4-1-63 जातेः अस्त्रीविषयात् अयोपधात् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष्
index: 4.1.63 sutra: जातेरस्त्रीविषयादयोपधात्
जातिवाचि यत् प्रातिपदिकं न च स्त्रियाम् एव नियतमस्त्रीविषयमयकारोपधं च तस्मात् स्त्रियां ङीष् प्रत्ययो भवति। आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक्। सकृदाख्यातनिर्गाह्रा गोत्रं च चरणैः सह। कुक्कुटी। सूकरी। ब्राह्मणी। वृषली। नाडायनी। चारायणी। कठी। बह्वृची। जातेः इति किम्? मुण्डा। अस्त्रीविषयातिति किम्? मक्षिका। अयोपधातिति किम्? क्षत्रिया। योपधप्रतिषेधे हयगवयमुकयमत्स्यमनुष्याणमप्रतिषेधः। हयी। गवयी। मुकयी। मत्सी। मनुषी।
index: 4.1.63 sutra: जातेरस्त्रीविषयादयोपधात्
जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष् स्यात् ।<!आकृतिग्रहणा जातिः!> (वार्तिकम्) ॥ अनुगतसंस्थानव्यङ्ग्येत्यर्थः । तटी ॥<!लिङ्गानां च न सर्वभाक् !> (वार्तिकम्) ॥ सकृदाख्यातनिर्ग्राह्या ॥ असर्वलिङ्गत्वे सत्येकस्यां व्यक्तौ कथनाद्व्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिरिति लक्षणान्तरम् । वृषली । सत्यन्तं किम् ? शुक्ला । सकृदित्यादि किम् ? देवदत्ता ।<!गोत्रं च चरणैः सह !> (वार्तिकम्) ॥ अपत्यप्रत्ययान्तः शाखाध्येतृवाची च शब्दो जातिकार्यं लभत इत्यर्थः । औपगवी । कठी । बह्वृची । ब्राह्मणीत्यत्र तु शार्ङ्गरवादिपाठात् ङीना ङीष् बाध्यते । जातेः किम् ? मुण्डा । अस्त्रीविषयात्किम् ? बलाका । अयोपधात्किम् ? क्षत्रिया ।<!योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः !> (वार्तिकम्) ॥ हयी । गवयी । मुकयी । हलस्तद्धितस्य <{SK472}> इति यलोपः । मनुषी ।<!मत्स्यस्य ङ्याम् !> (वार्तिकम्) ॥ मत्सी ॥
index: 4.1.63 sutra: जातेरस्त्रीविषयादयोपधात्
जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष् स्यात्। तटी। वृषली। कठी। बह्वृची। जातेः किम्? मुण्डा। अस्त्रीविषयात्किम्? बलाका। अयोपधात्किम्? क्षत्रिया। योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः (वार्त्तिकम्) । हयी। गवयी। मुकयी। हलस्तद्धितस्येति यलोपः। मनुषी। मत्स्यस्य ङ्याम् (वार्त्तिकम्) । यलोपः। मत्सी॥
index: 4.1.63 sutra: जातेरस्त्रीविषयादयोपधात्
