत्ययेऽन्तिकशब्दस्य तकारादेः ककारादेश्च लोपो वक्त व्यः। तत्र तादिलोपे — अन्त॑मः (ऋ० ५.२४.१)। कादिलोपे — अन्तितमः॥ कादिलोपे बहुलमिति वक्तव्यम्॥ अन्यत्रापि हि दृश्यते। अन्तिके सीदतीति अन्तिषत्। <<पूर्वपदात्>> ८.३.१०४ इति षत्वम्॥ ये च॥ अन्तियः॥
अङ्गस्योपधाया यस्य लोपः स्यात्स चेद्यः सूर्याद्यवयवः ।<!मत्स्यस्य ङ्याम् !> (वार्तिकम्) ।<!सूर्यागस्त्ययोश्छे च ङ्यां च !> (वार्तिकम्) ।<!तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम् !> (वार्तिकम्) ॥ मत्सी ।<!मातरि षिच्च !> (वार्तिकम्) ॥ इति षित्त्वादेव सिद्धे गौरादिषु मातामहीशब्दपाठादनित्यः षितां ङीष् । दंष्ट्रा ॥
<<सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः>> - मत्स्यशब्दाद्गौरादित्वान्ङीषि विशेष दर्शयितुमाह — सूर्यतिष्टागस्त्य । 'ढे लोपोऽकद्र्वाः' इत्यतो 'लोप' इत्यनुवर्तते । 'य' इति षष्ठी,अङ्गस्येत्यधिकृतमवयवषष्ठन्तं, तच्च उपदायामन्वेति । अङ्गस्य उपधाभूतो यो यकारस्तस्य लोपः स्यादिति लभ्यते ।सूर्यतिष्यागस्त्यमत्स्याना॑मित्यप्यवयवषष्ठन्तं यकारेऽन्वेति, न त्वह्गविशेषणं तदाह-अङ्गस्येत्यादिना । मत्स्यस्य ङ्यामिति । तेनेह न, मत्स्यस्येदं मात्स्यम् ।सूर्यागस्त्ययोश्छे चेति । सूरीयः । सूरी । अगस्तीयः । अगस्ती नेह — सौर्यम् । आगस्त्यम् ।तिष्येति ।नक्षत्रेण युक्तः कालः॑,सन्धिवेलाद्यृतुनक्षत्रेऽभ्योणि॑ति च विहिते नक्षत्रसबन्धिनि अणि परतस्तिष्यपुष्ययोर्यलोप इत्यर्थः । तत्र तिष्यस्य यलोपो नियम्यते । पुष्यस्य त्वप्राप्तो विधीयते । तिष्येण युक्तः पूर्णमासः, तिष्ये भवो वा तैषः । एवं पौषः । नेह — तिष्यस्य पुष्यस्य वाऽयं तैष्यः, पौष्यः । मत्सीति । मत्स्यशब्दाद्गौरादिङीषि यलोपः,यस्येति चे॑त्यकारलोपः । ननुपितृव्यमातुलमातामहपितामहाः॑ इति सूत्रे मातुः पिता पितुः पितेति विग्रहे मातृपितृभ्यां डामहचि टिलोपे मातामहपितामहशब्दौ निपातितौ । तत्र मातुर्माता पितुर्मातेति विग्रहे डामहचः षित्वं विहितं-॒मातरि षिच्चे॑ति ततश्चाषित्त्वविधानादेव ङीष्सिद्धेर्गौरादिषु मातामहीशब्दपाठौ न कर्तव्यः । नचमातरि षिच्चे॑ति न क्रियतामिति वाच्यं, पितामहीत्यत्र ङीषर्थं तस्यावश्यकत्वादित्यत आह — मातरीति । दंष्ट्रेति । दंशेःदाभ्यनीशसे॑ति करणे ष्ट्रन । अत्र षित्त्वे सत्यपि न ङीषिति भावः ।सूर्यादीनामङ्गानामुपधाभूतस्य यकारस्य लोप॑ इति तु न व्याख्यातं, तथा सतिसौरी बलाके॑ति न सिध्येत् । सूर्येणैकदिक् इत्यर्थेतेनैदि॑गित्यणि तदन्तान्ङीप्यणन्तमङ्गं, नतु सूर्यशब्द इति तदसिद्धिः । वचनं तु सूरी कुन्तीत्यत्र चरितार्थमित्यन्यत्र विस्तरः ।
