6-4-150 हलः तद्धितस्य असिद्धवत् अत्र आभात् भस्य लोपः ईति यः उपधायाः
तद्धित इति निवृत्तम्। हल उत्तरस्य तद्धितयकारस्य उपधाया ईति परतो लोपो भवति। गार्गी। वात्सी। हल इति किम्? कारिकेयी। तद्धितस्येति किम्? वैद्यस्य भार्या वैद्यी॥
हल उत्तरस्य तद्धितयकारस्योपधाभूतस्य लोपः स्यादीति परे । गार्गी ।<!अनपत्याधिकारस्थान्न ङीप् !> (वार्तिकम्) ॥ द्वीपे भवा द्वैप्या । अधिकारग्रहणान्नेह । देवस्यापत्यं दैव्या । देवाद्यञञाविति हि यञ् प्राग्दीव्यतीयो न त्वपत्याधिकारपठितः ॥
हलः परस्य तद्धितयकारस्योपधाभूतस्य लोप ईति परे । गार्गी ॥
<<हलस्तद्धितस्य>> - हलस्तद्धितस्य । 'हल' इति दिग्योगे पञ्चमी ।परस्ये॑त्यध्याहार्यम् ।यस्येति चे॑ति सूत्रादीतीत्यनुवर्तते,सूर्यतिष्यागस्त्ये॑त्यतः 'उपधाया' इति षष्ठन्तं च, 'ढे लोपोऽकद्र्वाः' इत्यतो 'लोप' इति च । तदाह — हलः परस्येत्यादिना । अकारलोपात्प्रागेव यकारलोपो न संभवति, अकारे सति यकारस्य ईकारपरकत्वाऽभावात् । ननु कृतेऽकारलोपे खतं यकारस्य उपधात्वम् । नच अल्लोपस्य स्थानिवत्त्वं शङ्क्यं, यलोपविधौ तन्निषेधादिति चेन्न, यलोपे कर्तव्येऽल्लोपस्याभीयत्वेनाऽसिद्धतया यकारस्य उपधात्वसंभवात् । उपधाग्रहणाननुवृत्तौ त्वल्लोपस्याऽसिद्धत्वाद्यकारस्य ईकारपरकत्वाऽभावाल्लोपो न स्यात् । यदा तु सूत्रारम्भसामर्थ्यादेवाकारव्यवधाने ।ञपि यकारस्य लोपः सम्भवतीत्युच्यते, तदोपधाग्रहणानुवृत्तिर्मास्तु । गार्गीति । इहगोत्रं च चरणैः सहे॑ति जातित्वेऽपिजातेरस्त्रीविषया॑दिति न ङीष्, योपधत्वात् । अनपत्याधिकारेति ।तस्यापत्य॑मित्यपत्याधिकारविहितभिन्नयञन्तान्न ङीबिति वक्तव्यमित्यर्थः । द्वैप्येति । द्वीपे भवेति विग्रहेद्वीपादनुसमुद्र यञि॑ति यञ् । आदिवृद्धिः ।यस्येति च॑ । टापि सवर्णदीर्घः । अस्य यञोऽपत्याधिकारविहितत्वाऽबावान्न ङीबिति भावः । नन्वपत्यान्न ङीबित्येतावतैव द्वैप्येत्यत्रातिप्रसङ्गनिरासादधिकारग्रहणं किमर्थमित्यत आह-अधिकारग्रहणादिति ।इह ने॑ति शेषः । देवस्यापत्यमिति विग्रहे 'देवाद्यञञौ' इति यञ्, आदिवृद्धिः,यस्येति च॑ । दैव्यशब्दाट्टाप्, सवर्णदीर्घः, दैव्येति रूपम् ।अनपत्यान्न ङी]बित्युक्ते त्वस्य यञ आपत्यत्वान्ङीब्निषेधो न स्यात् । अधिकारग्रहणे तु अत्रापि निषेधः स्यादेव, अस्य यञ आपत्यत्वे ।ञपितस्यापत्य॑मित्यधिकारबहिर्भूतत्वात् । तदेतदुपपादयति — देवादिति । 'देवाद्यञञौ' इति तुतस्यापत्य॑मित्यदिकारात्प्रागेवप्राग्दीव्यतो॑णित्यधिकारपठितः । स चाऽपत्यादिविकारान्तार्थेषु साधारणत्वादपत्यार्थकोऽपि भवति, न त्वपत्याधिकारपठित इत्यर्थः । यद्यपियञश्चे॑ति सूत्रेआपत्यग्रहणं कर्तव्य॑मित्येव भाष्ये दृश्यते, तथापि तत्र आपत्यपदमपत्याधिकारविहितपरमिति मनोरमायां शब्दरत्ने च प्रपञ्चितम् ।
तद्धित इति निवृतमिति । उतरसूत्रे पुनस्तद्धितग्रहणात्, तेनायमीत्येय विधिः ॥