जातेरस्त्रीविषयादयोपधात् - जातेरस्त्री । अर्थे कार्याऽसंभवाच्छब्दे कार्यं विज्ञायत इत्याह — जातिवाचीति । न च स्त्रियां नियतमिति । स्त्री विषयः=नियमेन वाच्या यस्या इति बहुव्रीहिणा स्त्रीविषयशब्दो नियतस्त्रीलिङ्गपरः । तथा चअस्त्रीविषया॑दित्यनेन अनियतस्त्रीलिङ्गादिति विवक्षितम्, नैयत्यलाभायैव विषयग्रहणम् । अन्यथा 'अस्त्रिया' इत्येवावक्ष्यदिति भावः । ननु यदिनित्यमेकमनेकानुगतं सामान्य॑मिति तार्किकोक्ता जातिस्तर्हि शुक्लादिगुणस्य नित्यत्वैकत्वपक्षे शुक्लेत्यादावतिव्याप्तिः, औपगवी कठीत्यादावव्याप्तिश्च ।सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः॑ इत्यादिस्मृत्या जननेन यत् प्राप्यते ब्राआहृणत्वादि सा जातिश्चेद्युवत्वादावव्याप्तिः । तथा च युवतितरेत्यत्रजातेश्चे॑ति पुंवत्त्वनिषेधो न स्यादिति चेन्न,आकृतिग्रहणा जातिः, लिङ्गानां च न सर्वभाक् । सकृदख्यातनिग्र्राह्रा, गोत्रं च चरणैः सह॑ इति बाष्योक्तत्रिविधजातेर्विवक्षितत्वादित्यभिप्रेत्य भाष्योक्तत्रैविध्यं प्रपञ्चयति — आकृतिग्रहणा जातिरिति ।प्रथमे॑ति शेषः । आकृतिः= अवयवसंनिवेशविशेषः । गृह्रते अनेनेति ग्रहणं=व्यञ्जकम् । करणे ल्युट्, सामान्ये नपुंसकम् । आकृतिग्र्रहणं यस्या इति विग्रहः । उपसर्जनत्वात्टिड्ढाणञि॑ति ङीब्न । फलितमाह — अनुगतेति । सर्वासु घटादितत्तद्व्यक्तिषु एकरूपतत्तदाकारव्यङ्ग्येति यावत् । गृह्रते इति कर्मणि ल्युट्, आकृत्या ग्रहणा आकृतिग्रहणेति तु न व्याख्येयम्,टिड्ढाणञ्इति ङीप्प्रसङ्गात् । तटीति । 'तटं त्रिषु' इत्यमरः । जलसमीपप्रदेश आकृतिविशेषविशिष्टस्तटःष अतस्तटत्वमाकृतिव्यङ्ग्यत्वाज्जातिः, अतस्तटशब्दस्य जातिवाचित्वादिनियतस्त्रीलिङ्गत्वादयोपधत्वाच्च ङीषिति भावः । युवत्वादिकमप्याकृतिव्यङ्ग्यत्वाज्जातिरेव । अनेन प्रथमलक्षणेन अनुगताकारप्रत्ययसिद्धा तटत्वादिजातिरुक्ता ।नन्वेवं सति वृषलत्वादीनां जातित्वं न स्यात्, तदवयवसंनिवेशस्य ब्राहाहृणादिसाधारणत्वेन वृषलत्वादीनां तद्व्यङ्ग्यत्वाऽभावादित्याशङ्क्याह-लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिग्र्राह्रेति ।अन्या जाति॑रिति शेषः । लिङ्गानामिति कर्मणी षष्ठी । सर्वाणि लिङ्गानि न भजते इत्यर्थः । निग्र्राह्रेत्यस्य व्यक्त्यन्तरे उपदेशं विनापि सुगमेत्यर्थः, निरित्युपसपर्गवशात् । निग्र्राह्रेत्यनन्तरम्-॒अन्या जाति॑रिति शेषः । फलितमाह — असर्वेति । एकस्यामिति । एकस्यां व्यक्तौ वृषल इत्युपदेशाद्व्यक्त्यन्तरे तदुपदेशं विनापि सुगमेति यावत् । लक्षणान्तरमिति । जात्यन्तमित्यर्थः । अन्यथोक्ततटत्वादिजातेरेव 'आकृतिग्रहणा जातिः' इत्युक्तलक्षणादन्यदिदं लक्षणमिति स्यात्, नहीदं युज्यते, तटस्य सर्वलिङ्गत्वात् । वृषलीति । वृषलत्वं ह्रसर्वलिङ्गं, नपुंसकत्वाऽभावात्, एकस्यां व्यक्तौ वृषलत्वे उपदिष्टे सति तदपत्यसहोदरादिषु तदुपदेशं विना तस्य सुग्रहत्वात्सकृदाख्यातनिग्र्राह्रं चेति भावः । ब्राआहृणत्वं तु पुत्रपौत्रादौ यद्यपि न सुगमं, ब्राआहृणात्क्षत्रियायामुत्पन्नस्य ब्राआहृणत्वाऽभावात्, तथापि पित्रादौ सुगममेव । एवं क्षत्रियत्वं वैश्यत्वं च तत्पित्रादावेव सुग्रहम् । सत्यन्तं किमिति । असर्वलिङ्गत्वे सतीति किमर्थमित्यर्थः । शुक्लेति ।