अन्यतो ङीष्

4-1-40 अन्यतः ङीष् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् वर्णात् अनुदात्तात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

यस्य वर्णवाचकशब्दस्य अन्तिमः स्वरः अनुदात्तः अकारः अस्ति; तथा च यस्य उपधायाम् तकारभिन्नः वर्णः विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते ।

Kashika

Up

वेति निवृत्तम्। वर्णादनुदात्तादिति वर्तते, तोपधापेक्षमन्यत्वम्। वर्णवाचिनः प्रातिपदिकादनुदात्तान्तात् स्त्रियां ङीष् प्रत्ययो भवति। स्वरे विशेषः। सा॒र॒ङ्गी। क॒ल्मा॒षी। श॒ब॒ली। वर्णादित्येव — खट्वा॑। अनुदात्तादित्येव — कृ॒ष्णा। क॒पि॒ला॥

Siddhanta Kaumudi

Up

तोपधभिन्नाद्वर्णवाचिनोऽनुदात्तान्तात्प्रातिपदिकात् स्त्रियां ङीष् स्यात् । कल्माषी । सारङ्गी । लघावन्ते द्वयोश्च बह्वचो गुरुः (फि <{SK42}>) इति मध्योदात्तावेतौ । अनुदात्तान्तात्किम् ? कृष्णा । कपिला ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

विशिष्टेभ्यः वर्णवाचकशब्देभ्यः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीष्-प्रत्ययस्य विधानं क्रियते । यस्य वर्णवाचकशब्दस्य अन्तिमः स्वरः अनुदात्तः अकारः अस्ति, तथा च यस्य उपधायाम् तकारभिन्नः कश्चन वर्णः विद्यते; तस्मात् शब्दात् स्त्रीत्वं द्योतयितुम् ङीष् इति प्रत्ययः भवति — इति प्रकृतसूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —‌ 1. सारङ्ग+ ङीष् → सारङ्गी । 2. कल्माष + ङीष् → कल्माषी । 3. शबल + ङीष् → शबली । 4. कर्बुर+ ङीष् → कर्बुरी प्रकृतसूत्रे अन्यतः इति शब्दः प्रयुक्तः अस्ति । अयं शब्दः तकारोपधः इत्यनेन सह अन्वेति; अतः अन्यतः इत्यस्य अर्थः तकारोपधात् अन्यः इति क्रियते । तकारोपधशब्दानां विषये स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रस्य प्रसक्तिः एव नास्ति इति अत्र आशयः । तेषां विषये <<वर्णादनुदात्तात्तोपधात्तो नः>> 4.1.39 इति पूर्वसूत्रेण वैकल्पिकः ङीप्-प्रत्ययः भवति; पक्षे <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्ययः अपि विधीयते ।दलकृत्यम् 1. 'वर्णवाचकशब्दः' इति किमर्थम् ? खट्व इति शब्दः अनुदात्तान्तः अस्ति, अकारान्तः अस्ति परन्तु वर्णवाचकः नास्ति; अतः तस्य विषये इदं सूत्रं न प्रवर्तते । अतः अस्मात् शब्दात् <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्यये कृते खट्वा इति शब्दः सिद्ध्यति । 2. 'अनुदान्तान्तः वर्णवाचकशब्दः' इति किमर्थम् ? कृष्ण, कपिल एतौ शब्दौ अकारान्तौ स्तः परन्तु एतयोः अन्तिमः स्वरः अनुदात्तः नास्ति (स्वरितः अस्ति) । अतः एताभ्याम् विषये प्रकृतसूत्रं न प्रवर्तते; अपितु <<अजाद्यतष्टाप्>> 4.1.4 इति आकारादेशे कृते कृष्णा, कपिला इत्येव शब्दौ सिद्ध्यतः । ङीष्-प्रत्यये इत्संज्ञकवर्णानां प्रयोजनम् ङीष्-प्रत्यये ङकारपकारयोः इत्संज्ञा भवति । तत्र — 1. इत्संज्ञकः ङकारः सामान्यग्रहणार्थः (to capture ङीप् / ङीष् / ङीन् by a common prefix) स्थापितः अस्ति । <<ङ्याप्प्रातिपदिकात्>> 4.1.1 इत्यस्मिन् सूत्रे विद्यमानेन 'ङी' इत्यनेन ङीप्-ङीष्-ङीन्-प्रत्ययानाम् एकत्ररूपेण ग्रहणं भवेत्, इति अत्र प्रयोजनम् । 2. इत्संज्ञकः षकारः सामान्यग्रहणविघातार्थः(to distinguish ङीष् from ङीप् and ङीन्) स्थापितः अस्ति । केवलम् 'ङी' इत्युच्यमाने <<ङ्याप्प्रातिपदिकात्>> 4.1.1 इत्यत्र; तथा च <<ङ्यापोः संज्ञाछन्दसोर्बहुलम्>> 6.3.63 इत्यत्रापि <<तदनुबन्धके न अतदनुबन्धकस्य>> अनया परिभाषया ङीप्-प्रत्ययस्य ङीन्-प्रत्ययस्य च इष्टं ग्रहणं नैव स्यात्, अतः अत्र (व्यर्थः) षकारः अनुबन्धरूपेण स्थापितः विद्यते । ङीप्/ङीष्-प्रत्यययोः भेदः ङीप्-प्रत्ययस्य योजनेन यद् रूपं सिद्ध्यति, तदेव रूपम् ङीष्-प्रत्ययस्य योजनेन अपि सिद्ध्यति । परन्तु तत्र द्वयोः अपि प्रत्यययोः उच्चारणे भेदः विद्यते । ङीप्-प्रत्ययस्य ईकारः <<अनुदात्तौ सुप्पितौ>> 3.1.4 इत्यनेन अनुदात्तसंज्ञकः अस्ति । ङीष्-प्रत्ययस्य ईकारः तु <<आद्युदात्तश्च>> 3.1.3 इत्यनेन उदात्तसंज्ञकः अस्ति । एतादृशं स्वरभेदम् दर्शयितुम् एव आचार्येण एतौ द्वौ पृथक्-प्रत्ययौ कृतौ स्तः ।