यद्यत्र भत्वेन सूर्यादयो विशेष्यन्ते - सूर्यादीनां भसंज्ञानामिति, ततः सूर्यस्य स्त्री सूरी, आगस्त्यस्य अगस्तीत्यादौ यत्र सूर्याद्येव भसंज्ञकं तत्रैव स्यात्, सौरी बलाकेत्यत्र तु न स्यात्, न ह्यत्र सूर्यशब्द ईति भसंज्ञकः, किं तर्हि अणन्तम् । तस्मादनाश्रितरुपस्य भमात्रस्य लोपेन सम्बन्धः । सूर्यादिभिर्यकारो विशेष्यते एइति दर्शयन्नाह - सूर्यतिष्यागस्त्यमत्स्येत्यतेषामिति । भसंज्ञकस्य यो यकार उपधा तस्य लोपो भवति, स चेत्सूर्यादीनां सम्बन्धीत्यर्थः । सौरीति । अत्र ईति परतो भसंज्ञकमङ्गमणन्तं तस्य यकार उपधा यथा भवति तथा दर्शयति - अणि यो यस्येति लोप इति । व्याश्रयत्वादिति । अणि यस्येति लोपः, ईति यलोप इति व्याश्रयत्वम् । ईकारे तु य इति । लोप इत्यपेक्षते । भस्याणन्तस्येति । भसंज्ञकस्याणन्तस्य यकार उपधा भवतीत्यर्थः । स्थानिवद्भावस्तु द्वयोरपि यस्येतिलोपयोर्यलोपविधिं प्रति प्रतिषिद्धः । मत्स्यचरीति । मत्सी भूतपूर्वेति चरन्, तसिलादिष्विति पुंवद्भावः , टित्वान्ङीप्, भवत्यत्र मत्स्यचरशब्द ईति भसंज्ञकः, मत्स्यसम्बन्धी च यकारः न त्वसौ भसंज्ञकस्योपधेति लोपाभावः । यग्रहणमुतरार्थमिति । इह तु सूर्यादिसम्बन्धी भसंज्ञकस्योपधायकार एव न वर्णान्तरमिति नार्थस्तेन । सौरीय इति । सौर्यशब्दाद्वृद्धच्छः । एवम् - आगस्तीयः । आगस्त्य इति । उपत्ये ऋष्यण् । तिष्यपुष्ययोरिति । तिष्यस्य सत्रेणैव प्राप्ते नक्षत्राणि नियमः, पुष्यस्याप्राप्ते विधिः । सूत्रे त्वर्थग्रहणे सिध्यत्यस्यापि प्रसङ्गः । अन्तिकस्येत्यादि । च्छन्दस्येतदिष्यते । ककारादेः शब्दस्येति । ककारस्याकारस्य चेत्यर्थः । आद्यौदातञ्चेति । प्रत्ययस्वरस्यापवादः । अन्तित इति ।अपादाने चाहीयरुहोः इति तसिः । कादेश्चेति । कशब्दस्येत्यर्थः । अन्तिषदिति । मत्मृद्विप इत्यादिना क्विप् । बह्वचास्तु व्यस्तमधीयते । ये चेति । दृश्यत इत्यपेक्षते । अन्तिय इति । भवे च्छन्दसि इति यत् । कादिलोपस्यासिद्वत्वाद्यस्येनि लोपाभावः ॥