बलाके॑ति शेषः ।गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति॑ इति कोशाद्विशेष्यनिघ्नतया त्रिलिङ्गत्वादसर्वलिङ्गत्वाऽभावाच्छुक्लत्वं न जातिः । अवयवसंस्थानव्यङ्ग्यत्वाऽभावान्न पूर्वलक्षणमपि । देवदत्तेति । संज्ञात्वेन नपुंसकलिङ्गहीनतया असर्वलिङ्गत्वेऽपि न सकृदाख्यातनिग्र्राह्रत्वमिति भावः । अनेन द्वितीयलक्षणेन जनननिमित्तकब्राआहृणत्वादिजातिसङ्ग्रहः । नन्वेवमपि औपगवी कठीत्याद्यसङ्ग्रहः, औपगवत्वादेरनुगतसंस्थानव्यङ्ग्यत्वाऽभावात्, सर्वलिङ्गत्वाच्चेत्यत आह — गोत्रं च चरणैः सहेति ।जाति॑रित्यनुषज्यते । गोत्रशब्देन अपत्यं विवक्षितं, नतु पौत्रप्रभृतीति परिभाषिकं, व्याख्यानात् । अत एवानन्तरापत्यप्रत्ययान्ते अवन्तीत्यत्र जातिप्रयुक्तो ङीषितिअनुपसर्जना॑दिति सूत्रस्थभाष्यं सङ्गच्छते । शब्देन्दुशेखरे तु पारिभाषिकमेव गोत्रमिह विवक्षितमिति प्रपञ्चितम् । चरणशब्दस्तु शाखाध्येतरि प्रसिद्धः । चरणैः सह गोत्रं जातिरिति लभ्यते । गोत्रं चरणाश्च जातिरिति यावत् । यद्यपि अनुगताकारप्रत्ययवेद्या जननविशेषप्रयुक्ता चेति द्विविधैव जातिर्लोके प्रसिद्धा । तत्र गोत्रचरणा नान्तर्भवन्ति । तथापितस्मस्तच्छब्दस्तद्वाचिषु शब्देषु तत्कार्यार्थ॑ इत्यभिप्रेत्य व्याचष्टे — अपत्यप्रत्ययान्त इत्यादिना । गोत्रमुदाहरति — औपगवीति । उपगोरपत्यं स्त्रीत्यर्थेतस्यापत्य॑मित्यणिटिड्ढाण॑ञिति ङीपं बाधित्वा परत्वादनेन ङीष् । स्वरे भेदः । चरममुदाहरति — कठीति । कठेन प्रोक्तमधीयानेत्यर्थः । कलापीति वैशम्पायनान्तेवासित्वनिबन्धनो णिनिः ।कठचरकाल्लु॑गिति तस्य लुक् । ततःतदधीते॑इत्यणःप्रोक्ताल्लु॑गिति लुक्, ततो ङीष् । चरणविषये उदाहरणान्तरमाह — वह्वृचीति । बहव ऋचोऽध्येया यस्या इति विग्रहः ।ऋक्पूरब्धूःपथामानक्षे॑अनृचबह्वृचावध्येतर्येव॑ इत्यच्समासान्तः, ततो ङीष् ।पुरा कल्पे तु नारीणां मौञ्जीबन्धनमिष्यते । अध्यापनं च वेदानां सावित्रीवचनं तथा.