Balamanorama

Up

<<अन्यतो ङीष्>> - अन्यतो ङीष् । पञ्चम्यास्तसिः । वर्णादिति, अनुदात्तादिति, तोपधादिति चानुवर्तते । तत्र कस्मादन्यत इत्यपेक्षायां तोपधादिति प्रतियोगित्वेनान्वेति — तोपधापेक्षया अन्यत इति । तदाह — तोपधभिन्नादिति । कल्माषीति । चित्रवर्णेत्यर्थः ।चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे॑ इत्यमरः । सारङ्गीति । सारङ्गः शबले त्रिषु॑ इत्यमरः । 'फिषोऽन्त उदात्तः' इत्यन्तोदात्तत्वशङ्कां व्युदस्यति — लघाविति । एतत्सूत्रंवृषाकपी॑ति सूत्रव्याख्यावसरे व्याख्यातम् । कृष्णा कपिलेति । फिट्स्वरेणान्तोदात्ताविमाविति भावः ।

Padamanjari

Up

सारङ्गकल्माषशब्दौ'लघावन्ते' इति मध्योदातो,'शप आक्रोशे' ,'कल तृपः' ,'शपेर्बश्च' इति कलप्रत्ययः, पकारस्य बकारः, प्रत्ययस्वरेण मध्योदातः शबलशब्दः । खट्वाशब्दो नित्स्वरेणाद्यौदातः,'खट् काङ्क्षे' , ठसूप्रुषिलटिकणिखटिविशिभ्यः क्वन्ऽ । कृष्णशब्दोऽन्तोदातः,'कृषेर्वर्णे' इति नक् प्रत्ययः, इलचि प्रकृते'कपेश्च' इति उणादिषु सूत्रम् । कपिः सौत्रो धातुः, कपिलशब्दोऽन्तोदातः ॥