॑ इति यमादिस्मृतिः । ननुलिङ्गानां च न सर्वभाक् इतिगोत्रं च चरणैः सहे॑ति च जातिलक्षणे ब्राआहृणीति परित्यज्य वृषली औपगवीत्येव कुत उदाहृतमित्यत आह — ब्राआहृणीत्यत्रेति । ब्राहृणोऽपत्यमित्यर्थे 'तस्यापत्यम्' इत्यणि 'ब्राआहृओऽजातौ' #इति टिलोपाऽभावे आदिवृद्धौ ब्राआहृणशब्दः । स्त्रियां तु जातिलक्षणं ङीषं बाधित्वाशाङ्र्गरवाद्यञो ङी॑निति ङीन्, शाङ्र्गरवादिगणे तत्पाठस्य निरवकाशत्वादिति भावः । तदेवं जातिस्वरूपमुक्त्त्वा ङीष्विधौ तद्ग्रहणस्य प्रयोजनं पृच्छति — जातेःकिमिति मुण्डेति । मुण्डत्वं नाम विलुप्तसर्वकेशत्वम् । तत्तु नाकृतिव्यङ्ग्यं, केशदशायामपि तदाकृतेः सत्त्वात् । नापिलिङ्गानां चे॑ति लक्षणलक्षितं, सर्वलिङ्गत्वात् । नापि गोत्रचरणान्तर्भूतं, अतो न जातिरिति भावः । अस्त्रीविषयात्किमिति । विषयग्रहणलभ्यं नियतत्वं प्रव#एश्य अनियतस्त्रीलिङ्गादिति किमर्थमित्यर्थः । बलाकेति । पक्षिवर्गे 'बलाका विसकण्ठिका' इत्यमरः । बलाकात्वस्य आकृतिव्यङ्ग्यतया जातित्वेऽपि नियतस्त्रीलिङ्गत्वान्न ङीषित्यर्थः । यद्यपि बलां कायतीति यौगिकत्वे त्रिलिङ्गत्वमस्ति, तथापि प्रवृत्तिनिमित्तैक्यस्त्रीलिङ्गान्यलिङ्गरहितभिन्नादित्यर्थो विवहितम् । क्षत्रियेति ।लिङ्गानां च न सर्वभा॑गिति जातिलक्षणसत्त्वेऽपि योपधत्वान्न ङीषिति भावः ।योपधप्रतिषेधे हयगवयेति । वार्तिकमिदम् । हयादानां योपधत्वेऽपि ङीष् वाच्य इत्यर्थः । हयीति । अआआ प्रसिद्धा । गवयीति । गोसदृशश्चतुष्पाज्जातिविशेषः । मुकयीति । चतुष्पाज्जातिविशेषः । हल इति । मनुष्यशब्दात्स्त्रियां ङीषि मनुष्य-ई इति स्थितेहलस्तद्धितस्ये॑ति यकारस्य लोपेयस्येति चे॑त्यकारलोपे मनुषीति रूपमित्यर्थः ।हलस्तद्धितस्ये॑ति लोपप्रवृत्तये यकारस्य तद्धितावयवत्वं दर्शयितुमाह — मनोर्जाताविति । तद्धिताधिकारेऽपत्याधिकारस्थमिदं सूत्रम् ।मनुशब्दादपत्येऽञ्यतौ प्रत्ययौ स्तः, प्रकृतेः षुक्च, प्रकृतिप्रत्ययसमुदायेन जातौ गम्यायामिति तदर्थः ।मात्स्यशब्दान्ङीषि यकारस्य तद्धितावयवत्वाऽभावादप्राप्ते लोपे आह — मत्स्यस्य ङ्यामिति ।सूर्यतिष्ये॑ति सूत्रे वार्तिकमिदम् । मत्स्यस्यावयवस्य यकारस्य लोपः स्यान्ङ्यामेवेति नियमार्तमिदम् । मत्सीति । ङीषि यकारलोपेयस्येति चे॑ति लोप इति भावः । ङ्यांकिम् । मात्स्योऽवतारः ।
index: 4.1.63 sutra: जातेरस्त्रीविषयादयोपधात्
अस्त्रीविषयादित्यनन्यभावे विषयशब्द इत्याह - न च स्त्रैयामिति । स्त्रियामेव यस्य नियमेन वृत्तिस्तत्स्त्रीविषयम्, ततोऽन्यदस्त्रीविषयमित्यर्थः । इह लौकिकजातिग्रहणे ब्राह्मणत्वादीनां गोत्रस्य च नाडायनादेर्जातित्वे वादिनां विप्रतिपतेः, चरणशब्दानां च कठादीनामध्ययनक्रियासम्बन्धनिबन्धनत्वेन पाचकादिवत्क्रियाशब्दत्वेनाव्याप्तिरित्यभिमतां जाति लक्षयति - आकृतिग्रहणा जातिरिति । गृह्यतेऽनेनेति ग्रहणमिति करणसामान्ये पदं संस्क्रियते, पश्चादाकृतिशब्दसमवधाने स्त्रीत्वं प्रतीयमानं बहिरङ्गत्वात् प्रत्ययस्य निमितं न भवति । ग्रहणमाकृतिर्यस्या इति ग्रहणरूपोद्देशेनाकृतिरूपता विधीयते, न त्वाकृतिरूपोद्देशेन ग्रहणरूपतेत्यर्थः । आकृतिःउसंस्थानम्, सा ग्रहणं यस्याः साऽऽकृतिग्रहणा, अवयवसन्निवेशविशेषव्यङ्ग्येत्यर्थः । अनेन गोत्वादिजातिर्लक्षिता । ब्राह्मणत्वादिजातिस्तु न संगृहीता भवति, ब्राह्मणक्षत्रियादीनां संस्थानस्य सदृशत्वादिति तत्संग्रहायाऽऽह - लिङ्गानां चेति । सर्वाणि लिङ्गानि न भजतीत्ययमर्थो विवक्षितः । तत्र सर्वशब्दस्य लिङ्गापेक्षत्वेऽपिगमकत्वाद्भजो ण्विप्रत्ययः, समासश्च ।'लिङ्गानाम्' इति कर्मणि षष्ठी । अप्राप्तप्रापणार्थं चेदं वचनम्, न त्वाकृतिग्रहणेत्यस्य सङ्कोचकम्; तेन तटादेः सर्वलिङ्गत्वेऽपि आकृतिग्रहणत्वाज्जातित्वं भवत्येव । इह कस्मान्न भवति - देवदतः, देवदतेति ?उपदेशापेक्षमिदं लक्षणम् । कोऽर्थः ? असर्वलिङ्गेषु येषु जातिवाचित्वमाचार्या उपदिशन्ति तेष्वेव भवतीत्यर्थः । आकृतिग्रहणाया जातेरेकत्वनित्यत्वप्रत्येकपरिसमाप्तत्वलक्षणान् धर्मानाह - सकृदिति । एकस्मिन्पिण्डे सकृदुपदिष्टा ठयं गौःऽ इति पिण्डान्तरे निर्ग्राह्या, निश्चेतुं शक्येत्यर्तः । यदि चैका न स्यात्, नैव गृह्यएत । तथा नित्यत्वाभावेऽपि पिण्डेन सह विनाशात्पिण्डान्तरे न गृह्यएत । यदि च प्रत्येकं सर्वात्मना परिसमाप्ता न स्यात्, तस्मिन्नपि तावत्पिण्डे सर्वात्मना न गृह्यएत यत्राख्याता, किं पुनः पिण्डान्तरे ! कथं पुनरेकमेव वस्तु बहुत्र युगपत्कार्त्स्येन वर्तते, न हि देवदतस्तदानीमेव स्रुघ्ने भवति मधुरायां च ? दृश्यते चेत्को दोषः, न हि दृष्टेऽनुपपन्नं नाम ! गोत्रमिति । अपत्यमित्यर्थः । चरणशब्देन शाखाध्यायिनो गृह्यन्ते, गोत्रस्यानाकृतिग्रहणत्वात् सर्वलिड्गत्वाच्च पृथगुपादानम्,'नाडायनं नपुंसकम्' इति दर्शनात् । चरणशब्दस्त्वध्ययनक्रियासम्बन्धेन प्रवृतत्वात्क्रियाशब्द एव, न जातिशब्दः । कुक्कुटी, सूकरीति । आकृतिग्रहणाया जातेरुदाहरणम् । ब्राह्मणैइ, वृषलीत्यसर्वलिङ्गायाः । तत्र ब्राह्मणीति रूपोदाहरणम् । शार्ङ्गरवादिष्वस्य पाठाद् वृषलीत्येतदेव ङीप उदाहरणम् । नाडायनी, चारायणीति । गोत्रलक्षणायाः'नडादिभ्यः फक्' । अपत्यमात्रस्य ग्रहणादनन्तरापत्येऽपि भवति - अवन्ती, कुन्तीति, ठितो मनुष्यजातेःऽ इति ङीष्भवति । इह तु कुलस्यापत्यं कुलीना ब्राह्मणीति ङीष् न भवति; अजादिषु दर्शनादित्याहुः । कठीति । कठेन प्रोक्तम्, वैशम्पायनान्तेवासित्वाण्णिनिः, तस्य'कठचरकात्' इति लुक्, ततः'तदधीते' इत्यण्, तस्य'प्रोक्ताल्लुक्' इति लुक् । बहवृचीति । बह्व्य ऋचोऽस्या इति बहुव्रीहिः,'बह्वृश्चरणाख्यायाम्' इत्यकारः समासान्तः । कथं पुनः स्त्री नामाधीते ? मा नामाधिगीष्ट, तद्वंश्यत्वातु ताच्छद्ब्यं भविष्यति, यथा - अनधीयमाने माणवके । अत्रापरं जातिलक्षणमुक्तं भाष्ये - प्रादुर्भावविनाशाभ्यां सत्वस्य युगपद्गुणैः । असर्वलिङ्गां बह्वर्थां तां जातिं कवयो विदुः ॥ इति । सत्वस्य प्रादुर्भावविनाशाभ्यां याऽऽविर्भावतिरोभावो प्राप्नोति, यावद्द्रव्यभाविनीत्यर्थः । गुणैश्च युगपद् द्रव्येण सम्बध्यते यथा निर्गुणं द्रव्यं न भवति, तथा जातिरहितमपीत्यर्थः । बह्वर्थामिति । अर्थशब्दो विषयवाची, बहुविषयां बहुव्यक्तिव्यापिनीमित्यर्थः । असर्वलिङ्गामिति । पूर्वल्लक्षणान्तरम् । तत्र यथा पूर्वलक्षणं तथा कुमारीभार्या इति भवितव्यम्, कथम् ? कौमारमयावद्द्रव्यभाव्यपि आकृतिग्रहणत्वाद्भवनति जातिः, ततश्च'जातेश्च' इति पुंबद्भावप्रतिषेधः । वृद्धा, स्थविरेत्यादौ च जातिलक्षणो ङीष्प्राप्नोति, यथा पुनरुतरं तथा कौमारादिकं जातिर्न भवति; अयावद्द्रव्यभावित्वात् । तत्र पूर्वकं लक्षणं भाष्यकारस्याभिमतम्, नोतरम्; अपर आहेत्यभिधानात् । तथा च ङ्याप्सूत्रे युवतितरेत्यत्र'तसिलादिषु' इति प्राप्तस्य पुंवद्भावस्य'जातेश्च' इति निषेध आश्रितः । अत एव वृत्तिकारेणाप्येतदेव लक्षणमुपन्यस्तमिति केचिदाहुः । एवमपि युवजानिरित्यत्र पुंवद्भावो न प्राप्नोति, तस्माद् द्वितीयमेव लक्षणं साधीयो मन्यामहे । अत एव वृद्धा, स्थविरेति जातिलक्षणो ङीष्न भवति । युवतितरेत्यत्र तु भाष्यकारप्रयोगात्पुंवद्भावाभावः । मुण्डेति । गुणशब्दोऽयम् । मक्षिकेति । स्त्रियामेवायं नियतः । इह कस्मान्न भवति - माला, बलाकेति ? मालाशब्दो मलनं माल इति घञन्तः पुंल्लिङ्गः, क्षेत्रविशेषे नपुंसकः, स्रजि स्त्रीलिङ्गः । बलाकाशब्दो हि बलां कायतीति यौगिकः सर्वलिङ्गः, बकजातिवचनः स्त्रीलिङ्गः । नात्र यथाकथञ्चिदस्त्रीलिङ्गविषयत्वं विवक्षितम् , किं तर्हि ? यस्मिन्प्रवृत्तिनिमिते स्त्रीलिङ्गस्तस्मिन्नेव निमिते यल्लिङ्गान्तरेऽपि वर्तते तदस्त्रीविषयम् । यथा पुनरयं शब्दार्थस्तथा'स्त्रियाः पुंवत्' इत्यत्र वक्ष्यामः । तेन निमितभेदेन नानालिङ्गेषु नायं विधिर्भवति । यद्येवम्, द्रोणी, वुटी, पात्रीत्यत्र न प्राप्नोति ? द्रोणशब्दः प्रमाणविशेषे पुंल्लिङ्गः; गवादिन्यां तु स्त्रीलिङ्गः; कुटशब्दो घटे पुंल्लिङ्गः, गेहे तु स्त्रीलिङ्गः; गौरादिपाठात्सिद्धम् । हयगवयेत्यादि । गौरादिष्विदानीन्तनैर्हयादयः प्रक्षिप्ता इति वार्तिककारवचनाद्विज्ञायते ॥